________________
१०४
उत्तराध्ययन-मूलसूत्रम्-२-२५/९९६ सन् 'सदा' सर्वकालम्, उपसंहारमाह-कुशल:-तत्त्वाभिज्ञैः संदिष्टः - कथितः कुशलसन्दिष्टस्तं 'तम्' इत्युक्तरूपं वयं ब्रूमो ब्राह्मणं, यदेव हि लोके विज्ञोपदिष्टं तदेव वस्त्वभ्युपगमाहमिति भावः।
इत इत्तरसत्रैर्यादृशोऽसौ कुशलसन्दिष्टस्तत्खरूपमेव क्वचित्कथञ्चिदनुवदन् स्वाभिमतं ब्राह्मणमाह-यो न स्वजनेनाभिष्वङ्गं करोति आगन्तुं प्राप्तुं स्वजनादिस्थानमिति गम्यते, आगतो वा, ततः 'प्रव्रजन्' स्थानान्तरं गच्छन्न शोचते, यथा-कथमहममुना बिना भविष्यामीति, तत एव रमते आर्याणां-तीर्थकृतां वचनमार्यवचनम्-आगमस्तस्मिन्, किमुक्तं भवति?-सर्वत्र नि:स्पृहत्वेनागमार्थानुष्ठानपरतया तत्र रतिमान् भवति, यद्वा योन सजत्यागन्तुं प्रव्रज्यापर्यायाद्गार्हस्थ्यपर्यायमिति गम्यते, तथा 'प्रव्रजन्' प्रव्रज्यां गृह्णन न शोचते-न खिद्यते, किन्त्विदमेव मनुजजन्मफलमिति मन्यमानः स रभसैवाभिनिष्क्रामति, शेषं तथैव, व्याख्या द्वयेऽपि च नि:स्पृहतैवोच्यते।
तथा 'जातरूपं स्वर्णं ततो जातरूपमिव जातरूपं,यः कीदृशः सन्?-'महामढू'त्ति मकारस्यालाक्षणिकत्वान्महानर्थ:-प्रयोजनं मुक्तिरूपमस्येति महार्थो, जातरूपस्य त्वर्थो विषयघातादिः, तथा 'निद्धंतमलपावकं' निर्मातं-भस्मीकृतं ततो नितिमिव निर्मातं मल इवात्मनो विशुद्धस्वरूपघातितया पापमेव पापकं येनासौ निमतिमलपापको, जातरूपं तु प्राकृतत्वात् पावकेन-अग्निना निर्मातो मल:-किट्टात्मकोऽस्येति पावकनितिमलम्, अन्यच्च-रागश्चप्रतिबन्धात्मको द्वेषश्च-अप्रीतिरूपो भयं च-इहलोकभयादि रागद्वेषभयानि तान्यतीतोनिष्क्रान्तो रागद्वेषभयातीतो रागदिरहित इत्यर्थः, सर्वत्र लिङ्गव्यत्ययः प्राग्वत्, पठ्यते च'जातरूवं जहामटुं'ति 'यथे' त्यौपम्ये आमृष्टं-तेज:प्रकर्षारोपणाय मनःशिलादिना समन्तात्परामृष्टम्, अनेन जातरूपस्य बाह्यो गुण उक्तः, पावकनितिमलमिति चान्तरः, ततो जातरूपवद्वाह्यान्तरगुणान्वितः, अत एव रागीद्यतीतश्च यस्तं वयं ब्रूमो ब्राह्मणम्।
किञ्च-त्रसप्राणिनो विज्ञाय 'सङ्ग्रहेण' सङ्केपेण चशब्दाद्विस्तरेण च, तथा 'स्थावरान्' पृथिव्यादीन, यदिवा संगह्यत इति सङ्ग्रहो-वर्षाकल्पादिस्तेन हेतुना, जीवरक्षार्थत्वात्तस्य, च-शब्दो भिन्नक्रमः, तत एव स्थावरांश्च, पठ्यते च-'संगहेण सथावरे'त्ति संस्थावरान्' स्थावरसहितान् यो 'न हिनस्ति' न व्यपरोयति 'एतान्' अनन्तरमुक्तरूपान् 'तुः' पूरणे, पठ्यते च'विविधेन' मनोवाक्कायरूपतया योगेनेति गम्यते तं वयं ब्रूमो ब्राह्मणं, तथा चारण्यकेऽप्युक्तम्
"यदा न कुरुते पापं, सर्वभूतेषु दारुणम् ।
कर्मणा मनसा वाचा, ब्रह्म सम्पद्यते तदा।।" तथा क्रोधादिभ्यो मृषान वदति यस्तु तं वयं ब्रूमो ब्राह्मणम्, इह च मानस्य क्रोधो मायायाश्च लोभ उपलक्षणं, प्रायस्तत्सहचरितत्वात्तयोः, तथा च तत्राप्यवाचि
"यदा सर्वानृतं त्यक्तं, मिथ्याभाषा विवर्जिता।
अनवद्यं च भाषेत्, ब्रह्म सम्पद्यते तदा।" (किञ्च)-- "अश्वमेधसहस्रं च, सत्यं च तुलया धृतम् ।
अश्वमेधसहस्राद्धि, सत्यमेव विशिष्यते ॥"
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org