________________
अध्ययनं-२६,[ नि. ४९०] 'एभिः' अनन्तरं वक्ष्यमाणैः, किमित्येवमत आह-'अनइक्कमणाइ'त्ति सूत्रत्वाद् 'अनतिक्रमणं' संयमयोगानामनुल्लङ्घनं, चशब्दो यस्मादर्थे, यस्मात् 'से'त्ति तस्य निर्ग्रन्थस्य तस्या वा निर्ग्रन्थतायाः (न्थ्याः) 'भवति' जायते, अन्यथा तदतिक्रमणसम्भवात्।
पट स्थानान्येवाह-आतङ्को-ज्वरादिरोगस्तस्मिन्, 'उपसर्ग'मिति स्वजनादिः कश्चिदुपसर्गमुन्निष्क्रमणार्थं करोति, विमर्शादिहेतोर्वा देवादिः, ततस्तस्मिन् सति, उभयत्र तन्निवारणार्थमिति गम्यते, तथा तितिक्षा-सहनं तया हेतुभूतया, क्व विषये इत्याह-ब्रह्मचर्यगुप्तिषु, ता हि नान्यथा सोढुं शक्याः, तथा 'पाणिदयातवहे'ति 'प्राणिदयाहेतोः' वर्षादौ निपतप्यप्कायादिजीवरक्षायै तप:-चतुर्थादिरूपं तद्धेतोश्च, तथा शरीरस्य व्यवच्छेदः-परिहारस्तदर्थं च उचितकाले संलेखनामनशनं वा कुर्वन्, भक्तपानगवेपणं न कुर्यादिति सर्वत्र योज्यं, कारणत्वाभावना चाभीषां प्राग्वत्, तद्गवेषणां च कुर्वन् केन विधिना कियत्क्षेत्र पर्यटेदित्याह-'अवशेषं भिक्षाप्रक्रमात्पात्रनिर्योगोद्धरितं, चशब्दस्य गम्यमानत्वादवशेषं च पात्रनिर्योगमेव, यद्वाऽपगतं शेषमपशेषं, कोऽर्थः?- समस्तं, 'भाण्डकम्' उपकरणं 'गिज्झत्ति गृहीत्वा चक्षुषा प्रत्युपेक्षेत, उपलक्षणत्वात्प्रतिलेखयेच्च, इह च विशेषत इति गम्यते, सामान्यतो ह्यप्रत्युपेक्षितस्य ग्रहणमपि न युज्यत एव यतीनाम्, उपलक्षणत्वाच्चास्य तदादाय परम्' उत्कृष्टम् 'अर्धयोजनात्' अर्धयोजनमाश्रित्य, ल्यब्लोपे पञ्चमी, परतो हि क्षेत्रातीतमशनादि भवेत्, विहरन्त्यस्मिन् प्रदेश इति विहारस्तं "विहरए'त्ति विहरेत्-विचरेन्मुनिः। ___ इत्थं विहृत्योपाश्रयं चागत्य गुर्वालोचनादिपुरस्सरं भोजनादि कृत्वा यत्कृर्यात्तदाह-चतुर्थ्यां पौरुष्यां निक्षिप्य प्रत्युपेक्षणापूर्वकं बद्धा 'भाजनं' पात्रं स्वाध्यायं ततः कुर्यात् सर्वभावाजीवादयस्तेषां विभावनं(कं)-प्रकाशकं सर्वभावविभावकं, पठ्यते च-'सव्वदुक्खविमोक्खणं तिप्राग्वत्, पौरुष्याः प्रक्रमाच्चतुर्थ्याः चतुर्भागे-'चतुर्थांसे शेष इति गम्यते, वन्दित्वा 'ततः' इति स्वाध्यायकरणादनन्तरं 'गुरुम्' आचार्यादि प्रतिक्रम्य कालस्य 'शय्यां' वसति 'तुः' पूरणे प्रतिलेखयेत्, ततश्च पासवणुच्चारभूमि च'त्ति, भूमिशब्दस्य प्रत्येकमभिसम्बन्धात् प्रश्रवणभूमि उच्चारभूमि च प्रत्येकंद्वादशस्थण्डिलात्मिकांचशब्दात्कालभूमिच स्थण्डिलत्रयात्मिकां प्रतिलेखयेत् 'जय'ति 'यतम्' आरम्भादुपरतं यथा भवति यतमानो वा यतिः, एवं च सप्तविंशतिस्थण्डिलप्रत्युपेक्षणानन्तरमादित्योऽस्तमेति, तथा चोक्तम्
"चउभागावसेसाए चरिमाए पडिक्कमित्तु कालस्स।
उच्चारे पासवणे थंडिलचउवीसई पेहे ॥१॥ अहियासिया उ अंतो आसन्ने मज्झि दरि तिन्नि तिन्नि भवे । तिन्नेव अनहियासी अंतो छच्छच्च बाहिरतो ।।२।।
एमेव य पासवणे बारस चउवीसइंतु पेहेत्ता।
कालस्स य तिन्नि भवे अह सूरो अस्थमुवयाइ ।।३।।" इति सार्द्धसप्तदशसूत्रार्थः । इत्थं विशेषतो दिनकृत्यमभिधाय सम्प्रति तथैव रात्रिकर्त्तव्यमाहमू.(१०४४-२) काउस्सग्ग तओ कुज्जा, सव्वदुक्खविमुक्खणं॥ मू.(१०४५) देसियं च अईयारं, चिंतिज्ज अनुपुव्वसो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org