________________
३६६
उत्तराध्ययन-मूलसूत्रम्-१-१६/५२५ वृ.अङ्गानि-शिरःप्रभृतीनि प्रत्यङ्गानि-कुचकक्षादीनि संस्थान-कटीनिविष्टकरादिसन्निवेशात्मकम्, अमीषां समाहारनिर्देशः, अङ्गप्रत्यङ्गयोर्वा संस्थानम्-आकारविशेषोऽङ्गप्रत्यङ्गसंस्थानं चारुशोभनम् उल्लपितं च-मन्मनभाषितादि तत्सहगतमुखादिविकारोपलक्षणमेतत् प्रेक्षितं च-अर्द्धकटाक्षनिरीक्षितादि उल्लपितप्रेक्षितं ब्रह्मचर्यरत: स्त्रीणां सम्बन्धि चक्षुषा गृह्यत इति चक्षुर्ग्राह्यं सद्विवर्जयेत् किमुक्तं भवति?-चक्षुपि हि सति रूपग्रहणमवश्यंभावि, परं तदर्शनेऽपि तत्परिहार एव कर्त्तव्यो न तु रागवशगेन पुनः पुनस्तदेव वीक्षणीयमिति, उक्तं हि
"असक्का रूवमद्दटुं, चक्खुगोयरमागयं ।
रागद्दोसे उजे तत्थ, ते वुहो परिवज्जए।" मू. (५२६) कुइयं रुइअंगीय, हसियं थणिय कंदियं ।
बंभचेररओ थीणं, सोअगिझं विवज्जए। वृ. कुइयंसूत्रं प्रायो व्याख्यातमेव, नवरं कुड्यन्तादिष्वति शेषः ।। मू.(५२७) हासंखिई रइंदप्पं, सहसावत्तासियाणि य।
बंभचेररओ थोणं, नानुचिंते कयाइवि।। वृ, हाससूत्रमपि तथैव, नवरं रति दयिताङ्गसङ्गजनितां प्रीति 'दर्प' मनस्विनीमानदलनोत्थं गर्व 'सहसाऽवत्रासितानि च' परांमुखदयितादेः सपदि त्रासोत्पादकान्यक्षिस्थगनमर्मघट्टनादीनि, पठ्यते च-'हस्सं दप्पं रइं कि९ सह भुत्तासियाणि य' अत्र च 'सहे'ति स्त्रीभिः साद्धं भुक्तानि च-भोजनानि आसितानि च-स्थितानि भुक्तासितानि, शेषं स्पष्टं, नवरं सर्वत्र पूर्वकृतत्वं प्रक्रमादपेक्षणीयम्।। मू. (५२८) पनीयं भत्तपानं च, खिप्पं मयविवड्डणं ।
बंभचेररओ भिक्खू, निच्चसो परिवज्जए। वृ. पणीयंसूत्रं निगदसिद्धमेव, नवरं मदः-कामोद्रेक इह गृह्यते, तस्य विवर्द्धनम्अतिबृहकतया विशेषतो वृद्धिहेतुं परिवर्जयेत्॥ मू.(५२९) धम्मलद्धं मियं काले, जत्तत्थं पणिहाणवं।
नाइमत्तं तु भुजिज्जा, बंभचेररओ सया॥ वृ.धर्मादनपेतं धर्म्यमेषणीयमित्यर्थः लब्ध प्राप्तं गृहस्थेभ्य इति गम्यते, न तु स्वयमेवोपस्कृतं, पठ्यतेच, 'धम्मलद्धति धर्मेण हेतुनोपलक्षणत्वाद्धर्मलाभेन वा न तु कुण्डलादिकरणेन लब्धं धर्मलब्धं पठ्यते च-'धर्मलद्धति धर्मः-उत्तमः क्षमादिरूपः, यथाऽऽह वाचक:'उत्तमः क्षमामार्दवार्जवसत्यशौचसंयमतपस्त्यागाकिञ्चन्यब्रह्मचर्याणि धर्मः" इति, तं 'लब्धु' प्राप्तुं, कथं ममायं निरतिचार: स्यात् इति, 'मितम्' 'अद्धमसणस्स' इत्याद्योगमोक्तमानान्वितमाहारमिति गम्यते, 'काले प्रस्तावे यात्रार्थ' संयमनिर्वाहणार्थं न तु रूपाद्यर्थं प्रणिधानवान्' चित्तस्वास्थ्योपेतो न तु रागद्वेषवशगो भुञ्जीत 'न' इति निषेधे मात्रामतिक्रान्तः अतिमात्र:अतिरिक्त इत्यर्थस्तं, यदिवा 'ईषदर्थे क्रियायोगे, मर्यादायां परिच्छद' इत्यादिना मात्राशब्दस्य मर्यादार्थस्यापि दर्शनाद् 'अतिमात्रम्' अतिक्रान्तमर्यादं, तुशब्दस्यैवकारार्थत्वाद्वयवहितसम्बन्धत्वाच्चा नैव भुञ्जीत' अभ्यवहरेद् ब्रह्मचर्ये रतः-आसक्तो ब्रह्मचर्यरतः 'सदा'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org