________________
१३६
नन्दी-चूलिकासूत्रं वोधिकं, तथा शृणोति वाच्यवाचकभावपुरस्सरं श्रवणविषयेन शब्देन सह संस्पृष्टमर्थं परिच्छिनत्यात्मा येन परिणामविशेषेण स परिणामविशेषः श्रुतं, ननु यद्येवंलक्षणं श्रुतं तहि य एव श्रोत्रेन्द्रियलब्धिमान् भाषालब्धिमान् वा तस्यैव श्रुतमुपपद्यते न शेषस्यैकेन्द्रियस्य, तथाहि
यः श्रोत्रेन्द्रियलब्धिमान्, भवति स विवक्षितं शब्दं श्रुत्वा तेन शब्देन वाच्यमर्थं प्रतिपत्तुमीष्टे नशेषः, शेषस्य तथारूपशक्त्यभावात्, योऽपि च भाषालब्धिमान् भवति सोऽपि द्वीन्द्रियादिः प्रायः स्वचेतसि किमपि विकल्प्य तदभिधानानुमानतः शब्दमुद्गिरति नान्यथा, ततस्तस्यापि श्रुतं सम्भाव्यते, यस्त्वेकेन्द्रियः स न तावत् श्रोत्रेन्द्रियलब्धिमान् नापि भाषालब्धिमान् तः कथं तस्य श्रुतसम्भवः?, अथ च पवचने तस्यापि श्रुतपुपवर्ण्यते, तत्कथं प्राक्तनं श्रुतलक्षणं समीचीनमिति?, नैष दोषो, यत इह तावदेकेन्द्रियाणामाहारादिसंज्ञा विद्यन्ते, तथा सूत्रेऽनेकशोऽभिधानात्, संज्ञा चाभिलाष उच्यते, यत उक्तमावश्यकटीकायाम्-'आहारसंज्ञा आहारभिलाषः क्षेद्वेदनीयप्रभावः खल्वात्मपरिणामविशेषः' इति, अभिलाषश्च ममैवरूपं वस्तु पुष्टिकारि तद्यदीदमवाप्यते ततः समीचीनं भवतीत्येवं शब्दार्थोल्लेखानुविद्धः स्वपुष्टिनिमित्तभूतप्रतिनियतवस्तुप्राप्त्यध्यवसायः, सच श्रुतमेव, तस्य शब्दार्थपर्यालोचनात्मकत्वात्, शब्दार्थ-पर्यालोचनात्मकत्वं च ममैवंरूपं वस्तु पुष्टिकारे तद्यदीदमवाप्यते इत्येवमादीनां शब्दानामन्तजल्पाकाररूपाणामपि विवक्षितार्थवाचकतया प्रवर्त्तमानत्वात्, श्रुतस्य चैवलक्षणत्वात्, उक्तं
इन्दियमनोनिमित्तं जं विन्नाणं सुयानुसारेणं।
नियअथोत्तिसमत्थ तं भावसुयं मई सेसं ।।" 'सुयानुसारेणं'ति शब्दार्थपर्यालोचनानुसारेण, शब्दार्थपर्यायलोचनं च नाम वाच्यवाचकभावपुरस्सरीकारेण शब्दसंस्पृष्टस्यार्थस्य प्रतिपत्तिः, केवलमेकेन्द्रियाणामव्यक्तमेव, किंचनाप्यनिर्वचनीयं तथारूपक्षयोपशमभावतो वाच्यावाचकभावपुरस्सरीकारेण शब्दसंस्पृष्टार्थग्रहणमवसेयम्, अन्यथाऽऽहारादिसंज्ञाऽनुपपत्तेः, यदप्युच्यते-यद्येवंलक्षणं श्रुतं तर्हि य एव श्रोत्रेन्द्रियलब्धिमान् भाषालब्धिमान् वा तस्यैव श्रुतमुपपद्यते न शेषस्यैकेन्द्रियस्येति, तदप्यसमीक्षितार्थाभिधानं, सम्यक् प्रवचनार्थापरिज्ञानात्, तथाहि-बकुलादीनां स्पर्शनेन्द्रियातिरिक्तद्रव्येन्द्रियलब्धिविकलत्वेऽपि तेषां किमपि सूक्ष्मं भावेन्द्रियपञ्चकविज्ञानमभ्युपगम्यते, 'पंचिदिओविवउलो' इत्यादिभाष्यकारवचनप्रामाण्यात्, तथा भाषाश्रोत्रेन्द्रिय-- लब्धिविकलत्वेऽपि तेषां किमपि सूक्ष्मं श्रुतं भविष्यति, अन्यथाऽऽहारादिसंज्ञाऽनुपपत्तेः, आह च भाष्यकृत
__"जह सुहुभं भाविदियनाणं दविदियावरोहेऽवि।
तह दव्वसुयाभावे भावसुयं पत्थिवाईणं॥" ततः प्राक्तनमेव श्रुतलक्षणं समीचीनं, नान्यदिति स्थितं ।
तदेवं लक्षणभेदाभेदमभिधाय सम्प्रति प्रकारान्तरणे भेदमभिधित्सुराह-'मइपुच'मित्यादि, पृ पालनपूरणयो'रित्यस्य धातोः पूर्यते प्राप्यते पाल्यते च येन कार्यं तत्पूर्वं, औणादिको वक्प्रत्ययः, कारणमित्यर्थः, मतिः पूर्वं यस्य तन्मतिपूर्वं श्रुतं-श्रुतज्ञानं, तथाहि
मत्या पूर्यते प्राप्यते श्रुतं, न खलु मतिपाटवविभवमन्तरेण श्रुतविभवमुत्तरोत्तरमासादयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org