________________
नन्दी-चूलिकासूत्र कतिपयदिनान्तरं स नवलकस्वामी देशान्तरादागतः, तं च नवलकं तस्य पार्वे याचितवान्, सोऽपि नवलकं समर्पयमास, परिभावितं तेन मुद्रादिकं, तथैव दृष्टं, ततो मुद्रां स्फोटयित्वा यावत्पणान् परिभावयति तावद्धीनवर्णकसुवर्णमयान् पश्यति, ततो बभूव राजकुले व्यवहारः, पृष्टः कारणिकै:-कः कालः आसीत् ? यत्र त्वया नवलको मुक्त इति, नवलकस्वामी आहअमुक इति, ततः कारणिकैरुक्तं-सचिरन्तनकालोऽधुनातनकालकृताश्च दृश्यन्तेऽमी पणाः, ततो मिथ्याभापी नूनमेष निक्षेपग्राहीति दण्डितो, दापितश्चेतरस्य तावतः पणानिति । कारणिकानामौत्पत्तिकी बुद्धिः २१ ।
'भिक्खु'त्ति भिक्षूदाहरणं, तद्भावना-कोऽपि कस्यापि भिक्षोः पार्वे सुवर्णसहस्र निक्षिप्तवान्, कालान्तरे च याचते, स च भिक्षुर्न प्रयच्छति, केवलमद्य कल्ये वा ददामीति प्रतारयति, ततस्तेन छूतकारा अवलगिता: ततस्तैः प्रतिपन्न-निश्चितं तव दापयिष्यामः, ततो द्यूतकारा रक्तपटवेषेण सुवर्णखुट्टिका गृहीत्वा भिक्षुसकाशं गता वदन्ति च-वयं चैत्यवन्दनाय देशान्तरं यियासवो यूयं च परमसत्यतापात्रमत एताः सुवर्णखोटिका युष्मत्पार्वे स्थास्यन्ति, एतावति चावसरे पूर्वेसंकेतितः स पुरुष आगतो, याचते स्म च-भिक्षो ! समर्पय मदीयां स्थापनिकामिति, ततो भिक्षुणाऽभिनवमुच्यमानसुवर्णखुट्टिकालम्पटतया समपिता तस्य स्थापनिका तस्मै मा एतासामहमनाभागी जायेयतिबुद्धया, तेऽपि च द्यूतकार: किमपि भिषान्तरं कृत्वा स्वसुवर्णखुट्टिका गृहीत्वा गताः । द्यूतकारणामौत्पत्तिकी बुद्धि: २२।
'चेडगनिहाण'न्ति चेटका-बालकाः निधानं-प्रतोतं, दृष्टान्तभावना-द्वौ पुरुषौ परस्परं प्रतिपन्नसखिभावौ, अन्यदा क्वचित्प्रदेशे ताभ्यां निधानमुपलेधे, तत एको मावायी ब्रूतेश्वस्तनदिवसे शुभे नक्षत्रे गृहीष्यामो, द्वितीयेन च सरलमनस्कतया तथैव प्रतिपन्न, ततस्तेन मायविना तस्मिन् प्रदेशे रात्रावागत्य निधानं हत्वा तत्राङ्गारकाः प्रक्षिप्ताः, ततो द्वितीये दिने तौ द्वावपि सह भूत्वा गतौ, दृष्टवन्तौ तत्रागारकान्, ततो मायावी माययासोरस्ताडमाक्रन्दितुं प्रावर्तत, वदति च-हा हीनपुण्या वयं दैवेन चक्षुषी दत्त्वाऽस्माकं समुत्पाटिते यन्निधानमुपदिश्याङ्गारका दर्शिताः, पुन: पुनश्च द्वितीयस्य मुखमवलोकते, ततो द्वितीयेन जज्ञे-नूनमनेन हतं निधानमिति, ततस्तेनाप्या-कारसंवरणं कृत्वा तस्यानुशासनार्थम्चेमा वयस्य! खेदं कार्षीः, न खल खेदः पुनर्निधान-प्रत्यागमनहेतुः, ततो गतौ द्वावपि स्वं स्वं गृहं, ततो द्वितीयेन तस्य मायाविनो लेप्यमयी सजीवेव प्रतिमा कारिता, द्वौ च गृहीतौ मर्कटको, प्रतिमायाश्चोत्सने हस्ते शिरसि चान्यत्र च यथायोगं तयोर्मर्कटयोर्योग्य भक्ष्यं मक्तवान्, तौ च मर्कटौ क्षुधापीडितौ तत्रागत्य प्रतिमाया उत्सङ्गादौ भक्ष्यं भक्षितवन्तौ, एवं च प्रतिदिनं करणे तयोस्तादृश्येव शैली समजनि, ततोऽन्यदा किमपि पर्वाधिकृत्य मायाविनो द्वावपि पुत्रौ भोजनाय निमन्त्रितौ, समागतौ च भोजनवेलायां तद्गृहे, भोजितौ च तौ तेन महागौरवेण, भोजनानन्तरं च तौ महता सुखेनान्यत्र सङ्गोपितौ, ततः स्तोक-दिनावप्ताने मायावी स्वपुत्रसाराकरणाय तद्गृहमागतः, __ततो द्वितीयस्तं प्रति ब्रूते-मित्र ! तौ तव पुत्रौ मर्कटावभूतां, ततः सखेदं विस्मितचेता गृहमध्यं प्रावशित्, ततो लेप्मयी प्रतिमामुत्सार्य तत्स्थाने समुपवेशितो, मुक्तौ स्वस्थानात् मर्कटकौ, तौ च किलकिलायमानौ तस्योत्सङ्गे शिरसि स्कन्धे हस्ते चागत्य विलग्नौ, ततो For Private & Personal Use Only
www.jainelibrary.org
Jain Education International