________________
२७२
उत्तराध्ययन-मूलसूत्रम्-२-३६/१५६२ मू.(१५६२) . लोहिणीहूयथीहू य, तुहगा य तहेव य।
कण्हे य वज्जकंदे य. कंदे सूरणए तह ।। मू. (१५६३) अस्सकन्नी य बोद्धव्वा, सीहकन्नी तहेव य।
मुसुंढी य हलिद्दा य, नेगहा एवमायओ ।। मू.(१५६४)
एगविहमनाणत्ता०॥ मू.(१५६५)
संतई पप्पडनाईआ०॥ मू.(१५६६) दस चेव सहस्साई, वासानुक्कोसिया भवे।
वणस्सईण आउंतु, अंतोमुहुत्त जहनयं ।। मू.(१५६७) अनंतकालमुक्कोसा, अंतोमुहुत्तं जहत्रयं ।
कायठिई पनगाणं, तं कायं तु अमुंचओ। मू.(१५६८) अनंतकालमुक्कोसा, अंतोमुहुत्त जहन्नयं।
विजमि सए काए, पनगजीवाण अंतरं।। मू. (१५६९) एएर्सि वनाओ चेव, गंधओ रसफासओ।
संठाणादेसओ वावि, विहाणाई सहस्ससो॥ वृ.सूत्राणि चतुर्दश, प्रायो व्याख्यातान्येव, नवरंसाधारणम्-अनन्तजीवानामपि समानमेकं शरीरं येषां तेऽमी साधारणशरीराः, उपलक्षणं चैतदाहारानपानग्रहणयोरपितेषां साधारणत्वात्,
"साहारणमाहारो साहारणमाणपाणगहणं च।
साहारणजीवाणं साहरणलक्खणं एयं॥" 'पत्तेगा य'त्ति 'प्रत्येकशरीराश्च एकमेकं प्रति प्रत्येकम्-एकैकशो विभिन्न शरीरमेषामिति प्रत्येकशरीराः, तेषा हि यदेकस्य शरीरं न तदन्यस्येति, यदुक्तम्
"जह सगलसरिसवाणं सिलेसमिस्साण वट्ठिया वत्ती।
पत्तेयसरीराणं तह होंति सरीरसंघाया॥१॥ जह वा तिलसकुलिया बहुएहि तिलेहि मेलिया संतिी ।
पत्तेयसरीराणं तह होंति सरीरसंघाया॥२॥" प्रक्रमाज्जीवा ये इति शेष: अनेकधा ते प्रकीर्तिताः, पठन्ति च-'बारसविहभेएणं पत्तेया उ वियाहिय'त्ति, 'वृक्षाः' चूतादयः 'गुच्छाः' वृन्ताकीप्रभृतयः 'गुल्माश्च' नवमालिकादयः 'लताः' चम्पकलतादयः 'वल्लय: वपुष्यादयः 'तृणानि' जुञ्जकार्जुनादीनि लतावलयानि' नालिकेरीकदल्यादीनि भण्यन्ते, तेषां च शाखान्तराभावेन लतारूपता त्वचो वलयाकारत्वेन च वलयता, पर्वाणि-सन्धयस्तेभ्यो जाता: पर्वजाः पाठान्तरतः पर्वगा वा इक्ष्वादयः 'कुहणा:' भूमिस्फोटकविशेषाः सर्पच्छत्रकादयो, जले रुहन्तीति जलरुहा:- पद्मादयः औषधयःफलपाकान्तास्तद्रुपाणि तृणानि औषधितृणानि-शाल्यादीनि हरितानि-तन्दुलेयकादीनि तान्येव कायाः-शरीराण्येषामिति हरितकायाः, चशब्द एषामेव स्वगतानेकभेदसंसूचकः। ___ 'साधारणशरीरास्त्वि'ति तुशब्दस्यापिशब्दार्थत्वात् साधारणशरीरा अपि न केवलं प्रत्येकशरीरा इत्यपिशब्दार्थः, आलूकमूलकादयः हरिद्रापर्यन्ताः प्रायः कन्दविशेषास्तत्तद्देश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org