________________
अध्ययन-३४,[ नि.५४९ ]
२४१ यत आगमः.. "जल्लसाइं दव्चाई परियाइत्ता कालं करेइ तल्लेसो उववज्जइ"त्ति, तथेहेव वक्ष्यति "अंतोमुहुत्तंमि गए" इत्यादि तत्र जन्मान्तरभाविलेश्यायाः किं प्रथमसमये परभवायुप उदय आहोखिच्चरमसमयेऽन्यथा वेति संशयापनोदानायाहम.(१४४०) लेसाहि सचाहिं पढमे समयंमि परिणयाहित।
नहु कस्सइ उत्रवत्ति परे भवे अस्थि जीवस्स।। म. (१४४१) लेसाहिंसवाहिं चरमे समयंमि परिणयाहिं तु ।
नहु कस्सइ उववत्तिपिरे भवे अस्थि जीवस्स। म.(१४४२) अंतमुहत्तंमि गए अंतमुहत्तमि सेसए चेव।
लेसाहिं परिणयाहिं जीवा गच्छति परलोय।। व. 'लेश्याभिः' उक्तरूपाभिः' 'सर्वाभिः' इति पइिभरपि प्रथमे समये तत्प्रतिपत्तिकालापेक्षया परिणताभिः' प्रस्तावादात्मरूपतामापन्नाभिः, लक्षणे तृतीया, 'तुः' पूरणे 'न हु' नैव कस्यापि ‘उववत्ति'त्ति 'उत्पत्ति:' उत्पाद:, पठ्यते च 'नवि कस्सवि उववाओ'त्ति सुगम, 'परे' अन्यस्मिन् ‘भवे' जन्मनि भवति' विद्यते 'जीवस्य' जन्तोः। तथा लेश्याभिः सर्वाभिः चरमे समये ' इथ्यन्तसमये परिणताभिस्तु नहु' नैव कस्याप्युत्पत्तिः परे भवे भवति जीवस्य। कदा तहीिं? इत्याह__ अन्तर्मुहूर्ते 'गत एव' अतिक्रान्त एव तथाऽन्तर्मुहूर्ते शेपके चैव-अवतिष्ठमान एव लेश्याभिः परिणताभिरुपलक्षिता जीवा गच्छन्ति 'परलोकं' भवान्तरम्, इत्थं चैतन्मतिकाले भाविभवलेश्याया उत्पत्तिकाले वाऽतीतभवलेश्याया अन्तर्मुहूर्तमवश्यम्भावात्, न त्विह विपरीतमवधार्यते-अन्तर्मुहूर्त एव गत इत्यन्तमुहूर्त, एव शेपक इति च, देवनारकाणां स्वस्वलेश्यायाः प्रागुत्तरभवान्तर्मुहूर्तद्वयसहितनिजायु:कालं यावदवस्थितत्वात्, उक्तं हि प्रज्ञापनायाम्"जल्लेसाई दव्वाइं आयतित्तां कालं करेति तल्लेसेसु उववज्जइ'त्ति, तथा 'कण्हलेसे नेरतिए कण्हलेसेसु नेरइएसु उववज्जति कण्हलेसेसु उव्वट्टइ, जल्लेसे उववज्जइ तल्लेसे उव्वदृति, एवं नीललेसेवि काउलेसेवि, एवं असुरकुमारा जाव वेमाणिय"त्ति, अनेनान्तर्मुहूर्तावशेष आयुषि परभवलेश्यापरिणाम इत्युक्तं भवतीति सूत्रत्रयार्थः॥ इत्थं लेश्यानां नामांद्यभिधाय साम्प्रतमध्ययनार्थमुपसंजिहीर्षुरुपदेशमाहमू.(१४४३) तम्हा एयासि लेसाणं, अनुभावं वियाणिया।
अप्पसत्थाउ वज्जित्ता, पसत्थाओ अहिट्ठए मुनि । तिबेमि ।। वृ.'तम्ह'त्ति यस्मादेता अप्रशस्ता दुर्गतिहेतवः प्रशस्ताश्च सुगतिहेतवस्तस्मात् 'एतासाम्' अनन्तरमुक्तानां लेश्यानाम् 'अनुभागम्' उक्तंरूपं 'विज्ञाय' विशेषेणावबुध्य अप्रशस्ता: कष्णाद्यास्तिस्रो वर्जयित्वा 'प्रशस्ताः' तेजस्याद्यास्तिस्रः 'अधितिष्ठेत' भावप्रतिपत्त्याऽऽश्रयेन्मुनिरिति शेष इति सूत्रार्थः । 'इति' परिसमाप्तौ, ब्रवीमीति पूर्ववत्, नयाश्च प्राग्वत्॥
अध्ययनं-३४-समाप्तम् । मुनि दीपरत्नसागरेण संशोधिता सम्पादिता उत्तराध्ययनसूत्रे चतुस्त्रिंशत्तम् अध्ययनस्य भद्रबाहुसूरि विरचिता एवं शान्त्याचार्य विरचित्ता टीका परिसमाप्ता। | 29/16
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org