________________
मूलं-१
१३ हि यस्य शब्दस्वार्थ: स तेन सह संस्पृष्टः शाब्दे ज्ञाने प्रतिभासते, यथा गोशब्देन गोपिण्डः, एतावन्मात्रनिबन्धनत्वाद् वाच्यत्वस्येति, तदेतदसमीचीनम्, इन्द्रियगम्यार्थस्य शाब्दे ज्ञाने शब्देन सहानवभासासिद्धेः, तथाहि-कृष्णं महान्तमखण्डंमसणमपूर्वमपवरकात् घटमानयेत्युक्तः कश्चित् तज्ज्ञानावरणक्षयोपशमयुक्तः तमर्थं तथैव प्रत्यक्षमिवशाब्दे ज्ञाने वस्तुनः प्रतिभासोऽनुभूयते, स्फुटाभं च प्रत्यक्षं, तत्कथंप्रत्यक्षगम्यं वस्तु शाब्दज्ञानस्य विषयः?, नैष दोषः, स्फुटास्फुटरूपप्रतिभासभेदमात्रेण वस्तुभेदायोगात्, ___ तथाहि-एकस्मिन्नैव नीलवस्तुनि दूरासनवर्तिप्रतिपत्तृज्ञाने स्फुटस्फुटप्रतिभासे उपलभ्येते, न च तत्र वस्तुभेदाभ्युपगमः, द्वयोरपि प्रत्यक्षप्रमाणतयाऽभ्युपगमात्, तहाप्येकस्मिन्नपि वस्तुनीन्द्रियजशाब्दज्ञाने स्फुटास्फुटप्रतिभासे भविष्यतो, न च तद्गोचरवस्तुभेदः, अथवस्त्वभावेऽपि शाब्दज्ञानप्रतिभासाविशेषात् सत्यपि वस्तुनि शाब्दज्ञानं न तद्याथात्म्यसंस्पशि, तद्भावाभावयोरननुविधानात्, यस्य हि ज्ञानस्य प्रतिभासो यस्य भावभावावनुविधत्ते तत्तस्य परिच्छेदकं, न चशाब्दज्ञानप्रतिभासो वस्तुनो भावभावावनुविधत्ते, वस्त्वभावेऽपि तदविशेषात्, तन्न वस्तुनः परिच्छेदकं शाब्दज्ञानं रसज्ञानमिव गन्धस्य, प्रमाणं चात-यज्ज्ञानं यदन्वयव्यतिरेकानुविधायि न भवति न तत्तद्विषयं, यथारूपज्ञानं रसविषयं, न भवति चेन्द्रियगम्यार्थान्वयव्यतिरेकानुविधायि शाब्दं ज्ञानमिति व्यापकानुपलब्धेः प्रतिनियतवस्तुविषयक्त्वं हि ज्ञानस्यनिमित्तवत्तया व्याप्त, अन्वयव्यतिरेकानुविधानभावे च निमित्तवत्त्वाभावः स्यात्, निमित्तान्तरासम्भवात्, तेन तद्विषयवत्त्वं निमित्तवत्त्वाभावाद्विपक्षाव्यापकानुपलब्ध्याव्यावर्त्तमानमन्वयव्यतिरेकानुविधानेन व्याप्यते इति प्रतिबन्धसिद्धेः, तदयुक्मत्, प्रत्यक्षज्ञानेऽप्येवमविषयत्वप्रसक्तेः,
तथाहि-यथा जलवस्तुनि जलोल्लेखि प्रत्यक्षमुदयपदवीमासादयति तथा जलाभावेऽपि मरौ मध्याह्नमार्तण्डमरीचिकास्वर्णजलप्रतिभासमुदयमानमुपलभ्यते ततो जलाभावेऽपि जलज्ञानप्रतिभासाविशेषात् सत्यपि जले जलप्रत्यक्ष प्रादुर्भवन तद्याथात्म्यसंस्पर्शि, तद्भावाभावयोरननुकारादित्यादि सर्वं समानमेव, अत्र देशकालस्वरूपपर्यालोचनया तत्प्राप्त्यभावादिना च मरुमरीचिकासुजलोल्लेखिनः प्रत्यक्षस्य भ्रान्तत्वमवसीयते, भ्रान्तंचाप्रमाणं, ततोन तेन व्यभिचारः, प्रमाणभूतस्य चवस्त्वन्वयव्यतिरेकानुविधायित्वाद्व्यभिचारएव, तदेतदन्यत्रापि समानं, तथाहियथार्थदर्शनादिगुणयुक्तः पुरुष आप्तः, तत्प्रणीतशब्दसमुत्थंच ज्ञानंप्रमाणं, न च तस्य वस्त्वन्वयव्यतिरेकानुविधायित्वव्यभिचारसम्भवः, यत्पुनरनाप्तप्रणीतशब्दसमुत्थं ज्ञानंतदप्रमाणं, अप्रमाणत्वाच्च न तेन व्यभिचारः,
यदपिच प्रमाणमुपन्यस्तं तदपि हेतोरसिद्धत्वान्न साध्यसाधनायालं, असिद्धता चहेतोराप्तप्रणीतशब्दस्यवस्तुव्यतिरेकेण प्रवृत्त्यसम्भवात्, यत्पुनरिदमुच्यते-शब्दः श्रूयमाणो वक्रभिप्रायविषयं विकल्पप्रतिबिम्बंतत्कार्यतया धूम इव वह्निमनुमापयति, तत्र स एव वक्ता विशिष्टार्थाभिप्रायशब्दयोराश्रयो धर्मी, अभिप्रायाविशेष: साध्यः, शब्दः साधनमिति, तदाह-'वक्तुभिप्रेतं तुसूचयेयु'रिति स एव तथा प्रतिपद्यमान आश्रयोऽस्त्विति, तत्पापात्पापीयः, तथाप्रतीतेरभावाद, नखलु कश्चिदिहधूमादिववह्नितत्कालर्यतयाशब्दादभिप्रायविषयं विकल्पप्रतिबिम्बमनुमिमीते, अपि तु वाचकत्वेन बाह्यमर्थं प्रत्येति, देशान्तरे कालान्तरे च तथाप्रवृत्त्यादिदर्शनात्, न च For Private & Personal Use Only
www.jainelibrary.org
Jain Education International