________________
१४२
उत्तराध्ययन-मूलसूत्रम्-२-२८/११०२ यः 'जिनदृष्टान्' तीर्थकरोपलब्धान् भावान्' जीवादिप-दार्थान् ‘चतुर्विधान्' द्रव्यक्षेत्रकालभावभेदतो नामादिभेदतो वा चतुष्प्रकारान्'श्रद्दधाति तथेति प्रतिपद्यते 'स्वयमेव' परोप-- देशं विना, श्रद्धानोल्लेस्वमाह 'एमेय'त्ति एवमेतद्यथा जिनैर्दष्टं जीवादि, 'नान्यथेति' नैतद्विपरीतं, 'च: समुच्चये, सईदृग्निसर्गरुचिरिति ज्ञातव्यः, निसर्गेण रुचिरस्येतिकृत्वा, उपदेशरुचिमाहएतांश्चैवानन्तरोक्तान भावान्' जीवादीन् पदार्थान् 'उपदिष्टान्' कथितान् ‘परेण' अन्येन श्रद्दधाति, कीदृशा परेण?-छादयतीति छद्मधातिकर्मचतुष्टयं तत्र तिष्ठति छद्मस्थ:-अनुत्पत्रकेवलस्तेन, जयति रागादिनितिजिनः, औणादिको णक् तेन चोत्पन्नकेवलज्ञानेन तीर्थकुदादिना, छद्मस्थस्य तु प्रागुपन्यासस्तत्पूर्वकत्वाग्जिनस्य प्राचुर्येण वा तथाविधोपदेष्टणां, स ईदृक् किमित्याह-उपदेशरुचिरिति ज्ञातव्यः उपदेशेन रुचिरस्येति हेतोः। __आज्ञारुचिमाह-'रागः' अभिष्वङ्गः 'द्वेपः' अप्रीतिः 'मोहः' शेषमोहनीयप्रकृतयः 'अज्ञानं' मिथ्याज्ञानरूपं यस्य 'अपगतं' नष्टं भवति, सर्वथा चास्यैतदपगमासम्भवाद्देशत इति गम्यते, अपगतशब्दश्च लिङ्गविपरिणामतो रागादिभिः प्रत्येकमभिसंबध्यते, एतदपगमाच्च आणाए'त्ति अवधारणफलत्वाद्वाक्यस्य आज्ञयैव आचार्यदिसम्बन्धिन्या रोचमानः' क्वचित्कुग्रहाभावज्जीवादि तथेति प्रतिपद्यमानो माषतुषादिवत सः 'खलु' निश्चितमाज्ञारुचिर्नामेत्यभ्युपगमे, ततश्चाज्ञारुचिरित्यभ्युपगन्तव्यः, आज्ञया रुचिरस्य यतः ।
सूत्ररुचिमाह-य: 'सूत्रम्' आगमम् 'अधीयानः' पठन् 'श्रुतेन' इति सूत्रेणाधीयमानेन 'अवगाहते' प्राप्नोति तुः' पूरणे सम्यक्त्वं, कीदृशा श्रुतेन ? - अङ्गेन' आचादिनो 'बाह्येन'. अनङ्गप्रविष्टेनोत्तराध्ययनादिना वा, वा विकल्पे, 'सः' उक्तलक्षणो गोविन्दवाचकवत्, सूत्ररुचिरिति ज्ञातव्यः, सूत्रहेतुकत्वादस्य रुचेः । बीजरुचिमाह-'एकेन' प्रक्रमात्पदेन जीवादिना 'अनेगाइं पयाईति सुब्बयत्ययाद् 'अनेकेषु' बहुषु 'पदेषु' जीवादिषु यः 'प्रसरति' व्यापितया गच्छति 'तुः' एवकारार्थः, प्रसरत्येव, सम्यक्त्वमित्यनेन रुचिरत्रोपलक्षिता, तदभेदोपचारादात्माऽपि सम्यक्त्वमुच्यते, उपचारनिमित्तं च रुचिरूपेणैवात्मना प्रसरणं, क्वेव क: पसरति ?- उदक इव तैलबिन्दुः यथोदकैकदेशगतोऽपि तैलबिन्दुः समस्तमुदकमाक्रामति तथा तत्त्वैकदेशोत्पत्ररुचिप्यात्मा तथाविधक्षयोपशमवशादशेषतत्त्वेषु रुचिमान् भवति, स एवंविधो बीजरुचितिव्यः, यथा हि बीजंक्रमेणानेकबीजानां जनकमेवमस्यापि रुचिविषयभेदतो भिन्नानां रुच्यन्तराणामिति।
अभिगमरुचिमाह-स भवत्यभिगमरुचिः श्रुतज्ञानं येनार्थ्यत इत्यर्थः-अभिधेयस्तमाश्रित्य 'दृष्टम्' उपलब्धं, किमुक्तं भवति?-येन श्रुतज्ञानस्यार्थोऽधिगतो भवति, किं पुनस्तत् श्रुतज्ञानमित्याह-एकादशाङ्गानि आचारादीनि, प्रकीर्णकमिति जातावेकवचनं, ततः 'प्रकीर्णकानि' उत्तराध्ययनादीनि 'दृष्टिवादः' परिकर्मसूत्रादि, अङ्गत्वेऽपि पृथगुपादानमस्य प्राधान्यख्यापनार्थं, चशब्दादुपाङ्गान्यौपपातिकादीनि, अभिगमान्वितत्वादस्य रुचेः।
विस्ताररुचिमाह-'द्रव्याणां' धर्मास्तिकायादीनां सर्वभावाः एकत्वपृथक्त्वाद्यशेषपर्यायाः 'सर्वप्रमाणैः' अशेषैः प्रत्यक्षादिभिर्यस्योपलब्धा-यस्य तत्र व्यापारस्तेनैव प्रमाणेन प्रतीताः 'सव्वहिति सर्वे:' समस्तैः 'नयविधिभिः' नैगमादिभेदैरमुंभावमयममुंवाऽय नयभेद इच्छ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org