SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ यापादस्या अध्ययनं-३६,[ नि. ५५९] २६३ अवगाहन्तेऽस्यां जन्तव इत्यवगाहनाच-शरीरमुत्कृष्टावगाहना पञ्चधनुःशतप्रमाणा तस्यां सिद्धाः 'चः' समुच्चये 'जहन्न मज्झिमाइ य'त्ति अवगाहनायामिति प्रक्रमात्प्रत्येकं योज्यते ततः 'जघन्यावगाहनायो' द्विहस्तमानशरीररूपायां सिद्धाः 'मध्यमावगाहनायां च' उक्तरूपोत्कृष्टजघन्यावगाहनान्तरालवर्त्तिन्यां सिद्धाः 'उर्ध्वलोके मेरुचूलिकादौ सिद्धाः, संभवति हि तत्रापि केपाञ्चित्सिद्धप्रतिमावन्दनाद्यर्थमुपगतानां चारणश्रमणादीनां मुक्त्यवाप्तिः, 'अधश्च' अधोलोकेऽर्थादधोलौकिकग्रामरूपेऽपि सिद्धाः, 'तिरियं च'त्ति तिर्यग्लोके च' अर्द्धतृतीयद्वीपसमुद्ररूपे तत्रापि केचित् 'समुद्रे' जलधौ सिद्धाः 'जले च' नद्यादिसम्वन्धिनि सिद्धाः, भूभूधराद्यशेपास्पदोपलक्षणमेतत्, अर्द्धतृतीयद्वीपसमुद्रेपुहिन क्वचिन्मुक्त्यवाप्तिनिषेध इति सूत्रार्थः ।। इत्थं स्त्रीसिद्धादीनभिदधता स्त्रीत्वादिषु सिद्धसम्भव उक्तः, सम्प्रति तत्रापि क्व कियन्तः सिध्धन्ति? इत्याशक्याहमू.(१५१५) दस य नपुंसएसुं, वीसं इत्थियासु य। पुरिसेसु य अट्ठसयं, समएणेगेन सिज्झई। मू. ( १५१६) चत्तारिय गिहिलिंगे, अन्नलिंगे, दसेव य। सलिंगेण य अट्ठसयं, समएनेगेण सिज्झई। उक्कोसोगाहनाए उ, सिझंते जुगवं दुवे । चत्तारि जहन्नाए, जहमज्झत्तरं सयं। मू. (१५१८) चउरुडलोए य दुवे समुद्दे, तओ जले वीसमहे तहेव। सयं च अठुत्तर तिरियलोए, समएणेगेन उसिण्झई धुवं । वृ.'दश' दशसङ्ख्याश्चशब्द उत्तरापेक्षया समुच्चये 'नपुंसकेषु' वद्धितचिर्पितादिषु विंशतिः 'इत्थीयासु य'त्ति स्त्रीषु च पुरुषेषु चाष्टभिरधिकं शतमष्टशतं 'समयेन' अविभागकालरूपेण 'एकेन' एकसङ्ख्येन, प्रकृत्यादित्वात्तृतीया, 'सिद्धति' निष्ठितार्थं भवति, चत्वारो गृहिलिङ्गेऽन्यलिङ्गे दशैवच, स्वलिङ्गेन चाष्टशतं समयेनैकेन सिध्यति। उत्कृष्टावगाहनायां तु' उक्तरूपायां सिध्यतः 'युगपत्' एककालं 'द्वौ' द्विसङ्ख्यौ 'चत्वारः' चतुःसङ्ख्याः 'जहत्राए'त्ति जघन्यावगाहनायां 'जवमज्झ'त्ति यवमध्यमिव यवमध्या-मध्यमावगाहना तस्याम् 'अष्टोत्तरं शतम्' अष्टोत्तरशतसङ्ख्याः , यवमध्यत्वं चैषां मध्यमावगाहनायामुत्कृष्टजघन्यावगाहनयोर्मध्यवत्तित्वात्, तदपेक्षया च बहुतरसङ्ख्यात्वेन स्थूलतयैव भासमानत्वादिति भावनीयमिति। चत्वार ऊर्वलोके च द्वो समुद्रे त्रयो जले विंशतिः 'अधः' इत्यधोलोके 'तथैव' तेनैव प्रकारेण शतं च 'अष्टोत्तरम्' अष्टाधिकं तिर्यग्लोके समयेनैकेन तु सिद्धति, तुशब्दश्चशब्दश्च क्वचित्पूरणे क्वचिच्च पुनर्थे व्याख्येयः । एतत्सूत्रस्थाने चान्ये सूत्रद्वयमित्थं पठन्ति "चउरो उड्डलोगंमि, वीसपहुत्तं अहे भवे । सयं अट्ठोत्तरं तिरिए, एगसमएण सिज्झई ।। दुवे समुद्दे सिझंती, सेसजलेसु ततो जना। एसा उसिज्झणा भणिया, पुव्वभावं पडुच्च उ॥" एतच्च व्याख्यातप्रायमेवेति सूत्रचतुष्टयार्थः । इत्थं पूर्वभावप्रज्ञापनीयनयापेक्षयाऽनेकधा www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy