________________
अध्ययनं - ३१, [ नि. ५२२]
"वसहिकहनिसिज्जिदिय कुड्डितरपुव्वकीलियपणीए ।
अतिमायाहारविभूसमा य नव बंभगुत्तीओ ॥"
भिक्षु धर्मे 'दशविधे' क्षान्त्यादिभेदतो दशप्रकारे प्रागुक्त एव यो भिक्षुर्यतते यथावत्परि हारासेवनपरिपालनादिभिः ।
मू. ( १२३६ )
उवासगाणं पडिमासु, भिक्खूणं पडिमासु य । जे भिक्खू जयई निच्च, से न अच्छइ मंडले ॥
वृ. उपासते सेवन्ते यतीनित्युपासका:- श्रावकास्तेषां 'प्रतिमासु' अभिग्रहविशेषरूपास्वेकादशसु दर्शनादिपु उक्तं हि
"दंसणवयसामाइय पोसहपडिमाअवंभसचित्ते । आरंभपेसउद्दिवज्जए समणभूए य ॥"
'भिक्षूणां ' यतीनां 'प्रतिमासु च' मासिक्यादिषु द्वादशसु यत आगमः"मासाई ससंता पढमाबितततिय सत्तराइदिना । अहराइएगराई भिक्खुपडिमाण बारसगं ॥"
यो भिक्षुर्यतते यथावत्परिज्ञनोपदेशपालनादिभिः । मू. ( १२३७ )
१९१
किरियासु भूयगामेसु, परमाहम्मिएसु य । जे भिक्खू जयई निच्च, से न अच्छइ मंडले |
वृ. क्रियन्ते मिथ्यात्वादिक्रोडीकृतैर्जन्तुभिरिति क्रिया:- कर्मबन्धनिबन्धनभूताश्चेष्टास्तास्वर्थानर्थादिभेदतस्त्रयोदशसु तथा चागमः
-
"अट्ठानट्टाहिंसाऽकम्हा दिट्टी य मोसऽ दिने य । अज्झत्थमाणमेत्ते मायालो भेरियावहिया ।। "
अभूवन् भवन्ति भविष्यन्ति चेति भूतानि प्राणिनस्तेषां ग्रामाः - सङ्घाता भृतग्रामास्तेष्वेकेन्द्रियसूक्ष्मेतरादिभेदतश्चतुर्दशसु उक्तं हि
"एगिंदिय सुहुमियरा सन्नियरा पणिदिया सबितिचउ । पज्जत्तापज्जत्तगभेएणं चोद्दसग्गामा ||"
धर्मेण चरन्ति धार्मिका ये न तथा तेऽधार्मिकाः परमाश्च ते सकलाधार्मिकप्रधानतयाऽधार्मिकाश्च परमाधार्मिकाः- अत्यन्तसंक्लिष्टचेतसो ऽम्बादयस्तेषु, ते च पञ्चदश, यत उक्तम्"अंबे १ अंबरिसी २ चेव, सामे ३ सबलेत्ति ४ आवरे । रुद्दो ५ वरुद्द ६ काले य ७, महाकालेत्ति आवरे ८ || १ || असिपत्ते ९ धनु १० कुंभे ११, वालू १२ वेयरणी इय १३ । खरस्सरे १४ महाघोसे १५, एए पन्नरसाहिया || २ || "
तेषु यो भिक्षुर्यतते यथाक्रमं परिहाररक्षापरिज्ञानादिभिः । मू. ( १२३८ ) गाहासोलसएहिं, तहा अस्संजमंमि अ ।
जे भिक्खु जयई निच्चं, से न अच्छड़ मंडले |
वृ. गीयते - शब्द्यते स्वपरसमयस्वरूपमस्यामिति गाथा - सूत्रकृताङ्गस्य षोडशमध्ययनम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org