________________
नन्दी-चूलिकासूत्रं . सर्वबहव एकैकसमयसिद्धाः, ततो द्विकद्विकसिद्धाः सङ्ख्येयगुणहीनाः तेभ्योऽपि त्रिकत्रिकसिद्धाः सङ्ख्येयगुणहीनाः, एवं तावद्वाच्यं यावत्पञ्चविंशतिसिद्धाः सङ्ख्येयगुणहीनाः, उक्तंच ___ "पढमो चउत्थभागो पणवीसा तत्थ संखेज्जगुणहानी दट्ठवत्ति" द्वितीय पुनश्चतुर्थभागे क्रमेणासङ्घयेयगुणहानिर्वक्तव्या, तद्यथा-पञ्चविंशतिसिद्धेभ्यः षड्विंशतिसिद्धाः सङ्ख्येयगुणहीनाः, एवमेकैकवृद्धा असङ्घयेयगुणहानिः तावद्वक्त्व्या यावतपञ्चाशत्, तदुक्तं-"बिइए चउत्धभागे असंखगुणहानि जाव पन्नासं"ति, तृतीयस्माचतुर्थभागादराम्य सर्वत्रापि अनन्तगुणहानिर्वक्तव्या, तद्यथा-पञ्चाशत्सिद्धेभ्य एकपञ्चाशत्सिद्धाअनन्तगुणहीनाः तेभ्योऽपि द्विपञ्चाशसिद्धा अनन्तगुणहीनाः एवमेकैकवृद्धा अनन्तगुणहानिस्तावद्वक्तव्या यावदष्टाधिकशतसिद्धा अनन्तगुणहीनाः, उक्तं च- "तइयपयं आइकाऊण चउत्थपयं जाव अट्ठसयं ताव अनंतगुणहानी एगवत्राओ आरंभ दवा।"
सिद्धप्राभृतसूत्रेऽप्युक्तं-"पढमे भागे संखा बिईए असंख अनंत तइयाए।" तथा यत्र यत्र विशंतिसिद्धा: तत्र तत्रापि व्याप्तिरियमनुसतव्या, प्रथमे चतुर्थभागे सङ्ख्येयगुणहानिः द्वितीये असङ्ख्येयगुणहानिः तृतीये चतुर्थे वा चानन्तगुणहानिः, तद्यथा-एकैकसिद्धाः सर्वबहवः तेभ्योऽपि द्विकद्विकसिद्धाः सङ्खयेयगुणहीना: एवं तावद्वाच्यं यावत्पञ्च, ततः षडादिसिद्धा असङ्घयेयगुणहीना यावद्दश, तत एकादशादयः सर्वेऽप्यनन्तगुणहीनाः, एवमधोलोकादिष्वपि विंशतिपृथक्त्वासिद्धौ प्रथमे चतुर्थभागे सङ्घयेयगुणहानि:, द्वितीयचतुर्थभागेऽसङ्घयेयगुणहानिः, तृतीयस्माचतुर्थभागादारभ्य पुनः सर्वत्राप्यनन्तगुणहानि:, येषु तु हरिवर्षादिषु स्थानेषूत्कर्षतो दश दश सिध्यन्ति तत्रैवं व्याप्ति:-त्रिकं यावत्सङ्ख्येयगुणहानिः, ततश्चतुष्के पञ्चके चासङ्घयेयगुणहानिः, तत षट्कारदारभ्य सर्वत्रापि अनन्तगुणहानिः, तद्यथा
एककसिद्धाः सर्वबहवः, ततो द्विकद्विकसिद्धाः सङ्खयेयगुणहीनाः, तेभ्योऽपि त्रिकत्रिकसिद्धाः सङ्घयेयगुणहीनाः, तेभ्योऽपि चतुश्चतुःसिद्धा: असङ्खयेयगुणहीना:, तेभ्योऽपि पञ्च २ सिद्धा असङ्येयगुणहीनाः, ततः षडादयः सर्वेऽप्यनन्तगुणहीनाः, यत्र पुनरवगाहनायवमध्यादावुत्कर्षतोऽष्टौ सिध्यन्तः प्राप्यन्ते तत्रैवं व्याप्ति:- चतुष्कं यावत्सङ्ख्येयगुणहानिः, ततः परमनन्तगुणहानिः, तद्यथा- एककसिद्धाः सर्वबहवः तेभ्याऽपि द्विकद्विकसिद्धाः सङ्ख्येयगुणहीनाः, तेभ्योऽपि त्रिकत्रिकसिद्धाः सङ्घयेयगुणहीनाः, तेभ्योऽपि चतुश्चतुःसिद्धाः सङ्ख्येयगुणहीनाः, परं पञ्चपञ्चादयोऽनन्तगुणहीनाः अत्रासङ्खयेयगुणहानिर्न विद्यते, यत्र पुनरुर्द्धलोकादावुत्कर्षतश्चत्वारः सिध्यन्तः प्राप्यन्ते तत्र एवं व्याप्तिः-एककसिद्धाः सर्वबहवः, तेऽभ्यो द्विकद्विकसिद्धा असङ्ख्येयगुणहीनाः, तेभ्योऽपि त्रिकत्रिकसिद्धा अनन्तगुणहीनाः, तेभ्योऽपि चतुश्चतुस्सिद्धा अनन्तगुणहीनाः, अत्र सङ्ख्येयगुणहानिर्न विद्यते, तदुक्तं-"जत्थ चत्तारिसिद्धा दिट्ठा तत्थ संखेज्जगुणहाथी नत्थि 'संखेज्जविवज्जिय चउक्के' इति वचना"दिति । ___ यत्र पुनर्लवणादौ द्वौ द्वावुत्कर्षत: सिध्यन्तौ दृष्टौ तत्रैवं व्याप्तिः-एककसिद्धाः सर्वबहवः, ततो द्विकद्विकसिद्धा अनन्तगुणहीनाः, तदुक्तं-"लवणादौ दो सिद्धा दिट्ठा तत्थ एक्कगसिद्धा बहुगा, दुगसिद्धाअनंतगुणहीणा।" तदेवमिह सन्निकर्षो द्रव्यप्रमाणे सप्रपञ्चं चिन्तितः, शेषेषु तु द्वारेषु सिद्धप्राभृतटीकातो भावनीयः, इह तु ग्रन्थगौरवभयानोच्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org