SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ अध्ययनं - २६, [ नि. ४९० ] ११९ स्त्रीलिङ्गता वस्त्रान्त: कोणसंचलनमुपधेर्यां उपरि निषदनम्, उक्तञ्च - " अंतो व होज्ज कोना निसियणतत्थेव सम्मद्दा" वर्जयितव्येति सर्वत्र संबध्यते, 'च: ' पूरणे 'मोसलि' त्ति तिर्यगूर्ध्वमधो वा घट्टना तृतीया, 'प्रस्फोटना' प्रकर्षेण रेणुगुण्डितस्येव वस्त्रस्य झाटना चतुर्थी, विश्लेषणं विक्षिप्ता पञ्चमीति गम्यते, रूढित्वाच्च स्त्रीलिङ्गता, उक्तं हि 'लिङ्गमशिष्यं लोकाश्रयत्वात् ' साच प्रत्युपेक्षितवस्त्रस्यान्यत्राप्रत्युपेक्षिते क्षेपणं, प्रत्युपेक्षमानो वा वस्तस्त्रीञ्चलं यदूर्ध्वं क्षिपति, वेदिका 'छटु' त्ति पष्ठी, यत्र सम्प्रदायः- “वेतिया पंचविहा पन्नत्ता, तंजहा- उड्ढवेतिया अहोवेतिया तिरियवेतिया दुहतोवेतिया एगतोवेतिया' तत्थ उड्डवेतिया उवरिं जुनगाणं हत्थे काऊण पडिलेहेइ, अहोवेइया अहो जुन्नगाणं हत्थे काऊण पडिलेहेइ, तिरियवेइया संडाससयाणं मज्झेण हत्थे घिनूण पडिलेहेइ, दुहतोवेइया बाहाणं अंतरे दोषि जुन्नगा काऊण पडिलेहेति, एगतो वेश्या एगं जुन्नगं बाहाणमंतरे काउण पडिलेहेति ।" — एवमेते षड् दोषाः प्रतिलेखनायां परिहर्त्तव्याः । तथा प्रशिथिलं नाम दोषो यददृढमनिरायन्तं वा वस्त्र गृह्यते, प्रलम्वो-यद्विपमग्रहणेन प्रत्युपेक्ष्यमाणवस्त्रकोणानां लम्बनं लोलो- यद्भूमौ करे वा प्रत्युपेक्ष्यमाणवस्त्रस्य लोलनममीषां द्वन्द्वः, एकामर्शनं एकामर्शा प्राग्वत् स्त्रीलिङ्गता, मध्ये गृहीत्वा ग्रहणदेशं यावदुभयतो वस्त्रस्य यदेककालं संघर्षणमाकर्षणम्, उक्तञ्च"पसिढिलमधनं अनिराइयं च विसमगहणं च कोणे वा । भूमीकरलोलनयाऽऽकङ्कणगहणेगआमोसा ॥ " 'अनेगरूवधुणे 'त्ति अनेकरूपा चासौ सङ्ख्यात्रयातिक्रमणतो युगपदनेकवस्त्रग्रहणतो वा धूनना च प्रकम्पनात्मिका अनेकरूपधूनना, पठ्यते च- 'अनेगरूवधूय'त्ति तत्र च धुतं - कम्पनमन्यत्प्राग्वत्, तथा यत्करोति प्रमाणे- प्रस्फोयदिसङ्ख्यालक्षणे प्रमादम् - अनवधानं यच्च शङ्किते - प्रमादतः प्रमाणं प्रति शङ्कोत्पत्तौ गणनां करांगुलिरेखास्पर्शनादिनैकद्वित्रियसङ्घयात्मिकामुपगच्छति उपयाति गणनोपगं यथाभवत्येवं गम्यमानत्वात्प्रस्फोटनादि कुर्यात्, सम्भावने लिट् सोऽपि दोष:, सर्वत्र पूर्वसूत्रादनुवर्त्य वर्जनक्रिया योजनीया, उक्तञ्च" धुनना तिण्ह परेण बहूनि वा घेत्तू एक्कओ धुणति । खोडणपमज्जणासु य संकिय गनने करे पमादी ।। " एवं चानन्तरोक्तदोषैरन्विता सदोपा प्रत्युपेक्षणा, वियुक्ता तु निर्दोषेत्यर्थत उक्तम् । साम्प्रतं त्वेनामेव भङ्गक निर्देशनद्वारेण साक्षात्सदोषां निर्दोषां च किञ्चिद्विशेषतो वक्तुमाह-'अनूनाइ रित्त'त्ति ऊना चासावतिरिक्ता ऊनातिरिक्ता न तथा अनूनातिरिक्ता प्रतिलेखा, इह च न्यूनाताधिक्ये स्फोटनाप्रमार्जने वेलां चाश्रित्य वाच्ये, यत उक्तम्- "खोडणपमज्जवेलासु चेव ऊनाहिया मुनेयव्वा" "अविवच्चास'त्ति विविधो व्यत्यासो-विपर्यासो यस्यां सा विव्यत्यास न तथा अविव्यत्यासा- पुरुषोपधिविपर्यासरहिता कर्त्तव्येति शेषः, अत्र च त्रिभिर्विशेषणपदैरष्टौ भङ्गाः सूचिता भवन्ति, एतेषु च कः शुद्धः को वाऽशुद्ध: इत्याह- 'प्रथमपदम् ' इहैवोपदर्शिताद्यभङ्गरूपं 'प्रशस्तं' निर्दोषतया श्लाध्यं शुद्धीमितियावत्, शेषाणि तु प्रक्रमात्पदानि द्वितीयादिभङ्गात्मकान्यप्रशस्तानि तेषु न्यूनताद्यन्तमदोषीम्भवात् तत् काक्वोपदेष्टुमाह-प्रतिलेखनां कुर्वन्‘मिथःकथां' परस्परसंभाषणात्मिकां करोति, जनपदकथां वा, स्त्र्यादिकथोपलक्षणमेतत्, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy