________________
उत्तराध्ययन-मूलसूत्रम्-१-२/६० परस्परं विरुध्यद्भिविलुप्यन्ते दिशोदिशम् ॥२॥
काकगृध्रादिरूपैश्च, लोहतुण्डैर्बलान्वितैः। विनिकृष्टाक्षिजिह्वान्त्रा, विचेष्टन्ते महीतले ।।३।।
प्राणोपक्रमणैोरैर्दुःखैरेवंविधैरपि ।
आयुष्यक्षपिते नैव, म्रियन्ते दुःखभागिनः ॥४१ इत्यादि, तथा असंज्ञिन एते आहार्थिनश्च भोज्यमेतेषां मच्छरीरंबहुसाधारणंच यदि भक्षयन्ति किमत्र प्रद्वेषेणेति च विचिन्तयन् तदुपेक्षणपरो न तदुपघातं विदध्वादिति सूत्रार्थः ।।
इदानीं पथिद्वारं, तत्र 'स्पृष्टो दंशमशकै 'रित्यादिसूत्रसूचितमुदाहरणमाहनि.[१३] चंपाए सुमणुभद्दो जुवराया धम्मघोससीयो य।
पंथंमि मसगपरिपीयसोणिओ सोऽवि कालगओ॥ वृ. चम्पायां सुमनोभद्रो युवराजो धर्मघोषशिष्यश्च पथि मशकपरिपीतशोणितः सोऽपि कालगत इति गाथाक्षरार्थः ।। भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम्___चंपाए नयरीए जियसत्तुस्स स्नो पुत्तो सुमणभद्दो जुवराया, धम्मघोसस्स अंतिए धम्म सोऊण निविण्णकामभोगो पव्वइतो, ताहे चेव एगल्लविहारपडिमं पडिवनो, पच्छा हेट्ठाभूमीए विहरन्तो सरयकाले अडवीए पडिमागतो रत्तिं मसएहिं खज्जइ, सो ते न पमज्जइ, सम्म सहइ, रत्तीए पोयसोणितो कालगतो। एवं अहियासेयव्वं । इत्यवसितो दंशमशकपरीषहः । अधुना अचेल: संस्तैस्तुद्यमानो वस्त्रकम्बलाद्यन्वेषणपरो न स्यादित्यचेलपरीषहमाहमू.(६१) परिजुन्नेहि वत्थेहि, होक्खामित्ति अचेलए।
अदुवा सचेलए होक्खं, इह भिक्खं न चिंतए। वृ. परिजीर्णैः' समन्तात् हानिमुपगतैः वस्त्रैः' शाटकादिभिः, 'होक्खामित्ति' इतिभिन्नक्रमः ततो भविष्यामि 'अचेलकः' चेलविकल: अल्पदिनभावित्वादेषामिति भिक्षुर्न विचिन्तयेत्, अथवा 'सचेलकः' चेलान्वितो भविष्यामि, परिजीर्णवस्त्रं, हि मा दृष्ट्वा कश्चित् श्राद्धः सुन्दरतराणि वस्त्राणि दास्यतीति भिक्षुर्न चिन्तयेत्, इदमुक्तं भवति-जीर्णवस्त्रः सन्न मम प्राक्परिगृहीतमपरं वस्त्रमस्ति न च तथाविधो दातेति न दैन्यं गच्छेत्, न चान्यलाभसम्भावनया प्रमुदितमानसो भवेदिति सूत्रार्थः । इत्थं जीर्णादिवस्त्रतया अचेलं स्थविरकल्पिकमाश्रित्याचेलपरीषह उक्तः, सम्प्रति तमेव सामान्येनाहमू.(६२) एगया अचेलए होइ, सचेले यावि एगया।
एयं धम्महियं नच्चा, नाणी नो परिदेवए। वृ. एकदा' एकस्मिन् काले जिनकल्पप्रतिपत्तौ स्थविरकल्पेऽपिदुर्लभवस्त्रादौ वा सर्वथा चेलाभावेन सति वा चेले विना वर्षादिनिमित्तप्रावरणेन जीर्णादिवत्रतया वा 'अचेलक' इति अवस्त्रोऽपि भवति, पठ्यते च 'अचेलए सयं होइ'त्ति तत्र स्वयम्-आत्मनैव न पराभियोगतः, 'सचेलः' सवस्त्रश्चाप्येकदा स्थविरकल्पिकत्वे तथाविधालम्बनेनावरणे सति, यद्येवं ततः किमित्याह- एतदि'त्यवस्थौचित्येन सचेलत्वमचेलत्वं च धर्मो-यतिधर्मः तस्मै हितम्उपकारकं धर्महितं 'ज्ञात्वा' अवबुद्धय, तत्राचेलकत्वस्य धर्माहितत्वमल्पप्रत्युपेक्षादिभिः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org