________________
२१४
उत्तराध्ययन-मूलसूत्रम्-२-३२/१३४९ मु.(१३४९) आवजई एवमणेगरूवे, एवंविहे कामगुणेसु सत्तो।
अन्ने य एयप्पभवे विसेसे, कारुनदीणे हिरिमे वइस्सो।। वृ. क्रोधं च मानं च तथैव मायां लोभं-चतुष्टमप्युक्तरूपं 'जुगुप्सां चिकित्साम् 'अति' अस्वास्थ्यं रतिं च' विषयासक्तिरूपां 'हासंच' वक्रविकाललक्षणं 'भयं' साध्वसं शोकपुंस्त्रीवेदमिति समाहारनिर्देशः ततः शोकं -प्रीयविप्रयोगजं मनोदुःखात्मकं पुंवेदस्त्रीविषयाभिलाषं स्त्रीवेदं-पुरुषाभिष्वङ्ग 'नपुंसकवेयंति नपुंसकवेदम्- उभयाभिलापं 'विविधांश्च' नानाविधान् ‘भावान्' हर्षविषादादीनाभिप्रायान् आपद्यते' प्राप्नोति, ‘एवम्' अमुना रागद्वेषवत्तालक्षणेन प्रकारेण 'अनेकरूपान्' बहुभेशननन्तानुबन्ध्यादिभेदेन तारतम्यभेदेन च ‘एवंविधान्' उक्तप्रकारान् विकारानिति गम्यते, 'कामगुणेषु' शब्दादिषु 'सक्तः' अभिष्वङ्गवान् उपलक्षणत्वाद् द्विष्टश्च, अन्यांश्च 'एतदीनः कारुण्यदीनो मध्यमपदलोपी समासोऽत्यन्तदीन इत्यर्थः, 'हिरिमे'त्ति 'होमान्' लज्जावान्, कोपाद्यापन्नो ही प्रीतिविनाशादिकमिहैवानुभवन् परत्र च तद्विपाकमतिकटुकं विभावयन् प्रायोऽतिदैन्यं लज्जां च भजते, तथा 'वइस्स'त्ति आर्पत्वात् 'द्वेष्यः' तत्तद्दोषदुष्टत्वात्सर्वस्याप्रीतिभाजनमिति सूत्रद्वयार्थः ।।
यतश्चैवं रागद्वेषावेव दुःखमूलभतः प्रकारान्तरेणापि तयोरुद्धरणोपायाभिधानार्थं तद्विपर्यये दोषदर्शनार्थं चेदमाहम.(१३५०) कप्पं च इच्छिज्ज सहायलिच्छ, पच्छानुतावेण तवप्पभावं।
एवं विकारे अमियप्पयारे, आवज्जई इंदियचोरवस्से ।। वृ. कल्पते-स्वाध्यायादिक्रियासु समर्थो भवतीति कल्पो-योग्यस्तम्, अपेर्गम्यमानत्वात्कल्पमपि, किं पुनरकल्पं?, शिष्यादीति गम्यते, 'नेच्छेत्' नाभिलपेत् ‘सहायलिच्छृत्ति बिन्दोरलाक्षणिकत्वात्, 'सहाये(यं') लिप्सुः ममासौ शरीरसंबाधनादि साहाय्यं करिष्यतीत्यभिलाषुकः सन्, तथा पश्चादिति-प्रस्तावाद्यतस्य तपसो वाऽङ्गीकारादुत्तरकालमनुतापः-- किमेतावन्मया कष्टमङ्गीकृतमिति चित्तबाधात्मको यस्य स तथाविधः चशब्दादन्यादृशश्च सम्भूतयतिवद् भवान्तरे भोगस्पृहयालुः, तपःप्रभावं प्रक्रमानेच्छेद, यथा-न शक्यमङ्गीकृतं त्यक्तुं परं यद्यस्य व्रतस्य तपसो वा फलमस्ति तत एतस्मादिहैवामषौष्ध्यादिलब्धिरस्तु, . तदन्यादृशापेक्षया तु भवान्तरे शकचक्रिविभूत्यादि भूयादिति किमेव निषिध्यते ? इत्याह'एवम्' अमुना प्रकारेण 'विकारान्' दोषान् 'अमितप्रकारान्' अपरिमितभेदान् ‘आपद्यते' प्राप्नोति इन्द्रियाणि चौरा इव धर्मसर्वस्वापहरणाद् इन्द्रियचौरास्तद्वश्यः-तदायत्तः, उक्तविशेषणविशिष्टस्य हि कल्प्यतपःप्रभाववाञ्छारूपेण स्पर्शनादीन्द्रियवश्यतावश्यसंभाविनी ततश्चोत्तरोत्तरविशेषानभिलषतः संयम प्रति चित्तविप्लुत्यवधावनादिदोषा अपि संभवन्त्येवेति, एवं च ब्रुवतोऽयमाशयः-तदनुग्रहबुद्धा कल्प पुष्टालम्बने च तपःप्रभावं च वाञ्छतोऽपि न दोषः, अथवा कल्पमुक्तरूपं नेच्छेत्सहायलिप्सुं यदि कथञ्चनामी मम धर्मसहाया भवन्तीत्येवमभिलाषुकमप्यास्तामन्यमिति भावः, जिनकल्पिकापेक्षं चैतत्, एतेन च रागस्य हेतुद्वयपरिहरणमुद्धरणोपाय उक्तः, उपलक्षणं चैतदीदृशामन्येषामपि रागहेतूनां च परिहारस्य, ततः सिद्धंद्वयोरप्युद्धरणोपायानां तद्विपर्यये च दोषाणामभिसन्धानमिति सूत्रार्थ: ।। अनन्तरंरागद्वेषोद्ध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org