SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ १०६ उत्तराध्ययन-मूलसूत्रम्-२-२५/९९६ यत: 'कर्माणि' ज्ञानावरणादीनी 'वलवन्ति' दुर्गतिनयनं प्रति समर्थानि इहे'ति भवदवगमविषये वेदाध्ययने यजने च भवन्तीति गम्यते, पशुबन्धादि प्रवर्त्तनेन तयोस्तद्बलाधायकत्वादिति भावः, अनेन दुर्गतिहेतुत्वात्स्वर्गहेतुत्वमप्यनयोः प्रत्युक्तम्, उक्तं हि "यूपं छित्त्वा पशुं हत्वा, कृत्वा रुधिरकर्दमम्। यद्येवं प्राप्यते स्वर्गो, नरके केन गम्यते ? ॥" अतो नैतद्योगाद्ब्राह्मणः पात्रभूतो भवति, किन्त्वनन्तराभिहितगुण एवेति भावः । अन्यच्चनेति निषेधे 'अपिः' पूरणे 'मूण्डितेन' केशापनयनात्मकेन समं मनोऽस्येकति निरुक्तविधिना श्रमणः-निर्ग्रन्थः, 'न' नैव ॐकारो(रेणो)पलक्षणत्वाद् 'ॐ भूर्भुवःस्व'रित्याधुच्चारणरूपेण ब्राह्मणः, तथा न मुनिररण्यवासेन, कुशो-दर्भविशेषस्तन्मयं चीवरंकुशचीवरं, बल्कलोपलक्षणम्कतत्, तेन तापसः, अनूदितं चैतद्वाचकैः "मुण्डनात् श्रमणो नैव, संस्काराद्ब्राह्मणो न वा। मुनि रण्यवासित्वाद्वल्कलान्न च तापसो।।" भवतीति सर्वत्र शेपः । कथममी तर्हि संभवन्तीत्याह-'समतया' रागद्वेषाभावरूपया श्रमणो भवति, ब्रह्मणश्चरणं ब्रह्मचर्य, ब्रह्म च द्विधा, यत उक्तम् "द्वे ब्रह्मणी वेदितव्ये, शब्दब्रह्मपरं च यत्। शब्दब्रह्मणि निष्णातः, परं ब्रह्माधिगच्छति ॥" एतानि च पराणि ब्रह्माणि वरिष्ठानि यानि प्रागर्हिसादीन्युक्तानीति, एतद्रूपमेवेह ब्रह्मोच्यते, तेन ब्राह्मणो भवति, ज्ञानेन' हिताहितावगमरूपेण मुनिर्भवति 'तपसा' बाह्याभ्यन्तरभेदभिन्नन भवति तापसः, सर्वत्राभिधानान्यथाऽनुपपत्तिरिह हेतुः, ननु चान्वर्थवत्त्वेऽभिधानस्यैष हेतुः, तच्चान्यथाऽपिडित्यादिवत्स्यादत आह-'कर्मणा' क्रियया ब्राह्मणो भवति, उक्तं हि "क्षमा दानं दमो ध्यानं, सत्यं शौचं धृति (दया घ)णा। ज्ञानविज्ञानमास्तिक्यमेतद्ब्रह्मणलक्षणम्॥" तथा 'कर्मणा' क्षतत्राणलक्षणेन भवति क्षत्रियः, वैश्यः 'कर्मणा' कृषिपाशुपाल्यादिना भवति, शूत्रो भवति तु 'कर्मणा' शोचनादिहेतुप्रैषादिसंपादनरूपेण, कर्माभावे हि ब्राह्मणादिव्यपदेशा नाऽऽसन्नेवेति, ब्राह्मणप्रक्रमेऽपि यच्छेषाभिधानं तन्मा भून्निरनुक्रोशतेति व्याप्तिदर्शनार्थं, किञ्च-भवन्मतेऽप्युक्तम् __ "एकवर्णमिदं सर्वं, पूर्वमासीधुधिष्ठिर! । क्रियाकर्मविभागेन, चातुर्वर्ण्य व्यवस्थितम्॥" किमिदं स्वमनीपिकयैवोच्यते इत्याह-'एतान्' अनन्तरोक्तानहिंसाद्यर्थान् 'प्रादुरकार्षीत्' प्रकटितवान् 'बुद्धः' अवगततत्त्वः, पठ्यते च-'एए पाउकरा धम्मा' 'एते' उक्तरूपाः 'प्रादुष्कराः' नैर्मल्यकारितयाऽऽत्मनः प्रकाशहेतवः धर्माः' अहिंसादयो, यैर्भवति स्नातकः' केवली सर्वकर्मभिर्विनिर्मुक्तः, इह च प्रत्यासन्नमुक्तितया सर्वकर्मविनिर्मुक्तः, सुब्ब्यत्ययात्प्रथमार्थे द्वितीया, 'त' मित्यभिहितगुणं तत्त्वतः स्नातकं वा वयं ब्रूमो ब्राह्मणम्। सम्प्रत्युपसंहर्तुमाह-'एवम्' उक्तप्रकारेण गुणैः-अहिंसादिभिः समायुक्ताः-समन्विता गुणसमायुक्ता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy