________________
उत्तराध्ययन- - मूलसूत्रम् - १-१ / १ एकप्रदेशावगाढात् द्विप्रदेशावगाढः ततोऽपि त्रिप्रदेशावगाढः एवं यावदवसानवर्त्यसङ्ख्येप्रदेशावगाढः, कालत एकसमयस्थितेर्द्विसमयस्थितिः ततोऽपि त्रिसमयस्थिति: एवं यावदसङ्ख्येयसमयस्थिति:, भावत एकगुणकृष्णात् द्विगुणकृष्णः ततोऽपि त्रिगुणकृष्णः एवं यात्रदनन्तगुणकृष्णः, यतो वा - क्षायोपशमिकादिभावादनन्तरं यः क्षायिकादिर्भवति, 'गणणओ 'ति गणनात उत्तरमेककाद् द्विकस्ततोऽपि त्रिक एवं यावच्छीर्षप्रहेलिका, भावोत्तरं क्षायिको भावः, तस्य केवलज्ञानदर्शनाद्यात्मकत्वेन सकलौदयिकादिभावप्रधानत्वाद
६
ܫܣ
आह-एवमस्य प्रधानोत्तर एवान्तर्भावादयुक्तं भेदेनाभिधानं यद्येवमत्यल्पमिदमुच्यते, एवं हि नामादिचतुष्टय एव सर्वनिक्षेपाणामन्तर्भावात्तदेवाभिधेयं तत इहान्यत्र च यन्नामादिचतुष्टाधिकनिक्षेपाभिधानं तच्छिष्यमतिव्युत्पादनार्थं सामान्यविशेषोभयात्मकत्वख्यापनार्थं च सर्ववस्तूनामिति भावनीयमिति गाथार्थः ॥ इहानेकधोत्तराभिधानेऽपि क्रमोत्तरमेवाधिकरिष्यति, विषयज्ञाने च विषयी सुज्ञानो भवति इति भन्वानो यत्रास्य सम्भवो यत्र चासम्भवो यत्र चोभयं तदेवाह
नि. [२]
जहन्नं सुत्तरं खलु उक्कोसं वा अनुत्तरं होई । सेसाई उत्तराई अनुत्तराई च नेयाणि ॥
वृ.- जघन्यं सोत्तरं 'खलु' अवधारणे, सोत्तरमेव 'उक्कोसे 'ति उत्कृष्टं, वाशब्दस्यैवकारार्थस्य भिन्नक्रमत्वाद् अनुत्तरमेव भवति, 'शेषाणि' मध्यमानि 'उत्तराणि' इति अर्श आदित्वेनाजन्तवत्वात् मतुबलोपाद्वोत्तरवन्ति अनुत्तराणि च ज्ञेयानि । द्रव्यक्रमोत्तरादिनि हि जघन्यान्येकप्रदेशिक्रादीनि उपरि द्विप्रदेशिकादिवस्त्वन्तरभावात् सोत्तराण्येव, तदपेक्षयैव तेषां जघन्यत्वात्, उत्कृष्टानि त्वन्त्यानन्तप्रदेशिकादीन्यनुत्तराण्येव, तदुपरिवस्त्वन्तराभावाद, अन्यो थोत्कृष्टत्वायोगात्, मध्यमानि तु द्विप्रदेशिकादीनि त्रिप्रदेशिकाद्यपेक्षया सोत्तराणि एक प्रदेशापेक्षया त्वनुत्तराणि, उपरितनवस्त्वपेक्षयैव सोत्तरत्वात् इति गाथार्थः ॥ उत्तरस्यानेकविधत्वेन येनात्र प्रकृतं तदाहकमउत्तेरण पगयं आयारस्सेव उवरिमाई तु ।
नि. [३]
तम्हा उ उत्तरा खलु अज्झयणा हुंति नायव्वा ॥
वृ. क्रमापेक्षमुत्तरं क्रमोत्तरं, शाकपार्थिवादित्वान्मध्यपदलोपी समासः, तेन प्रकृतम्अधिकृतम्, इह च क्रमोत्तरेणेति भावतः क्रमोत्तरेण, एतानि हि श्रुतात्मकत्वेन क्षायोपशमिकभावरूपाणि तद्रूपस्यैवाऽऽचाराङ्गस्योपरि पठ्यमानत्वेनोत्तराणीत्युच्यन्ते, अत एवाह'आयारस्सेव उवर्माई 'ति एवकारो भिन्नक्रमेः, ततश्चाचारस्योपर्येव-उत्तरकालमेव 'इमानी' ति हृदि विपरिवर्तमानतया प्रत्यक्षाणि, पठितवन्त इति गम्यते, 'तुः ' विशेषणे, विशेषश्चायं यथाशय्यम्भवं यावदेष क्रमः, तदाऽऽरतस्तु दशवैकालिकोत्तरकालं पठ्यन्त इति, 'तम्हा उ'त्ति 'तुः ' पूरणे, यत्तदोश्च नित्यमभिसम्बन्धः, ततो यस्मादाचारस्योपर्येवेमानि पठितवन्तस्तस्माद् ‘उत्तराणि' उत्तरशब्दवाच्यानि, 'खलुः' वाक्यालङ्कारेऽवधारणे वा, तत उत्तराण्येव 'अध्ययनानि' विनयश्रुतादीनि भवन्ति 'ज्ञातव्यानि ' अबबोद्धव्यानि, प्राकृतत्वाच्च लिङ्गव्यत्यय इति गाथार्थः।। आह-यद्याचारस्योपरि पठ्यमानत्वेनोत्तराण्यमूनि, ताकि ? यत एवाचारस्य प्रसूतिरेषामपि तत एव अभिधेयमपि यदेव तस्य तदेवोतान्यथेति संशायापनोदायाह
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org