________________
२३६
उत्तराध्ययन-मूलसूत्रम्-२-३४/१४१४ मू.(१४१४) सरागे वीयरागे वा, उवसंते जिइंदिए।
एयजोगसमाउत्तो, सुक्कलेसं तु परिणमे । वृ.स च 'सरागः' अक्षीणानुपशान्तकपायतया वीतरागो वा ततोऽन्य उपशान्तः पाठान्तरतः 'शुद्धयोगो वा' निर्दोषव्यापारो जितेन्द्रियः प्राग्वत्, स एतद्योगसमायुक्तः शुक्ललेश्यां तु परिणमति, इह च शुभलेश्यासु केषाञ्चिद्विशेषणानां पुनरुपादानेऽपि लेश्यान्तरविषयत्वादपौनरुक्त्यं, पूर्वपूर्वापेक्षयोत्तरोत्तरेषां विशुद्धितः प्रकृष्टत्वं च भावनीयं, विशिष्टलेश्या वाऽपेक्ष्यैवं लक्षणाभिधानमिति न देवादिभिर्व्यभिचार आशङ्कनीय इति द्वादशसूत्रार्थः ।। मू.(१४१५) अस्संखिज्जाणोसप्पिणीण उस्सप्पिणीण जे समया।
संखाईया लोगा लेसाण हवंति ठाणाई॥ वृ. 'असङ्घयेयानां' सङ्ख्यातीतानाम् अवसर्पन्ति-प्रतिसमयं कालप्रमाणं जन्तूनां वा शरीरायुःप्रमाणादिकमपेक्ष्यहासमनुभवन्त्यवश्यमित्यवपिण्यो-दशसागरोपमकोटीकोटिपरिमाणास्तासां तथा तत्परिमाणानामेव उत्सर्पन्ति-उक्तन्यायतो वृद्धिमनुभवन्त्यवश्यमित्युत्सपिण्यस्तासां ये 'समया:' परमनिरुद्धकाललक्षणाः, कियन्त इत्याह- सङ्ख्यातीताः पाठान्तरतोऽसङ्ख्येया वा लोका असङ्ख्येयलोकप्रमितत्वेन यथा दशप्रस्थप्रमितत्वेन व्रीहयो दशप्रस्थाः, ततोऽयमर्थ:-असङ्ख्येयलोकाकाशप्रदेशपरिमाणानिलेश्यानां भवन्ति स्थानानि प्रकर्षापकर्षकृतानि, अशुभानां संक्लेशरूपाणि शुभानां च विशुद्धिरूपाणि तत्परिमाणानीति शेषः, यद्वा असङ्ख्येयोत्सर्पिण्यवसर्पिणीनां ये समया गम्यमानत्वात्तावन्ति लेश्यानां भवन्ति स्थानानीति कालतोऽसङ्ख्याता लोका इति च क्षेत्रतः स्थानमानमेवोक्तमिति सूत्रार्थः ।। मू. ( १४१६) मुहत्तद्धं तु जहन्ना तित्तीसा सागरा मुहत्ताहिया।
उक्कोसा होइ ठिई नायव्वा किण्हलेसाए। मू.(१४१७) मुहुत्तद्धं तु जहन्ना दसउहिपलियमसंखभागमभहिया।
___उक्कोसा होइ टिई नायव्वा नीललेसाए। मू.(१४१८) मुहुत्तद्धं तु जहन्ना तिनुदही पलियमसंखभागमब्भहिया।
उक्कोसा होइ ठिई नायब्वा काउलेसाए।। मू.(१४१९) मुहत्तद्धं तु जहन्ना दोण्हु पलियमसंखभागमब्भहिया।
उक्कोसा होइ ठिई नायव्वा तेउलेसाए । मू. (१४२०) मुहुत्तद्धं तु जहन्ना दसउदही होइ मुहुत्तब्भहिया ।
उक्कोसा होइ ठिई नायब्बा पम्हेलेसाए। मू. (१४२१) मुहुत्तद्धं तु जहना तित्तीसं सागरा मुहुत्तहिया।
उक्कोसा होइ ठिई नायव्वा सुक्कलेसाए । वृ. मुहूर्तस्या? मुहूर्तार्द्धः, तत्कालात्यन्तसंयोगे द्वितीया, इह च समप्रविबागस्याविवक्षितत्वादन्तर्मुहूर्त्तमित्युक्तं भवति, 'तुः' अवधारणे ततो मुहूर्ताद्धमेव जघन्या 'तेत्तीस'त्ति त्रयस्त्रिंशत् 'सागराईति पदैकदेशऽपि पदप्रयोगदर्शनात्सागरोपमाणि 'मुहुत्तऽहिय'त्ति इहोत्तरत्र च मुहूर्तशब्देन मुहूर्तेकदेश एवोक्तः, समुदायेपु हि प्रवृत्ताः शब्दा अवयवेष्वपि वर्तन्ते यथा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org