________________
२८१
अध्ययनं-३६,[ नि. ५५९] संमृच्छिमाः, यदिवा समित्युत्पत्तिस्थानपुद्गलैः सहकीभावेन मृन्ति तत्पुद्गलोपचयात्समुच्छ्रिता भवन्तीत्यौणादिक इम्प्रत्यये संमूच्छिमास्ते च ते तिर्यञ्चः संमूच्छिमतिर्यञ्चो ये मनःपर्याप्तयभावतः सदा संमृच्छिता इवावतिष्ठन्ते, तथा गर्भे व्युत्क्रान्तिर्येषां तेऽमी गर्भव्युत्क्रान्तिकाः । जले चरन्ति-गच्छन्ति चरेर्भक्षणमित्यर्थ इति भक्षयन्ति चेति जलचराः, एवं स्थलंनिर्जलो भूभागस्तस्मिश्चरन्तीति स्थलचराः, तथा 'खहयर'त्ति सूत्रत्वात्खम्-आकाशं तस्मिश्चरन्तीति खचराः ।
'यथोद्देशं निर्देश, इति जलचरभेदानाह-'भत्स्याः ' मीनाः 'कच्छपा:' कूर्माः गृह्णन्तीति ग्राहा:- जलचरविशेषा मकराः सुंसुमारा अपि तद्विशेषा एव।।
'लोएगदेसे'त्यादिसूत्राणि षट् क्षेत्रकालभावाभिधायीनि, तथेह पृथक्त्वं द्विप्रभृत्यानवान्तम् । स्थलचरभेदानाह-परि-समन्तात्सर्पन्ति-गच्छन्तीति परिसाः, एकसुखरादयश्च हयादिप्रभृतिभिर्यथाक्रम योज्यन्ते, तत एकः खुरः-चरणे येषामधोवर्त्यस्थिविशेषो येषां ते एकखुराः - हयादयः एवं 'द्विखुराः' गवादयो गण्डी-पद्यकर्णिका तद्ववृत्ततया पदानि येषां ते गण्डीपादाः--गजादयः 'सणप्फत्ति सूत्रत्वात्सह नई-नखरात्मकैर्वर्त्तन्त इति सनखानि तथाविधानि पदानि येषां ते सनखपदा:-सिंहादयः । 'भुओरगपरिसप्पा यत्ति परिसर्पशब्दः प्रत्येकमभिसम्बध्यते, ततो भुजा इव भुजा:-शरीरावयवविशेषास्तैः परिसर्पन्तीति भुजपरिसर्पाः, उरो-वक्षस्तेन परिसर्पन्तीत्युरःपरिसर्पाः, तस्यैव तत्र प्राधान्यात्, गोधादयः अहिः-सर्पस्तदादय इति यथाक्रमं योगः, एते च ‘एकैके' इति प्रत्येकम् ‘अनेकधा' अनेकभेदाः, गोधेरकनकुलादिभेदतो गोणसहाचप्रलापादिभेदेतः।
पल्योपमानितुत्रीण्युत्कृष्टेन तु साधिकानि पूर्वकोटीपृथक्त्वेन-उक्तरूपेण, पल्योपमायुषो हितेन पुनस्तत्रैवोत्पद्यन्ते, ये तु पूर्वकोट्ययुषो मृत्वा तत्रैवोपजायन्ते तेऽपि सप्ताष्ट वा भवग्रहणानि यावत्, पञ्चेन्द्रियनरतिरश्चामधिकनिरन्तरभवान्तरासम्भवात्, उक्तं हि-"सत्तठ्ठ भवा उ तिरिमगुण'त्ति, अत एतावत एवाधिकस्य सम्भव इति भावना।
खचरानाह-'चम्मे उ'त्ति प्रक्रमात् 'चर्मपक्षिणिः' चर्मचटकाप्रभृतयः, चर्मरूपा एव हि तेषा पक्षा इति, तथा रोमप्रधानाः पक्षा रोमपक्षास्तद्वन्तः रोमपक्षिणः-राजहंसादयः 'समुद्गपक्षिणः' समुद्गकाकारपक्षवन्तः, ते च मानुषोत्तराबहिीपवर्तिनः, विततपक्षिणः' ये सर्वदा विस्तारिताभ्यामेव पक्षाभ्यामासते । इह च यत्क्षेत्रस्थित्यन्तरादि प्रत्येकं प्रोक्तनेन सदृशमपि पुनः पुनरुच्यते न पुनरतिदिश्यते तत्प्रपञ्चितज्ञविनेयानुग्रहार्थमेवंविधा अपि प्रज्ञापनीयाएवेति ख्यापनार्थं चेत्यदुष्टमेवेति भावनीयमिति पञ्चवि(चतुर्वि)शतिसूत्रार्थः ।। इत्थं तिरश्चोऽभिधाय मनुजानभिधातुमाहमू. (१६५८) मनुया, दुविहभेया उ, ते मे कित्तयओ सुन ।
संमुच्छिमाइ मनुया, गब्भवक्कतिया तहा।। मू. (१६५९) गम्भवक्कंतिया जे उ, तिविहा ते वियाहिया।
अकम्मकम्मभूमा य, अंतरद्दीवगा तहा। मू.(१६६०) पनरस तीसइविहा, भेआ अठ्ठवीसई।
संखा उ कमसो तेसिं, इह एसा वियाहिया ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org