________________
-
उत्तराध्ययन- मूलसूत्रम् - २-२३/८७९ वस्त्ररञ्जनादिषु प्रवृत्तिरतिदुर्निवारैव स्यादिति न तेन तदनुज्ञानं, पार्श्वशिष्यास्तु न तथेति रक्तादीनामपि (धर्मोपकरणत्वं तेनानुज्ञातमिति भाव:, किञ्च - प्रत्ययार्थं वा अमी व्रतिन इति प्रतीतिनिमित्तं, कस्य? - लोकस्य, अन्यथा हि यथाऽभिरुचित्तं वेषमादाय पूजादिनिमित्तं विडम्बकादयोऽपि वयं व्रतिन इत्यभिदधीरन्, ततो व्रतिष्वपि न लोकस्य व्रतिन इति प्रतीतिः स्यात्, किं तदेवमित्याह- 'नानाविधविकल्पनं' प्रक्रमान्नानाप्रकारोपकरणपरिकल्पनं, नानाविधं हि वर्षाकल्पाद्युपकरणं, यथावद्यतिष्वेव संभवतीति कथं न तत्प्रत्ययहेतुः स्यात् ?, तथा यात्रासंयमनिर्वाहस्तदर्थं, विना हि वर्षाकल्पादिकं वृष्ट्यादौ संयमबाधैव स्यात्, ग्रहणंज्ञानं तदर्थं च, कथञ्चिच्चितविप्लवोत्पत्तावचि गृह्णातु - यथाऽहं व्रतीत्येतदथं, लोके लिङ्गस्य- वेषधारणस्य प्रयोजनमिति - प्रवर्त्तनं लिङ्गप्रयोजनम् ।
'अधे' त्युपन्यासे 'भवे पन्ना उत्ति तुशब्दस्यैवकारार्थत्वाभिन्नक्रमत्वाच्च भवेदेवो प्रतिज्ञानं प्रतिज्ञा - अभ्युपगमः प्रक्रमात्पार्श्ववर्द्धमानयो:, प्रतिज्ञास्वरूपमाह- 'मोक्खसम्भूयसाहण' त्ति मोक्षस्य सद्भूतानि च तानि तात्त्विकत्वात्साधनानि च हेतुत्वान्मोक्षसद्भूतसाधनानि, कानीत्याह- 'ज्ञानं च' यथावदवबोधः 'दर्शनं च' तत्त्वरुचि: 'चारित्रं च ' सर्वसावद्यविरतिः 'एवे' त्यवधारणे, स च लिङ्गस्य मुक्तिसद्भूतसाधनता व्यवच्छिनत्ति, ज्ञानाद्येव मुक्तिसाधनं न तु लिङ्गमिति श्रूयते हि भरतादीनां लिङ्गं विनाऽपि केवलज्ञानोत्पत्तिः, 'निश्चये' इति निश्चयनये विचार्ये, व्यवहारनये तु लिङ्गस्यापि कथञ्चिन्मुक्तिसद्भूतहेतुतेष्यत एव तदयमभिप्राय:- निश्चयस्तावलिङ्गं प्रत्याद्रियत एव न, व्यवहार एव तूक्तहेतुभिस्तदिच्छतीति तद्भेदस्य तत्त्वतोऽकिञ्चित्करत्वान्न विदुषां विप्रत्ययहेतुता, शेषं स्पष्टमिति सूत्रत्रयार्थः ॥ साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो । अन्नोऽवि संसओ मज्झ, तं मे कहसु गोयमा ! ॥
मू. (८८० )
८०
मू. ( ८८२ )
वृ. प्राग्वत् । अत्र च तृतीयद्वारं शत्रूणां पराजय इति एतदधिकृत्याह-मू. (८८१) अनेगाण सहस्साणं, मज्झे चिट्ठसि गोयमा ! | ते अ ते अभिगच्छंति, कहं ते निज्जिया तुमे ? ॥ एगे जिए जिया पंच, पंच जिए जिया दस । दसहा उ जिणित्ता णं, सव्वसत्तू जिणामहं ॥ सत्तू अ इइ के वृत्ते ?, केसी गोयममब्बवी । तओ केसिं बुवंतं तु, गोयमो इणमव्बवी ॥ एगप्पो अजिए सत्तू, कसाया इंदियाणि य । ते जिणित्तू जहानायं, विहरामि अहं मुनी ॥
मू. (८८३)
मू. ( ८८४ )
वृ. अविद्यमानमेक इति-भावप्रधानत्वान्निर्देशस्यैकत्वं येषु तेऽनेकास्तेषाम् अनेकानांबहूनां सहस्राणां प्रक्रमाच्छत्रुसम्बन्धिनां मध्ये त्वं 'तिष्ठसि ' आस्से गौतम !, 'ते च' अनेकसहस्रसङ्ख्याः शत्रवः 'ते' इति सूत्रत्वात्त्वामभिलक्षीकृत्य गच्छन्ति-धावन्ति, अर्थाज्जेतुम्, इत्थं चैतत् केवलानुत्पत्तिदर्शनात्, दृश्यते च तज्जफलमपि तव प्रशमादि, तत् 'कथं' केन प्रकारेण 'ते' इत्युक्तरूपाः शत्रवः 'निर्जिताः' अभिभूतास्त्वया ?, भूयस्त्वादभियोक्तृत्वाच्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org