SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ १२२ नन्दी-चूलिकासूत्रं सिद्धाः संख्येयगुणा तेभ्य: तीर्थकरसिद्धा अनन्तगुणा: तेभ्योऽपि तीर्थकरतीर्थे प्रत्येक़बुद्धसिद्धाः संख्येयगुणा तेभ्योऽपि तीर्थकरतीर्थ एव साध्वीसिद्धाः संख्येयगुणा: तेभ्योऽपि तीर्थकरतीर्थ एवातीर्थकरसिद्धाः सङ्ख्येयगुणाः, लिङ्गद्वारे-गृहिलिङ्गसिद्धाः सर्वस्तोका: तेभ्योऽप्यन्यलिङ्गसिद्धाः असङ्खयेयगुणा: तेभ्योऽपिस्वलिङ्गसिद्धाः असङ्खयेयगुणाः, उक्तंच- "गिहिअन्नलिंगेहि सिद्धा थोवा दुवे असंखगुणा" चारित्रद्वारे-सर्वस्तोकाश्छेदोपस्थापनपरिहारविशुद्धिकसूक्ष्मसम्पराययथास्खातचारित्रासिद्धा: तेभ्यः सामायिकच्छेदोपस्थानपरिहारवशुद्धिक सूक्ष्मसम्पराययथाख्यातचारित्रसिद्धाः सङ्ख्येयगुणा: तेभ्योऽपि छेदोपस्थापनसूक्ष्मसम्पराययथाख्यातचारित्रसिद्धाः असङ्ख्येयगुणाः, सामायिकरहितंच छेदोपस्थापनं भग्नाचारित्रस्यावगन्तव्यं, तेभ्योऽपिसामायिकच्छेदोपस्थापनसूक्ष्मसम्पराययगाथाख्यातचारित्रसिद्धाः सङ्ख्येयगुणा: तेभ्योऽपि सामायिकसूक्ष्मसम्पराययथाख्यातचारित्रसिद्धाः सङ्खयेयगुणाः, उक्तं च "थोवा परिहारचऊ पंचग संखा असंख छेयतिगं। छेयचउक्त संखे सामाइयतिगं च संखगुणं ।" बुद्धद्वारेसर्वस्तोकाः स्वयम्बुद्धसिद्धाः, तेभ्यः प्रत्येकबुद्धसिद्धाः सङ्ख्येयगुणाः तेभ्योऽपि बुद्धीबोधितसिद्धाः सङ्खयेयगुणा: तेभ्योऽपि बुद्धबोधितसिद्धाः सङ्खयेयगुणाः, ज्ञानद्वारे-मतिश्रुतमनःपर्या यज्ञानिः सिद्धाः सर्वस्तोकाः तेभ्यो मतिश्रुतज्ञानिसिद्धाः सङ्खयेयगुणाः, तेभ्योऽपि मतिश्रुतावधिमनःपर्ययज्ञानसिद्धाः असङ्ख्येयगुणाः तेभ्योऽपि मतिश्रुतावधिज्ञानिसिद्धाः सङ्घयेयगुणाः, उक्तं च-- "मनपज्जवनाणतिगे दुगे चउक्के मनस्स आणस्स । थोवा संख असंखा ओहितिगे हुंति संखेज्जा ।।" अवगाहनाद्वारे-सर्वस्तोका द्विहस्तप्रमाणजघन्यावगाहनासिद्धाः तेभ्या धनुः पृथक्त्वाभ्यधिकपञ्चधनुः-शतोप्रमाणोत्कृष्टावगाहनासिद्धा; असङ्ख्येयगुणाः ततो मध्यमावगाहनासिद्धाः असङ्ख्येयगुणाः, उक्तं च "ओगाहणा जहन्ना थोवा उक्कोसिया असंखगुणा। तत्तोवि असंखगुणा नायव्वा मज्झिमाएवि।।" अत्रैव सिद्धप्राभृतटीकाकारोपदशितो विशेष उपदर्शाते-सर्वस्तोकाः सप्तहस्तप्रमाणावगाहनासिद्धाः तेभ्यः पञ्चधनुःशतप्रमाणावगाहनासिद्धाः सङ्ख्येयगुणा: ततो न्यूनपञ्चधनुःशतप्रमाणावगाहनासिद्धाः सङ्ख्येयगुणाः तेभ्योऽपि सातिकरेकसप्तहस्तप्रमाणावगाहनासिद्धा विशेषाधिका: उत्कृष्टद्वारे-सर्वस्तोका: अप्रतिपतितसिद्धाः तेभ्यः सङ्ख्येयकालप्रतिपतितसिद्धा असङ्ख्येयगुणा: तेभ्योऽप्यसङ्ख्येयकालप्रतिपतितसिद्धाः सङ्ख्येयगुणा: तेभ्योऽप्यनन्तरकालप्रतिपतितसिद्धाः असङ्घयेयगुणाः, उक्तं च "अप्पडिवाईयसिद्धा संखासंखअनंतकाला य। थोव असंखेज्जगुणा संखेज्जगुणा असंज्ज(ख)गुणा।" अन्तरद्वारे-सर्वस्तोकाः षण्मासान्तरसिद्धाः तत एकसमयान्तरसिद्धाः सङ्घयेयगुणाः ततो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003382
Book TitleAgam Sutra Satik 44 Nandisootra ChulikaSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages265
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 44, & agam_nandisutra
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy