________________
उत्तराध्ययन-मूलसूत्रम्-१-२/४८ चित्तमीसओ'त्ति लुप्तनिर्दिष्टत्वाद्विभक्तेः सचित्तोऽचित्तो मिश्रक इति, समाहारो वा सचित्ताचित्तमिश्रकमिति, प्राकृतत्वाच्च पुंल्लिङ्गता; च: स्वगतानेकभेदसमुच्चये, एवोऽवधारणे इयन्त एवामी भेदाः, तत्र नोकर्मणि सचित्तद्रव्यपरीषहो गिरिनिर्झरजलादि: अचित्तद्रव्यपरीषहश्चित्रकचूर्णादिमिश्रद्रव्यपरीषहो गुडाकादि, त्रयस्यापि कर्माभावरूपत्वात् क्षुत्परीषहजनकत्वाच्च, इत्थं पिपासादिजनकं लवणजलाद्यप्यनेकधा नोकर्मद्रव्यपरीषह इति स्वधिया भावनीयं, भावपरीषह आगमतो ज्ञाता तब चोपयुक्तो, नोआगमतस्तु नोशब्दस्यैकदेशवाचित्वे आगमैकदेशभूतमिदमेवाध्ययनं, निषेधवाचित्वे तु तदभावरूपः परीषहवेदनीयस्य कर्मण उदयः, तथा चाह-'भावे कम्मस्स उदओ'त्ति कर्मणइति परीषहवेदनीयकर्मणां बहुत्वेऽपि जात्यपेक्षयैकवचननिर्देशः 'तस्य च' भावपरीषहस्य द्वाराणि' व्याख्यानमुखानि ‘इमानि' अनन्तरवक्ष्यमाणानि भवन्तीति गाथार्थः ॥ तान्येवाहनि.[६८] कत्तो कस्स व दव्वे समोआर अहिंसास नए य वत्तणा कालो।
खित्तुद्देसे पुच्छा निद्देसे सुत्तफासे य! वृ.'कुत' इति कुतोऽङ्गादेरिदमुद्धतं १, 'कस्य' इति कस्य संयतादेरमी परीषहाः २, 'द्रव्यम्' इति किममीषामुत्पादकं द्रव्यं ३, 'समवतर' इति क्व कर्मप्रकृतौ पुरुषविशेषे वाऽमीषां सम्भवः?,४,'अध्यास' इति कथममीषामध्यासना सहनात्मिका? ५, 'नय' इति को नयः कं परिषहमिच्छति?,६ चः समुच्चये, 'वर्तना' इति कति क्षुदादय: एककैस्मिन् स्वामिनिवर्तन्ते ७, 'काल' इति कियन्तं कालं यावत् परीषहास्तित्वं ८, 'खेत्ते'त्ति कतरस्मिन्कियति वा क्षेत्रे ९, 'उद्देशो' गुरोः सामान्याभिधायि वचनं १०, 'पृच्छा' तज्जिज्ञासोः शिष्यस्य प्रश्नः ११, 'निर्देशः' गुरुणा पृष्टार्थविशेषभाषणं १२, 'सूत्रस्पर्शः'सूत्रसूचितार्थवचनं १३, 'च: समुच्चये, इति गाथासमासार्थः । तत्र कुत इति प्रश्नप्रतिवचनमाहनि.[६९] कम्मप्पवायपुव्वे सत्तरसे पाहुडंमि जं सुत्तं ।
सणयं सोदाहरणं तं चेव इहंपि नायव्वं ।। वृ. कर्मणः प्रवाद:-प्रकर्षेण प्रतिपादनमस्मिन्निति कर्मप्रवादं तच्च तत् पूर्वं च तस्मिन, तत्र बहूनि प्राभृतानीति कतिथे प्राभृते इत्याह-सप्तदेशे प्राभूते-प्रतिनियतार्थाधिकाराभिधायिनि, यत् 'सूत्रं' गणधरप्रणीतश्रुतरूपं 'सनयं' नैगमादिनयान्वितं, 'सोदाहरणं' सदृष्टान्तं, 'तं चेव'त्ति च: पूरणे एवोऽवधारणे, ततस्तदेव 'इहापि' परीषहाध्ययने 'ज्ञातत्वम्' अवगन्तव्यं, न त्वधिकं, किमुक्तं भवति? निरवशेषं तत एवेदमुद्धत् न पुनरन्यत इति। कस्येति यदुक्तं तदुत्तरमाहनि.[७०] तिण्डंपि नेगममनओ परीसहो जाव उज्जुसुत्ताओ।
तिण्हं सद्दनयाणं परीसहो संजए होइ। वृ. 'त्रयाणामपि' अविरतविरताविरतानां न तु विरतस्यैव नैगमनय: 'परिषहः' क्षुदादिरिति, मन्यत इति शेषः, त्रयाणामपि परीषहवेदनीयासातादिकर्मोदयजनितस्य क्षुधादेस्तत्सहनस्य चयथायोगं सकामाकामनिर्जराहेतोः सम्भवाद्, अनेकगमत्वेन चास्य सर्वप्रकारसंग्रहाहित्वात्, 'जाव उज्जुसुत्ताउ'त्ति सोपस्कारत्वादस्यैवं यावदृजुसूत्रः, कोऽर्थः ?, संग्रहव्यहारऋजुसूत्रा अपि त्रयाणामपि परीषहं मन्यन्ते, एकैकनयस्य शतभेदत्वेनैत दानामपि केषाञ्चित् परीषहं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org