________________
१८४
उत्तराध्ययन- मूलसूत्रम् - २ - ३० / १२११ प्रक्रमादुदरस्य मुणितव्यः, यद्वा सुब्व्यत्ययादेवं चरतः खलु सुब्व्यत्ययाद् भावावमत्वेन हेतुना मुणितव्यमावमौदार्यमिति प्रक्रमः । पर्यवान्रमादार्थमाह
मू. ( १२१२ )
दव्वे खित्ते भावमि य आहिया उ जे भावा । एएहिं ओमचरओ पज्जवचरओ भवे भिक्खू ।।
'वृ. 'द्रव्ये ' अशनादौ ' क्षेत्रे' ग्रामादी 'काले' पौरुप्यादी 'भावे च' स्त्रीत्वादो 'आख्याताः ' कथिताः 'तु:' पूरणे ये 'भावा: ' पर्याया एकसिक्थोनत्वादयः, एतैः सर्वैरपि द्रव्यादिपर्यायैः 'ओमत्ति' अवममुपलक्षणत्वादवमौदार्यं चरति आसेवते अवमचरकः पर्यवचरको भवेदिभक्षुः, इह च पर्यवग्रहणेन पर्यवप्राधान्यविवक्षया पर्यवावमौदार्यमुक्तम्, अथवा 'एएहि अवमचरओ 'त्ति 'एतेभ्यः ' द्रव्यादिपर्यीयेभ्यः 'अवमचरकः ' न्यूनत्वासेवक:, किमुक्तं भवति ? - एक सिक्थोनत्वादावपि नवपुराणादिविशेषाभिग्रहवान् एवं ग्रामपौरुपी स्त्रीत्वादिष्वपि विशिष्टाभिग्रहतः पूर्वस्मान्न्यूनत्वं भावनीयम् ।
आह- क्षेत्रावमौदार्यादिष्वप्यशनादिद्रव्येणैवोदरस्यावमत्वमिति कथं द्रव्यावमौदार्यादपां विशेष: ?, उच्यते, क्षेत्रादिहेतुकत्वस्यैव तत्र प्राधान्येन विवक्षितत्वात् तद्विवक्षा च द्रव्यावमौदार्यस्यापि तेषु तद्धेतुकत्वात्, यदिवा यत्रापि द्रव्यतो न्यूनत्वमुदरस्य नास्ति तत्रापि क्षेत्रादिन्यूनातामपेक्ष्य क्षेत्राद्यवमौदार्याणि भण्यन्त इति प्रश्नानवकाश एवेति सूत्रैकादशकगर्भार्थः ॥ मू. ( १२१३ ) अट्ठविहगोयरग्गं तु. तहा सत्तेव एसणा ।
अभिग्गहा य जे अन्ने, भिक्खायरियमाइया ॥
वृ. ‘अट्टविहगोयरग्गं' ति प्राकृतत्वाद् अष्टविधः - अष्टप्रकारोऽग्र:- प्रधान आधाकर्मादिपरिहारेण स चासौ गौरिवचरणम् - उच्चावचकुलेप्यविशेपेण पर्यटनं गोचरश्चाष्टविधानगोचरः, 'तु: ' उत्तरेभदापेक्षया समुच्चये, तथा ससैवैषणा अभिगृह्यन्त इत्यभिग्रहाः 'चः' समुच्चये ये अन्ये एतदतिरिक्ताः, ते किमित्याह- 'भिक्खायरियमाहिय'त्ति सूत्रत्वेन भिक्षाचर्याविपयत्वात् भिक्षाचर्या वृत्तिसङ्क्षेपापरनामिकाऽऽख्याताः, अत्र चाष्टावग्रगोचरभेदाः पेडादय एव जम्बूकावतया द्वैविध्याश्रयणतः तथा ऋज्च्याद्याश्चापराया: प्रक्षेपात्, सप्तैषणाश्चेमाः
"संसट्टमसंसट्टा उद्धड तह अप्पलेवडा चेत्र ।
उग्गहिया पग्गहिया उज्झियधम्मा य सत्तमिया ॥"
'अभिग्रहाश्च' द्रव्यक्षेत्रकालभावविषयाः, तत्र द्रव्याभिग्रहाः - कुन्ताग्रादिसंस्थितमण्डकखण्डादि ग्रहीष्य इत्यादयः क्षेत्राभिग्रहाः - देहलीजङ्घयोरन्तर्विधाय यदि दास्यति ततो ग्राह्यमित्यादयः, कालाभिग्रहा - सकलभिक्षाचरनिवर्त्तनावसरे मया पर्यटितव्यमित्यादयः, भावाभिग्रहास्तु-हसन् रुदन् बद्धो वा यदि प्रतिलाभयिष्यति ततोऽहमादास्ये नत्वन्यथेत्येवमादय इति सूत्रभावार्थ: ॥ अभिहिता भिक्षाचार्या, रसपरित्यागमाह
मू. ( १२१४ )
खीरदहिसप्पमाई, पणीयं पानभोयणं ।
परिवज्जणं रसागं तु, भणियं रसविवज्जणं ॥
वृ. श्रीरं - दुग्धं दधि-तद्वीकारः सर्पिः घृतं तदादि, आदिशब्दाद् गुडपक्कान्नादिपरिग्रहः, 'प्रणीतम्' अतिबृंहकं पीयत इति पानं खर्जूररसादि भुज्यत इति भोजनं-गलद्वन्द्वोदनादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org