________________
अध्ययन-१८,[ नि. ४०४] हित्वा 'कामाईति चस्य गम्यमानत्वात् 'कामांश्च' विषयान् प्राकृतत्वानपुंसकनिर्देशः, पव्वए'त्ति प्रावाजीत्। _ 'सगरोऽवी' त्यादि सर्व मपि स्पष्टं, नवरं 'सागरान्तं' समुद्रपर्यन्तं दिक्त्रये, अन्यत्र तु हिमवत्पर्यन्तमित्युपस्कारः, तथा 'एश्वर्यम्' आजैश्वर्यादि केवलं' परिपूर्णमनन्यसाधारणं वा 'दयया' संयमेन 'परिनिर्वृतः' इहैव विध्य्तकषायानलत्वाच्छीतीभूतो मुक्तो वा । तथा अरो य'त्ति अरनामा च तीर्थकृच्चक्रवर्ती 'अरयं'ति रतस्य रजसो वाऽभावरूपमरतमरजो वा, पाठान्तरतोऽरसं वा-शृंगारादिरसाभावं, प्राप्तः सन् ‘प्राप्त:' गतो गतिमनुत्तरां-मुक्तिमित्यर्थः॥
तथा त्यक्त्वोत्तमान् भोगानिति, पुनस्त्यक्त्वेत्यभिधानं भिन्नवाक्यत्वादपौनरुक्त्यं, 'महापद्मः' महापद्मनामा 'चरे'त्ति आचरत् ।।
तथा एकं छत्रं-नृपतिचिह्नमस्यामित्येकच्छत्रां तां, कोऽर्थः ?-अविद्यमानद्वितीयनृपति 'महीं' पृथ्वी 'प्रसाध्य वशीकृत्येति सम्बन्धः, 'माणनिसूरणो'त्ति दप्तारात्यहङ्कारविनाशकः 'मनुष्येन्द्रः' इति चक्री । तथा 'अन्नितो'त्ति अन्वितः' युक्तः 'सुपरिच्चाइ'त्ति सुष्ठ-शोभनेन प्रकारेण राज्यादि परित्यजतीत्येवंशीलः सुपरित्यागी दमं जिनाख्यातमिति सम्बन्धः, चरि'त्ति अचारीच्चरित्वा च जयनामा चक्रीति शेषः प्राप्तो गतिमनुत्तराम्। तथा दशार्णो नाम देशस्तद्राज्यंतदाधिपत्यं मुदितं' सकलोपद्रवविरहितं प्रमोदवत् त्यक्त्वा 'णः' प्राग्वत् 'चरे'त्ति अचारीत, अप्रतिबद्धविहारतया विहतवानित्यर्थः, साक्षाच्छक्रेण 'चोदितः' अधिकविभूतिदर्शनेन धर्म प्रति प्रेरितः॥
तथा 'निष्क्रिान्ताः' प्रजिता निष्क्रम्य च 'श्रामण्ये' श्रमणभावे 'पर्युपस्थिताः' तदनुष्ठानं प्रत्युद्यत अभूवन्निति शेषः ॥ तथा सौवीरेषु राजवृषभ:-तत्कालभाविनृपतिप्रधानत्वात्सौवीरराजवृषभः 'चेच्च'त्ति त्यक्त्वा राज्यमिति शेषः प्राग्वत् 'मुनिः' त्रैकाल्यावस्थावेदी सन् 'चरे'त्ति अचारीत्, कोऽसौ ? -'उदायनो'त्ति उदायननामा प्रव्रजितः, चरित्वा च किमित्याहप्राप्तो गतिमनुत्तराम् ॥ ___ 'तथैव' तेनैव प्रकारेण काशिराजः काशिमण्डलाधिपतिः श्रेयसि-अतिप्रशस्ये सत्येसंयमे पराक्रमः- सामर्थ्य यस्यासौ श्रेयः-सत्यपराक्रमः ‘पहणे'त्ति प्राहन्-प्रहतवान् कर्म महावनमिवातिगहनतया कर्ममहावनम्॥ __ तथैव 'विजयः' इति विजयनामा 'अनट्ठा कित्ति पव्वए'त्ति, आर्षत्वाद् अनातः-आर्तध्यानविकलः कीर्त्यादीनानाथादिदानोत्थया प्रसिद्धयोपलक्षितः सन् यद्वा अनार्ता-सकलदोषविगमतोऽबाधिता कीतिरस्येत्यनार्त्तकीर्तिः सन्, पठ्यते च 'आनट्ठाकिइपव्वइ'त्ति, आज्ञाआगमोऽर्थशब्दस्य हेतुवचनस्यापि दर्शनादर्थो-हेतुरस्याः सा तथाविधा आकृतिरर्थान्मुनिवेषात्मिका यत्र तदाज्ञार्थाकृति यथा भवत्येवं प्रावाजीद्गुणैः-राज्यगुणैः शब्दादिभिर्वा समृद्धंसंपत्रं गुणसमृद्ध, पूर्वत्र तुशब्दस्यापिशब्दार्थत्वाद्यवहितसम्बन्धत्वाच्च गुणसमृद्धमपि। __ तथा अद्दाय'त्ति आर्षत्वाद् ‘आदित' गृहीतवांस्तद्गमनेन स्वीकृतवान् शिरसेव शिरसा शिरःप्रदानेनेव जीवितनिरपेक्षमिति योऽर्थः, "शिरं'ति शिर इव शिरः सर्वजगदुपरिवर्तितया मोक्षः, पठ्यते च-'आदाय सिरसो सिरिं'ति, अत्र च आदाय' गृहीत्वा 'शिरः श्रियं' सर्वोत्तमां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org