SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ अध्ययनं - १९, [ नि. ४१७ ] मू. ( ६५० ) मू. ( ६५१ ) मू. (६५२ ) मू. (६५३) मू. ( ६५४ ) मू. (६५५ ) मू. (६५६ ) मू. ( ६५७ ) वृ. सूत्रविशति: संगमैव, नवरं 'त' मिति बलश्रियं मृगापुत्रापरनामकं युवराजं 'बिति' ति ब्रूतः - अभिधत्त: 'अम्मापियरो 'त्ति अम्बापितरौ श्रामण्यं पुत्र ! दुश्चरं, यतस्तत्र 'गुणानां' श्रामण्योपकारकाणां शीलाङ्गरूपाणां सहस्राणि 'धारयितव्यानि ' आत्मनि स्थापयितव्यानि, प्राक्तुशब्दस्यैवकारार्थस्येह सम्बन्धाद्धारयितव्यान्येष व्रतग्रहण इति गम्यते ' भिक्षुणा' भिक्षणशीलेन सता, पठ्यते च- 'भिक्खुणो 'त्ति भिक्षोः सम्बन्धिनां गुणानामिति योगः । तथा 'समता' रागद्वेषाविधानतस्तुल्यता 'सर्वभूतेषु' समस्तजन्तुषु, उदासीनेष्विति गम्यते, 'शत्रुमित्रेषु वा' अपकार्युपकारिषु, 'जगति' लोके, अनेन सामायिकमुक्तं, तथा 'प्राणातिपातविरति:' प्रथमव्रतरूपा 'जावज्जीव (वा य) 'त्ति यावज्जीवं 'दुष्करं' दुरनुचरमेतदिति शेषः । नित्यकालाप्रमत्तेनेत्यप्रमत्तग्रहणं निद्रादिप्रमादवशगो हि मृषाऽपि भाषेतेति, नित्यायुक्तेनसततोपयुक्तेन अनुपयुक्तस्यान्यथाऽपि भाषणसंभवाद्, एतच्च दुष्करं यच्चान्वयव्यतिरेकाभ्यामेकस्याप्यर्थस्याभिधानं तत्स्पष्टतार्थमदुष्टमेवेत्येवं सर्वत्र भावनीयम्, अनेन द्वितीयव्रतदुष्करत्वमभिहितम्। 'दंतसोहणमादिस्स'त्ति, मकारोऽलाक्षणिकः, अपिशब्दस्य गम्यमानत्वात्, 'दन्तशोधनादेरपि' अतितुच्छस्यास्तामन्यस्य, तथाऽनवद्यैषणीयस्य दत्तस्यापीति गम्यते 'गिण्हण'त्ति ग्रहणमिति तृतीयव्रतदुष्करत्वोक्तिः । आगासे गंगसोउव्व, पडिसोउव्व दुत्तरो । बाहाहिं सागरो चेव, तरियव्वो य गुणोयही ॥ वालुयाकवले चेव, निरस्साए उ संजमे असिधारागमनं चेव, दुक्करं चरिडं तवो ॥ अहिबेगतदिट्ठीए, चरित्ते पुत्त दुच्चरे । जवा लोहमया चेव, चावेयव्वा सुदुक्करं ।। जहा अग्गिसिहा दित्ता, पाउं होइ सुदुक्करं । तह दुक्करं करेडं जे, तारुन्ने समणत्तणं ॥ जहा दुक्खं भरेउं जे, होइ वायस्स कुत्थलो तहा दुक्खं करेडं जे, कीवेणं समणत्तणं ॥ जहा तुलाए तोलेउ, दुक्करं मंदरी गिरी । तहा निहुअनीसंकं, दुक्करं समणत्तणं ॥ जहा भुयाहि तरिडं, दुक्करं रयणायरो | तहा अनुवसंतेणं, दुक्करं दमसायरो ॥ भुंज मानुस्सए भोए, पंचलक्खणए तुमं । भुत्तभोगी तओ जाया!, पच्छा धम्मं चरिस्ससि ॥ / Jain Education International 'कामभोगरसन्नुन' त्ति कामभोगाः - उक्तरूपास्तेषां रसः - आस्वादः कामभोगारसः यद्वा रसा:- शृङ्गारादवस्ततः कामभोगाश्च रसाश्च कामभोगारसास्तज्ज्ञेन, तदज्ञस्य हि तदनवगमात्तद्विषयोऽभिलाप एव न भवेत् तथा च सुकरत्वमपि स्यादित्याशयेनैवमभिधानम्, अनेन चतुर्थव्रतदुष्करत्वमुक्तम् । २९ For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy