SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ३६८ उत्तराध्ययन-मूलसूत्रम्-१-१६/५३६ धम्मारामरए दंते, बंभचेरसमाहिए। वृ. धर्म आराम इव पाप सन्तापोपतप्तानां जन्तूनां निवृत्तिहेतुतयाऽभिलषितफलप्रदानतश्च धर्मारामस्तस्मिन् 'चरेत्' गच्छेत् प्रवर्तेतेतियावत्, यद्वा धर्मे आ-समन्ताद्रमत इति धर्माराम: 'संचरेत्' संयमाध्वनि यायाद् भिक्षुः प्राग्वत् 'धृतिमान्' धृतिः-चित्तस्वास्थ्यं तद्वान्, स चैवं धर्मसारथिः-"ठिओ उ ठावए परं" इति वचनादन्येषामपि धर्मे प्रवर्तयिता, ततोऽन्यानपि धर्मे व्यवस्थितानुपलभ्य विशेषतो धर्मारामे रतः- आसक्तिमान् धर्मारामरतः, तथा च 'दान्तः' उपशान्तो ब्रह्मचर्ये समाहितः-समाधानवान् ब्रह्मचर्यसमाहित इति सूत्रद्वयार्थः ।। ब्रह्मचर्यविशुद्धयर्थोऽयं सर्वोऽप्युपक्रम इति तन्माहात्म्यमाहमू. (५३७) देवदानवगंधव्या, जक्खरक्खसकिन्नरा। बंभयारिं नमसंति, दुक्करं जे करंति तं ।। वृ. देवाः-ज्योतिष्कवैमानिका: दानवाः- भुवनपतय: गन्धर्वयक्षराक्षसकिन्नरा:- व्यन्तरविशेषाः समासः सुकर एव, उपलक्षणं चैतद्भूतपिशाचमहोरगकिंपुरुषाणाम्, एते सर्वेऽपि 'ब्रह्मचारिणं' ब्रह्मचर्यवन्तं यतिमिति शेषः, ‘नमस्यन्ति' नमस्कृर्वन्ति 'दुष्कर' कातरजनदुरनुचरं 'जे' इति य: 'करोति' अनुतिष्ठति तदिति प्रक्रमाद्ब्रह्मचर्यमिति सूत्रार्थः ।। सम्प्रति सकलाध्ययनार्थोपसंहारामाहमू. (५३८) एस धम्मे धुवे नियए, सासए जिनदेसिए। सिद्धा सिझति चानेनं, सिज्झिस्संति तहापरे।। वृ.'एषः' इत्यनन्तरोक्तः धर्मः' ब्रह्मचर्यलक्षणः, ध्रुवः परप्रवादिभिरप्रकम्प्यतया प्रमाणप्रतिष्ठित इतियावत् 'नित्यः' अप्रच्युतानुत्पन्नस्थिरैकस्वभावो द्रव्यार्थितया 'शाश्वत:' शश्वदन्यान्यरूपतया उत्पन्न(:)पर्यायाथितया, यद्वा 'नित्यः' त्रिकालमपि सम्भवात् 'शाश्वतः' अनवरतभवनात्, एकाथिकानि वा नानादेशजविनेयानुग्रहार्थमुक्तानि, जिनैः-तीर्थकृभिर्देशितःप्रतिपादितो जिनदेशितः, अस्यैव त्रिकालगोचरफलमाह-'सिद्धाः' पुरा अनन्तासूत्सपिण्यवसर्पिणीषु सिद्धयन्ति 'चः' समुच्चये महाविदेहे इहापि वा तत्कालापेक्षया 'अनेन' इति ब्रह्मचर्यलक्षणेन धर्मेण सेत्स्यन्ति तथा परे' अन्येऽनन्तायामनागताद्धायामिति सूत्रार्थः ।। इति' परिसमाप्तौ ब्रवीमीति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयास्ते च पूर्ववत् ।। अध्ययनं १६ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता उत्तराध्ययसूत्रे षोडशअध्ययनस्य भद्रबाहुसूरिविरचिता नियुक्तिः एवं शान्त्याचार्यविरचिता टीका परिसमाप्तम् ४३-१ चतुर्थ-मूलसूत्रं "उत्तराध्यनानि-१" समाप्तम् | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy