________________
मूलं-९७
१४३ ___ ततो भूयोऽपि कतिपयवासरातिक्रमेऽभिहितवान्-वनखण्डो ग्रामस्य पूर्वस्यां दिशिवर्तमानः पश्चिमायां दिशि कर्त्तव्य इति, अस्मित्रपि राजादेशे समागते ग्रामो रोहकबुद्धिमुपजीव्य वनखण्डस्य पूर्वस्यां दिशि व्यवतिष्ठत, ततो जातो ग्रामस्य पश्चिमायां दिशि वनखण्डः, निवेदितं राज्ञो राजनियुक्तः पुरुषः । ततः पुनरपि कालान्तरे राजा अदिष्टवान्-वह्निसम्पर्कमन्तरेण पायस् पक्तव्यमिति, तत्रापि सर्वो ग्राम एकत्र मिलित्वा रोहकमपृच्छत्, रोहकश्चोक्तवान्-तन्दुलानतीव जलेन भिन्नान् कृत्वा दिनकरकरनिकरसन्तप्तकरीषपपलालादीनामूष्मणि तन्दुलपयोभृता स्थाली निवेश्यतां येन परमान्नं सम्पद्यते, तथैव कृतं, जातं परपानं, निवेदितं राज्ञो, विस्मितं तस्य चेतः
ततो राज्ञा रोहकस्य बुद्ध्यतिशयमवगम्य तदाकारणाय समादिष्टं-येन बालकेन ममादेशाः सर्वेऽपि प्राय: स्वबुद्धिवशात् सम्पादिताः तेन चावश्यमागन्तव्यं, परंन शुक्लपक्षे नापि कृष्णपक्षे न रात्रौ न दिवा न छायायां नाप्यातपेन नाकाशेन नापि पादाभ्याम् न पथा नाप्युत्पथेन न नातेन नास्त्रातेन, तत एवमादिष्टे सरोहक: कण्ठस्रानं कृत्वा गन्त्रीचक्रस्य मध्यभूमिभागेन ऊरणमारूढो घृतचालनीरूपातपत्रः सन्ध्यासमयेऽमावास्याप्रतिपत्सङ्गमे नरेन्द्र पार्श्वमगमत्, सच 'रिक्तहस्तो न पश्येच्च, राजानं देवतां गुरु' मिति लोकश्रुति परिभाव्य पृथिवीपिण्डमेकमादाय गतः, प्रणतो राजा, मुक्तश्च तत्पुरतः पृथिवीपिण्डः, ततः स पृष्टो राज्ञा रोहकः रे रोहक ! किमेतत्?,रोहकोऽवादीतदेव! देवपादा! पृथिवीपतयस्ततो मया पृथिवी समानीता, श्रुत्वा चेदं प्रथमदर्शने मङ्गलवचस्तुतोष राजा, मुत्कलितः शेषो ग्रामलोकः, रोहकः पुनरात्मपार्वे शायितः, गते च यामिन्या: प्रथमयामे रोहक: शब्दितो राज्ञा-रे जागर्षि किं वा स्वपिषि?, स प्राह-देव ! जागर्मि, रे तर्हि किं चिन्तयसि?, स प्राह-देव ! अश्वत्थपत्राणां कि दण्डो महान् उत शिखेति?, ___ तत एवमुक्ते राजा संशयमापन्नो वदति-साधु चिन्तितं, कोऽत्र निर्णयः ?, ततो राजा तमेव पृष्टवान्-रेकथय कोऽत्र निर्णय इति?, तेनोक्तं-देव! यावदद्यापि शिखाग्रभागो न शोषमुपयाति तावडे अपि समे, ततो राज्ञा पार्श्ववर्ती लोकः पुष्टः, तेन च सर्वेणाप्यविगानतः प्रतिपन्न । ततः भूयोऽपि रोहक: सुप्तवान्, पुनरपि द्वितीये यामेऽपगते राज्ञा शब्दितः पृष्टश्च-किं जागर्षि कि वा स्वपिपि?, स प्राह-देव ! जागम्मि, रे किं चिन्तयसि ?, देव ! छागिकाया उदरे कथं भ्रम्युत्तीर्णा इव वर्तुलगुलिका जायन्ते?, तत एवमुक्ते राजा संशयापनस्तमेव पृष्टवान् - कथय रे रोहक ! कथमिति ?, स प्राह-देव ! संवर्तकाभिधवातविशेषात् । तः पुनरपि रोहकः सुष्वाप, तृतीये च रजन्या यामेऽपगते भूयोऽपि राज्ञा शब्दित:-कि रे जागर्षि किं वा स्वपिषि?, सोऽवादीत्-देव ! जागर्मि, कि रे चिन्तयसि ?, देव ! षाडहिलाजीवस्य यावन्मानं शरीरं तावन्मानं पुच्छमुत न्यूनाधिकमिति?, तत एवमुक्तो राजा निर्णयं कर्तुमशक्तस्तमेवापृच्छत्कोऽत्र निर्णयः?, साऽवादीद्-देव! सममिति। ततो रोहक: सुप्तः प्राभातिके च मङ्गलंपटहनिस्वने सर्वत्र प्रसरमधिरोहित राजा प्रबोधमुपजगाम, शब्दितवांश्च रोहकं, स च निद्राभरमुपारूढो न प्रतिवाचं दत्तवान्, ततो राजा लीलाकम्बिकया मनाक्तं स्पृष्टवान्,
ततः सोऽपगतनिद्रो जातः, पृष्टश्च किं रे स्वपिषि?, स प्राह-देव ! जागर्मि, कि रे तर्हि कुर्वस्तिष्ठसि?, देव ! चिन्तयन्, किं चिन्तयसि?, देव ! एतच्चिन्तयामि-कतिभिर्जातो देव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org