________________
अध्ययनं-३३,[नि.५३६] मू.(१३६५) मोहनियंपि य दुविहं, दंसणे चरणे तहा।
दसणे तिविहं वुत्तं, चरणे दुविहं भवे ॥ वृ.मोहनीयमपि द्विविधं, न केवलं वेदनीयं, विषयतश्चैतद्विधेति द्वैविध्यमाह-'दर्शने' तत्त्वरुचिरूपे 'चरणे' चारित्रे तथा, किमुक्तं भवति?-दर्शनमोहनीयं चारित्रमोहनीयं च, तत्र 'दर्शने' दर्शनविषयं प्रक्रमान्मोहनीयं त्रिविधमुक्तं भवति, 'चरणे' चरणविषयं मोहनीयं द्विविधं भवेत् । मू.(१३६६) संमत्तं चेवमिच्छत्तं, सम्मामिच्छत्तमेव य।
एयाओ तित्रि पयडीओ, मोहनिज्जस्स दंसणे॥ वृ.यथा दर्शनमोहनीयत्रैविध्यं तथाऽ ऽह-सम्यग्भावः सम्यक्त्वं-शुद्धदलिकरूपं यदुदयेऽपि तत्त्वरुचि: स्यात् 'चैवे'ति पूरणे मिथ्याभावः मिथ्यात्वम्-अशुद्धदलिकरूपं यतस्तत्त्वेऽतत्त्वमतत्त्वेऽपि तत्त्वमिति बुद्धिरुत्पद्यते, सम्यग्मिथ्यात्वमेव च-शुद्धाशुद्धदलिकरूपं यत उभयस्वभावता जन्तोर्भवति, इह च सम्यक्त्वादयो जीवधर्मास्तद्धेतुत्वाच्च दलिकेष्वेतद्यप्रदेशः, एतास्तिस्रः प्रकृतयो मोहनीयस्स 'दर्शने' दर्शनविषयस्य ६ । मू.(१३६७) चरित्तमोहणं कम्म, दुविहं तु वियाहियं ।
कसायमोहनिजं च, नोकसायं तहेव य॥ वृ. चरित्रे मुह्यतेऽनेनेति मोहनं चरित्रमोहनं कर्म यतः श्रद्दधानोऽपि यदि कथञ्चनाहमेनं प्रतिपद्य इति जाननपि तत्फलादि न तत्प्रतिपद्यते, उत्तरत्रतुशब्दस्य भिन्नक्रमत्वात्तत्पुनर्द्विविधं व्याख्यातं श्रुतधरैरिति शेषः, पठन्ति च 'चरित्तमोहनिजं दुविहं वोच्छामि अनुपुव्वसो'त्ति स्पष्टमेव, कथं तद् द्विविधमित्याह-कषाया:-क्रोधादयस्तद्रूपेण वेद्यते-अनुभूयते यत्तत्कषायवेदनीयं 'च:' समुच्चये 'नोकषायम्' इति प्रस्तावान्नोकषायवेदनीयं नोकषायाः-कषायसहवत्तिनो हास्यादयस्तद्रूपेण यद्वेद्यते 'तथे'ति समुच्चये । । मू.(१३६८) सोलसविहभेएणं, कम्मं तु कसायज ।
सत्तविह नवविहं वा, कम्मं नोकसायजं॥ वृ.अनयोरपि भेदानाह-षोडशविधः-षोडशप्रकारो यो भेदो-नानात्वं तेन, लक्षणे तृतीया, यद्वा षोडशविधं भेदेन-भिद्यमानतया चिन्त्यमानं, प्राकृतत्वादनुस्वारलोपः, कर्म क्रियमाणत्वात्, 'तुः' पुनरर्थे भिन्नक्रमश्च, कषायेभ्यो जायत इति कषायजं "जं वेयति तं बंधति" इतिवचनात् कषायवेदनीयमित्यर्थः, षोडशविधत्वं चास्य क्रोधमानमायालोभानां चतुर्णामपि प्रत्येकमनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनभेदतश्चतुर्विधत्वात् 'सत्तविह'ति प्राग्वद्विन्दुलोपात्सप्तविधं वा कर्म नोकषायेभ्यो जायत इति 'नोकषायजं' नोकषायवेदनीयमित्यर्थः, तत्र सप्तविधं हास्यरत्यरतिभयशोकजुगुप्साः षड् वेदश्च सामान्यविवक्षयैक एवेति, यदा तु वेदः स्त्रीपुनपुंसकभेदेन त्रिधेति विवक्ष्यते तदा षड्विस्रयो मीलिता नव भवन्तीति नवविधमिति । मू.(१३६९) नेरइयतिरिक्खाऊ, मनुस्साउं तहेव उ।
देवाऊयं चउत्थं तु, आउकम्मं चउव्विहं। वृ. 'नेरइयतिरिक्खाउ'त्ति आयुःशब्दः प्रत्येकं योज्यते, ततश्च निष्क्रान्ता अयात्इष्टफलदैवात्तत्रोत्पन्नानां सद्वेदनाऽभावेनेति निरयास्तेषु भवा नैरयिकास्तेषामायुः नैरयिकायुर्येन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org