________________
मूलं - ९८
१४५
नेच्छति, ततस्तेन ग्रामेयकेण चिन्तितं, हस्ती हस्तिना प्रेयंत ततो धूर्त्त एप नागरिको वचनेन मां छलितवान् नापरनागरिकधूर्त पश्चात्कर्त्तु, शक्यते, इत्यनेन सह कतिपयदिनानि व्यवस्थां कृत्वा नागरिकधूत्तानवलगामि, तथैव कृतवान्, दत्ता चैकेन नागरिक भूर्तेन तस्मै बुद्धि:, ततस्तद्वृद्धिबलेनापूपिकापणे मोदकमेकमादाय प्रतिद्वन्द्विनं धूर्त्तमाकारितवान्, साक्षिणश्च सर्वेऽप्याकारिताः, ततस्तेन सर्वसाक्षिसमक्षमिन्द्रकीलक मादकोऽस्थाप्यत, भणितश्च मोदकोयाहि २ मोदक !, सन प्रयाति, ततस्तेन साक्षिणोऽधिकृत्योक्तं मयैवं युष्मत्पसक्षमं प्रतिज्ञातंयद्यहं जितो भविष्यामि तर्हि स मोदको मया दातव्यो यः प्रतलाद्वारेण न निर्गच्छति, एषोऽपि न याति तदस्मादहं मुत्कल इति, एतच्च साक्षिभिरन्यैश्च पार्श्ववर्त्तिभिर्नागरिकैः प्रतिपन्नमिति प्रतिजित: प्रतिद्वंदी धूर्त्तः द्यूतकारः, नागरिक धूर्त्तस्योत्पत्तिकी बुद्धिः । २
'रुक्खेति' वृक्षोदाहरणं, तद्भावना- कचित्पथिकानां सहकारफलान्यादातुं प्रवृत्तानामन्तरायं मर्कटका विदधते, ततः पथिकाः स्वबुद्धिवशाद्वस्तुतत्त्वं पर्यालोच्य मर्कटानां सम्मुखं लोष्टकान् प्रेषयामासुः, ततो रोषाबद्धचेतसो मर्कटाः पथिकानां सम्मुखं सहकारफलानि प्रचिक्षिपुः । पथिकानामौत्पत्तिकी बुद्धिः ३ ।
-
तथा खुड्डग' त्ति अंगुलीयकाभरणं, तदुदाहरणभावना - राजगृहं नगरं तत्र रिपुसमूहविजेता राजा प्रसेनजित्, भूयांसस्तस्य सूनवः, तेषां च सर्वेषामपि मध्ये श्रेणिको राज्ञा नृपलक्षणसम्पन्नः स्वचेतसि परिभावित:, अत एव च तस्मै न किञ्चिदपि ददाति, नापि वचसाऽपि संस्पृशति, मा शेषेरेप परासुर्विधीयेतेति बुद्ध्या, स च किञ्चिदप्यलभमानो मन्युभरवशात् प्रस्थितो देशान्तरं जगाम, क्रमेण वेन्नातटं नगरं तत्र च क्षीणविभवस्य श्रेष्ठनो विपणौ समुपविष्टः, तेन च श्रेष्ठिना तस्यामेव रात्रौ स्वप्ने रत्नाकरो निजदुहितरं परिणयन् दृष्ट आसीत्, तस्य च श्रेणिकपुण्यप्रभावतस्तस्मिन् दिवसे चिरसंचितप्रभूतक्रयाणकविक्रेण महान् लाभः समुदपादि, म्लेच्छहस्ताच्चानर्थ्याणि महारत्नानि स्वल्पमूल्येन समपद्यन्त ततः सोऽचिन्तयत् - अस्य महात्मानो मम समीपमुपविष्टस्य पूण्यप्रभाव एष यत् मया महति विभूतिरेतावती समासादिता, आकृति च तस्यातीवसमुनोहरामवलोक्य स्वचेतसि कल्पयामास स एष रत्नाकरो यो मया रात्रौ स्वप्ने दृष्टः, ततस्तेन कृतकराञ्जलीसम्पुटेन विनयपुरस्सरमा भाषितः श्रेणिक : - कस्य यूयं प्राघूर्णका: ?, श्रेणिक उवाच - भवतामिति, ततः स एवंभूतवचन श्रवणतो धाराहतकदम्बपुष्पमिव पुलकितसमस्ततनुयष्टि: सबहुमानं स्वगृहं नीतवान् श्रेणिकं, भोजनादिकं च सकलमप्यात्मनोऽधिकतरं सम्पादयामास पुण्यप्रभावं च तस्य प्रतिदिवसमात्मनो धनलाभवृद्धिसम्भवेनासाधारणमभिसमीक्षमाणः कतिपयदिनातिक्रमे तस्मै स्वदुहितरं नन्दां दत्तवान्, श्रेणिकोऽपि तया सह पुरन्दर इव पौलोम्या मन्मथमनोरथानापूरयन् पञ्चविधभोगलालसो बभूव । कतिपयवासरातिक्रमे च नन्दाया गर्भाधानं बभूव, इतश्च प्रसेनजित् स्वान्तसमयं विभाव्य श्रेणिकस्य परम्परया वार्त्तामधिगम्य तदाकारणाय सत्वरमुष्ट्वाहनान् पुरुषान् प्रेषयामास, ते च समागत्य श्रेणिकं विज्ञप्तवन्तो- देव! शीघ्रं समागम्यतां देवः सत्वरमाकारयति, ततो नन्दामापनसत्त्वामापृच्छय 'अम्हे रायगिहि पंडरकुडा गोवाला जइ अम्हेहिं कज्जं तो एज्जह' ति एतद्वाक्यं
30/101
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org