________________
२०६
उत्तराध्ययन-मूलसूत्रम्-२-३२/१२६६ आयुः 'ख़ुदति' आपत्वात्, 'क्षोदयन्ति' विनाशयन्ति विपच्यमानानि, 'एतदुपमाः किम्पा-- कफलतुल्या: कामगुणाः 'विपाके' फलप्रदानकाले, किमुक्तं भवति?-यथा किम्पाकफलान्युपभुज्यमानानि मनोरमाणि विपाकावस्थायां तु सोपक्रमायुषां मरणहेतुतयाऽतिदारुणानि, एवं कामगुणा अपि उपभुज्यमाना मनोरमा विपाकावस्थायां तु नरकादिदुर्गतिदु:खदायितयाऽत्यन्तदारुणा एव, ततः सुखरूपतया प्रतिभासनं सुखहेतुत्वेऽनैकान्तिकमेव, किम्पाकफलानां मनोरमत्वेन सुखप्रतिभासेऽप्यन्यथाभावादिति सूत्रैकादशकार्थः ।। ___ इत्थं बहुतरगुणस्थानानुयायित्वेन रागस्य प्राधान्यत्केवलस्यैवोद्धरणोपायमभिधाय सम्प्रति तस्यैव द्वेषसहितस्य तमभिधित्सुर्दमितेन्द्रि यत्वं च सिंहावलोकितन्यायाश्रयणेन व्याचिख्यासुरिदमाहमू.(१२६७) जे इंदियाणं विसया मणुना, न तेसु भावं निसिरे कयाई।
नयामणुन्नेसु मनपि कुज्जा, समाहिकामे समणे तवस्सी। वृ.ये 'इन्द्रियाणां' चक्षुरादीनां विषयाः' रूपादयः ‘मनोज्ञाः' मनोरमा: न तेषु' विषयेषु 'भावम्' अभिसन्धिम्, अपेर्गम्यमानत्वाद्भावमपि प्रस्तावादिन्द्रियाणि प्रवर्त्तयितुं, किं पुनस्तत्प्रवर्त्तनमित्यपिशब्दार्थः, 'निसृजेत्' कुर्यात् 'कदाचित्' कस्मिंश्चित्काले, 'न च' नैव 'अमनोज्ञेषु' अमनोरमेषु 'मनोऽपि' चित्तमपि, अत्रापीन्द्रियाणि प्रवर्तयितुम् अपिशब्दार्थश्च प्राग्वत् 'कुर्यात्' विदध्यात्, अनेन वाक्यद्वयेनापीन्द्रियदम उक्तः, समाधिः-चित्तेकाग्र्यं स च रागद्वेषाभाव एवेति स एवानेनोपलक्ष्यते, ततस्तत्कामो-रागद्वोषोद्धरणाभिलाषी श्रमणस्तपस्वीति च प्रागवत्, नन्वेवमुभयोद्धरणहेतुत्वेनेन्द्रियदमस्य किमिति रागोद्धरणहेतुष्वभिधानम्,?, उच्यते, हेतुप्रक्रमात्, न चोभयोद्धरणहेतुतयैकोद्धरणहेतुता विरुध्ये, यदिवा तत्रापि रागस्य द्वेषोपलक्षणत्वादुभयोद्धरणोपायतैव विवक्षिता, किन्तु एव दर्पतो द्वेषसम्भवादवमाशनत्वस्याप्यसौ भावनीयेत्यलं प्रसङ्गेनेति सूत्रार्थः॥
इत्थं रागद्वेषोद्धरणैषिणो विषयेभ्यो निवर्त्तनमिन्द्रियाणामुपदिष्टम्, अधुना त्वेतेषु तत्प्रवर्तने रागद्वेषानुद्धरणे च यो दोषस्तं प्रत्येकमिन्द्रियाणि तत्प्रसङ्गतो मनश्चाश्रित्य दर्शयितुमाहमू.(१२६८) चक्खुस्स रूवं गहणं वयंति, तं रागहेउं तु मणुत्रमाहु।
तं दोसहेउं अमणुन्नमाहु, समो अ जो तसु स वीयरागो। मू.(१२६९) रुवस्स चक्खं गहणं वयंति, चक्खुस्स रूवं गहणं वयंति।
___ रागस्स हेउं समणुन्नमाहु, दोसस्स हेउ अमणुन्नमाहु॥ मू. (१२७०) रूवेसु जो गिद्धिमुवेइ तिव्वं, अकालियं पावइ सो विनासं।
रागाउरे से जहवा पयंगे, आलोअलोले समुवेइ मच्चुं । मू.(१२७१)जे यावि दोसं समुवेइ तिब्वं, तंसि क्खणे से उ उवेइ दुक्खं।
दुइंतदोसेण सएण जंतू, न किंचि रूवं अवरज्झई से। मू. (१२७२) एगंतरत्तो रुइरंसि रूवे, अतालिसे से कुणई पओसं।
दुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेन मुनी विरागे। मू. (१२७३) रूवानुगासानुगए य जीवे, चराचरेहि सयणेगरूवे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org