________________
अध्ययनं - २९, [ नि. ५१३]
सर्वथा ह्यसत उत्पत्त्यसम्भव इति पूर्वमपि कथञ्चित्सदेव यथाख्यातचारित्रं चारित्रमोहोहोदयमलिनितं तन्निर्जरणेन निर्मलीकुरुते, यथाख्यातचारित्रं विशोध्य चत्वारीत्यादि सर्वं प्राग्वत् ।
मू. ( ११७२ ) नाणसंपन्नयाए णं भंते ?, सव्वभावाभिगमं जणेइ. नाणसंपन्ने णं जीवे संसारकंतारे न विनस्सई || नाणविनयतवचरितजोगे संपाउणइ, ससमयपरसमयविसारए य असंघायनिज्जे भवइ ॥ मू. ( ११७३ )
'जहा सूई ससुत्ता, पडिया न विनस्सई । तहा जीवे ससुत्ते, संसारे न विनस्सई ।
वृ. एवं समाधारणात्रयाद्यथाक्रमं ज्ञानादित्रयस्य शुद्धिरुक्ता, फलं पुनरस्य किमित्याशङ्कायां यथाक्रममेतत्फलमाह - ज्ञानमिह प्रस्तावत् श्रुतज्ञानं तत्संपन्नतया जीवः सर्वभावानाम्अशेषजीवादिपदार्थानामभिगमो - ज्ञानं सर्वभावाभिगमस्तं जनयति, तथा सं (तत्सं) पन्नो जीवः 'चाउरंते 'त्ति उक्तनीतितश्चतुरन्तसंसारकान्तारे नैव 'विनश्यति' इतस्ततः पर्यटनेन मुक्तिमार्गाद्विशेषेण दूरीभवति, अमुमेवार्थं दृष्टान्तद्वारेण स्पष्टत्तरमाह
यथा 'सूचि' प्रतीता ससूत्रा सुप्रापतया 'न विनश्यति' कचव/दिपतिताऽपि न विशेषेण दूरीभवति तथा जीवः सह सूत्रेण - श्रुतेन वर्त्तत इति ससूत्रः संसारे न विनश्यति, उक्तं च"सूई जहा ससुत्ता न नस्सई कयवरंभि पडियावि ।
१६९
जीवो तहा ससुत्तो न नस्सइ गओवि संसारे ।।"
-
तत एव ज्ञानं च- अवध्यादि विनयश्च ज्ञानविनयादिः तपश्च वक्ष्यमाणं चारित्रयोगाःचारित्रप्रधाना व्यापारा ज्ञानविनयतपश्चारित्रयोगास्तान् प्राप्नोति, तथा स्वसमयपरसमययोः संघातनीव: - प्रमाणपुरुपतया मीलनीयः स्वसमय परसमयसंघातनीयो भवति, इह च स्वसमयपरसमयशब्दाभ्यां तद्वेदिनः पुरुषा उच्यन्ते, तेष्वेव संशयादिव्यवच्छेदाय मीलनसंभवात् ।
मू. ( ११७४ ) दंसणसंपन्नयाए णं भंते ?, भवमिच्छत्तछेयणं करेइ परं न विज्झायइ, अनुत्तरेणं नाणदंसणेणं अप्पाणं संजोएमाणे सम्मं भावेमाणे विहरइ ॥
वृ. 'दर्शनसंपन्नतया' क्षायोपशमिकसम्यक्त्वसमन्वितया भवहेतुभूतं मिथ्यात्वं भवमिथ्यात्वं तस्य छेदनं-क्षपणं भवमिथ्यात्वच्छेदनं करोति, कोऽर्थः ? - क्षायिकसम्यक्त्वमवाप्नोति, ततश्च परमिति - उत्तरकालमुत्कृ ष्टतस्तस्मिन्नेव भवे मध्यमजधन्यापेक्षया तृतीये तुर्ये वा जन्मन्तुत्तर श्रेण्यारोहणेन केवलज्ञानावाप्तौ 'न विध्यायति' न ज्ञानदर्शनप्रकाशभावारूपं विध्यानमवाप्नोति, किन्तु 'अनुत्तरेण' क्षायिकत्वात्प्रधानेन ज्ञानं च दर्शनं च ज्ञानदर्शनं तेन 'आत्मानं' स्वं 'संयोजयन्' प्रतिसमयमपरापरेणोपयोगरूपतयोत्पद्यमानेन घटयन् 'संयोजन चभेदेऽपि स्यादत आह-(सम्मं सम्यक्) 'भावयन्' तेनात्मानमात्मसान्नयन् 'विहरति ' भवस्थकेवलितया मुक्ततया वाऽऽस्ते, पठन्ति च "अनुत्तरेण नानदंसणेणं विहरइ 'त्ति ।
मू. (१९७५) चरितसंपन्नयाए णं भंते ?, सेलेसी भावं जणेड़, सेलेसि पडिवत्रे अनगारे चत्तारि कम्मंसे खवेइ, तओ पच्छा सिज्झइ ॥
वृ. चरित्रसंपन्नतया 'शैलेशीभावं' ति शिलानामिमे शैल:- पर्वतास्तेषामीशः शैलेशो- मेरु: स इव शैलेशो - मुनिर्रिरुद्धयोगतयाऽत्यन्तस्थैर्येण तस्येयमवस्था - शैलेशी तस्या भावः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org