________________
१५२
उत्तराध्ययन-मूलसूत्रम्-२-२९/१११५ रिती सिद्धिमार्गप्रतिपत्राश्च भवति ।।
मू. (१११६ ) धम्मद्धाए णं भंते! जीवे किंजणयइ?, २ सायासुक्खेसुरज्जमाणे विरज्जइ अगारधम्मं च णं चयइ, अनगारिए णं जीवे सारीरमानसाणं दुक्खाणं छेयणभेयणसंजोगाईणं वुच्छेयं करेइ अव्वाबाहं च णं सुहं निव्वत्तेइ॥
वृ. सत्यपि निर्वेदे धर्मश्रद्धैव सकलकल्याणनिबन्धनमिति तामाह-'धर्मश्रद्धया' उक्तरूपाया सात-सातवेदनीयं तज्जनितानि सौख्यानि सातसौख्यानि प्राग्वन्मध्यपदलोपी समा-- सस्तेषु वैषयिकसुखेष्वितियावत् 'रज्यमानः' पूर्व रागं कुर्वन् ‘विरज्यते' विरक्तिं गच्छति, 'अगारधर्म च' गृहाचारं गार्हस्थ्यमितियावत्, चशब्दश्चेह वाक्यालङ्कारे, 'त्यजति' परिहरति, तदत्यागस्य विषयैकसुखानुरागनिबन्धनत्वात्, ततश्च अनगार'त्ति प्राकृतत्वाद् 'अनगारी' यतिः सन् जीवः शारीरमानसानां दुःखानां किरूपाणामित्याह-'छेदनभेदनसंयोगादीना' मिति, छेदनंखङ्गादिना द्विधाकरणं भेदनं-कुन्तादिना विदारणम्, आदिशब्दस्येहापि सम्बन्धात्ता-डनादयश्च गृह्यन्ते, ततश्छेदभेदनादीनां शारीरदुःखानां संयोगः-प्रस्तावादनिष्टसम्बन्धः, आदिशब्दादिष्टवियोगादिपरिग्रहः, ततश्च संयोगादीनां मानसदुःखानां विशेषेण-पुनरसम्भवलक्षणेनोच्छेदः - अभावो व्युच्छेदस्तं करोति, तन्निबन्धनकर्मोच्छेदेनेति भावः, अत एव अव्याबाधम्' उपरतसकलपीडं मौक्तमितियावत्, 'च:' पुनरर्थे भित्रक्रमस्ततः सुखं पुन: 'निर्वर्त्तयति' जनयति, पूर्व संवेगफलाभिधानप्रसङ्गेन धर्मश्रद्धायाः फलनिरूपणमिह तु ख्यातत्र्येणेत्यपौनरुक्त्यमिति भावनीयम्॥
मू.(१११७ ) गुरुसाहम्मियसुस्सूसणयाए णं भंते! जीव किं जणेइ?, २ विनयपडिवत्ति जणेइ, विनयपडिवन्ने णं जीवे अणच्चासायणसीले नेरइयतिरिक्खजोणियमनुस्सदेवदुगाईओ निरंभइ, वनसंजलणपत्तिबहुमाणयाए मानुस्सदेवसुग्गइओ निबंधइ सिद्धिसुगइंच विसोहेइ पसत्थाहं च णं विनयमूलाइंसवकज्जाइं साहइ, अत्रे य बहवे जीवे विनइत्ता हवइ ।।
वृ.धर्मश्रद्धायां चावश्यं गुरवः शुश्रूषितव्या इति गुरुशुश्रूषणमाह-गुरूणां शुश्रूषणं-पर्युपासनं तेन 'विनयप्रतिपत्तीम्' उचितकत्तव्यकरणाङ्गीकाररूपां जनयति 'विनयपडिवत्रे य'त्ति प्राग्वत् प्रतिपन्न:-अङ्गीकृतो विनयो येन स तथा 'चः' पुनरर्थे जीवः 'अनच्चासायणासीले'त्ति अतीवाऽऽयं-सम्यक्त्वादिलाभं शातयति-विनाशयतीत्यत्याशातना तस्यां शीलं-तत्करणस्वभावात्मकमस्येत्यत्याशातनाशीलो न तथाऽनत्याशातनाशी:, कोऽर्थः ? -गुरुपरिवादादिपरिहारकृत्, एवंविधश्च नैरयिकतिर्यग्गोनिकमनुष्यदेवदुर्गतीरिति-नैरयिकाश्च तिर्यञ्चश्च नैरयिकतिर्यश्चस्तेषां योनिः स्वार्थिके के नैरयिकतिर्यग्योनिके-प्रतीते 'मनुष्यदेवदुर्गती च' म्लेच्छकिल्बिषित्वादिलक्षणे 'निरुणद्धि' निषेधति, तद्धेतोरत्याशातनाया अभावेन तत्रागमनात्, तथा वर्ण:-श्लाघा तेन सञ्जवलनं-गुणोद्भावनं वर्णसञ्जवलनं भक्तिः-अञ्जलिप्रग्रहादिका बहुमानम्-आन्तरप्रीतिविशेष एषां द्वन्द्वे भावप्रत्यये च वर्णसञ्वलनभक्तिबहुमानता तयाप्रक्रमाद्गुरूणां विनयप्रतिपत्तिरूपया 'माणुस्सदेवसोग्गइओ'त्ति मानुष्यदेवसुगती: विशिष्टकुलैश्वर्येन्द्रत्वाद्युपलक्षिता निबन्धाति तत्प्रायोग्यकर्मबन्धनेनेति भावः, सिद्धिसोग्गई'त्ति सिद्धिसुगतिं च विशोधयति, तन्मार्गभूतसम्यग्दर्शननादिविशोधनेन, 'प्रशस्तानि' च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org