________________
१७२
उत्तराध्ययन-मूलसूत्रम्-२-२९/११८५ पढमे निदं पयलं नामस्स इमाओ पयडीओ ॥१॥ देवगति आनुपुव्वी विउव्वि संघयण पढमवज्जाई ।
अन्नयरं संठाणं तित्थयराहारणामं च ॥२॥" चरमसमये तु यत्क्षपयति तत्सूत्रकृदाह-पञ्चविधं ज्ञानावरणीयं नवविधं दर्शनावरणीयं पञ्चविधमन्तरायम्, 'एए'त्ति लिङ्गव्यत्ययादेतानि 'त्रीण्यपि' वक्ष्यमाणरूपाणि 'कम्मंसे'त्ति सत्कर्माणि 'युगपत्' एककालं क्षपयति, स्थापना चेयम्।
'ततः' इति क्षपणातः पश्चाद्' अनन्तरं नास्योत्तरं प्रधानमन्यत् ज्ञानमस्तीत्यनुत्तरम्, 'अनन्तम्' अविनाशितया विषयानन्ततया च 'कृत्स्नं' कृत्स्नवस्तुविषयत्वात्, 'परिपूर्ण सकलस्वपरपर्यायपरिपूर्णवस्तुप्रकाशकत्वात् 'निरावरणम्' अशेषावरणविगमात् "वितिमिरं' तत्र सति क्वचिदप्यज्ञानतिमिराभावात् 'विशुद्ध' सकलदोषविगमात् 'लोकालोकप्रभावकं तत्स्वरूपप्रकाशकत्वात्, पाठान्तरतश्च-'लोकालोकस्वभावं' संक्रान्तलोकालोकसकलस्वरूपत्वात् केवलम्असहायं वरं शेषज्ञानापेक्षया ज्ञानं च दर्शनं च ज्ञानदर्शनं ततः केवलवरशब्दाभ्यां विशेषणसमासे केवलवरज्ञानदर्शनं 'समुत्पादयति' जनयत्मात्मन इति गम्यते, स च यावत्, 'सयोगी' मनोवाक्कायव्यापारवान् भवति तावच्च किमित्याह-ईरणमीर्यागतिस्तस्याः पन्था यदाश्रिता सा भवति तस्मिन् भवमध्यात्मादित्वा?कि ऐपिथिकम्, उपलक्षणं च पथिग्रहणं तिष्ठतोऽपि सयोगस्येसम्भवात्, संभवन्ति हि सयोगितायां केवलिनोऽपि सूक्ष्मा गात्रसञ्चाराः, यत आह___ "केवली णं भंते ! अस्सि जेसु आगासपएसेसु हत्थं वा पायं वा ओगाहित्ताणं साहरिज्जा पणं भंते ! केवली तेसु चेवागासपएसेसु पडिसाहरित्तए? नो इणमटे समटे, केवलिस्सणं चलाई सरीरोवगरणाई हवंति, चलोवगरणत्ताए केवली नो संचाएति तेसं चेवागासपएसेसं हत्थं वा पायं वा पडिसाहरितए" तदेवं पथिस्थस्तिष्ठच्चैर्यापथिकं कर्म बन्धाति. तच्च कोगित्याह-सुखयतीति सुखः स्पर्श:-आत्मप्रदेशैः सहसंश्लेषो यस्य तत्सुखस्पर्श द्वौ समयौ यस्याः सा द्विसमया तथाविधा स्थितिरस्येति द्विसमयस्थितिकं, द्विसमयस्थितिकत्वमेव भावयितुमाहतत्प्रथमसमये बद्धम्-आत्मसात्कृतं स्पर्शाविनाभावित्वाच्चास्य स्पृष्टं च, द्वितीयसमये वेदितम्-अनुभूतमुदयान्यथानुपपत्त्या चास्योदितं च, तृतीयसमये निर्जीर्णं-परिशटितं, तदुत्तरकालस्थितेः कषायहेतुत्वात्, उक्तं हि-"जोगा पयडिपएसं ठितिअनुभागं कसायओ कुणति"त्ति, द्विसमयस्थितिकबन्धस्य तु योगसम्भवेऽवश्यम्भावित्वादिहाभिधानं, तदवश्यम्भाविता तु
"नो कम्मेहि विवरीयं जोगदव्वेहि भवति जीवस्स।
तस्सावत्थाणे ननु सिद्धो दुसमयठितिबंधो ।" इति युक्तितोऽवसेया, अतश्च तद्वद्धं-जीवप्रदेशैः श्लिष्टमाकाशेन घटवत् तथा स्पृष्टं मसृणमणिकुड्यपतितस्थूलशिलाशकलचूर्णवत्, अनेन विशेषणद्वयेन तस्य निधत्तनिकाचितावस्थयोरभावमाह, 'उदीरितम्' उदयप्राप्तम् उदीरणायास्तत्रासम्भवात्, 'वेदितं' तत्फलसुखानुभवनेन 'निर्जीण क्षयमुपागतं 'सेयाले यत्ति सूत्रत्वाद् ‘एष्यत्काले' चतुर्थसमयादावकर्म
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org