________________
११४
नन्दी-चूलिकासूत्रं पट् पञ्चन्द्रियस्तिर्यग्यांनिपुरुषेभ्य आगता दश, पञ्चेन्द्रियतियंग्योनिस्त्रीभ्योऽप्यागता दश, तथा सामान्यतो मनुष्यगतेरागता विंशतिः, विशेपचिन्तायां मनुष्यपुरुषेभ्य आगता दश मनुष्यस्त्रीभ्य आगता विंशतिः, तथा सामान्यतो देवगतेरागता अष्टशतं, विशेषचिन्तायामसुरकुमारेभ्यो नागकुमारेभ्यो यावत् स्तनितकुमारभ्य: प्रत्येकमागता दश २ असुरकुमारीभ्यः प्रत्येकमागताः पञ्च पञ्च व्यन्तरदेवेभ्य आगता दश व्यन्तरीभ्य आगताः पञ्च ज्योतिप्कदेवेभ्य आगता दश ज्योतिप्कदवीभ्य आगता विंशतिः वैमानिकदेवेभ्य आगता अष्टशतं, वैमानिकदेवीभ्य आगता विंशतिः. तथा च प्रज्ञापनाग्रन्थः
"अनंतरागया णं भंते ! नरइया एगसमएणं केवइया अंतकिरिअंपकरेंति?, गोअमा!, जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं दस, रयणप्पभापुढविनेरझ्यावि एवं चेव, जाव वालुयप्पभापुढविनेरइया, अनंतरागया णं भंते ! पंकप्पभापुढविनेरइया एगसमयेणं केवइया अंतकिरिअंपकरेति?, गोअमा !, जहन्नोणं एक्को वा दो वा तिन्नि वा उक्कोसेणं चत्तारि, अनंतरागया णं भंते ! असुरकुमारा एगसमए णं केवइया अंतकिरिअं पकरेंति?, गोअमा! जहन्नेणं एक्को वा दो वा तिनि वा, उक्कांसेणं दस, अनंतरागयाणं भंते! असुरकुमारीओ एगसमएणं केवइयाओ अंतकिरियं पकरंति?, गोअमा! जहन्त्रेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं पंच, एवं जहा असुरकुमारा सदेवीया तहा जाव थणियकुमारा, अनंतरागया णं भंते ! पुढविकाइया एगसमएणं केवइया अंतकिरिअंपकरेंति ?, गोअमा ! जहन्नेणं इको वा दो वा तिन्नि वा उक्कोसेणं चत्तारि, एवं आउक्काइयावि, वणस्सइकाइया पंचेदियतिरिक्खजोणिया दस, पंचेदियतिरिक्खजोणिणीओवि दस, मणुस्सा दस, मणुस्सीओ वीसं, वाणमंतरा दस, वाणमंतरीओं पञ्च, जाइसिया दस, जोइसिणीओ वीसं, वेमाणिया अट्ठसयं, वेमाणिणीओ वीस" मिति तत्त्वं पुनः केवलिनो बहुश्रुता वा विदन्ति । वेदद्वारे-पुरुषाणामष्टशतं, स्त्रीणां विंशतिः, दश नपुंसकाः, उक्तं च___ "अट्ठसयं पुरिसाणं वीसं इत्थीण दस नपुंसाणं" तथा इह पुरुषेभ्य उद्धृता जीवाः केचित्पुरुषा एव जायन्ते केचित् स्त्रियः केचिन्नपुंसकाः, एवं स्त्रिभ्योऽप्युद्धतानां भङ्गत्रयं, एवं नपुंसकेभ्योऽपि, सर्वसङ्ख्यया भङ्गा नव, तत्र ये पुरुषेभ्य उद्धृताः पुरुषा एव जायन्ते तेषामष्टशतं, शेषेषु चाष्टसु भङ्गेषु दश २, तथा चोक्तं सिद्धप्राभृते
'सेसा उ अट्ठ भंगा दसगं २ तु होइ एक्ककं तीर्थद्वारे-तीर्थकृतो युगपदेकसमयेन उत्कर्षतश्चत्वारः सिध्यन्ति, दश प्रत्येकबुद्धाश्चत्वारः स्वयम्बुद्धा, अष्टशतमतीर्थकृतां, विंशतिः स्त्रीणां, द्वे तीर्थकयौँ।
लिङ्ग द्वारे-गृहिलिङ्गे चत्वारः, अन्यलिङ्गे दश, स्वलिङ्गे अष्टशतं, उक्तं च-'चउरो दस अट्ठसयं गिहनालिंगे सलिंगे य । ___ चारित्रद्वार सामायिकसूक्ष्मसम्पराययथाख्यातचारिताणां सामायिकच्छेदोपस्थापनसूक्ष्मसम्पराययथाख्यातचारित्राणां च प्रत्येकमष्टशतं, सामायिकपरिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातचारित्रिणां समायिकच्छेदोपस्थापनपरिहारविशुद्धसूक्ष्मसम्पराययथाख्यातचारित्रिणा च दशकं २, उक्तं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org