________________
अध्ययन-१६,[नि.३८५ ]
मू.(५१५) नो इत्थीणं इंदियाई मनोहराई मनोरमाइं आलोइत्ता निज्झाइत्ता हवइ से निग्गंथे. तं कह इति चेदायरियाऽऽह-निग्गंस्स खलु इत्थीणं इंदियाई मनोहराई मनोरमाइं जाव निज्झाएमाणस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जिज्जा भेयं वा लभिज्जा उम्मायंवा पाउनिज्जा दीहकालीयं वा रोगायकं हविज्जा केवलिपन्नत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु निग्गंथे नो इत्थीणं इंदियाइं निज्झाइ।
व.नो स्त्रीणां 'इन्द्रियाणि नयननासिकादीनि मन:-चित्तं हरन्ति दृष्टमात्राण्यप्याक्षिपन्तीति मनोहराणि, तथा मनो रमयन्तीति दर्शनानन्तरमनुचिन्त्यमानान्यह्लादयन्तीति मनोरमाणि 'आलोकिता' समन्ताद्रष्टा '
निळता' दर्शनानन्तरमतिशयेन चिन्तयिता, यथा--अहो! सलवणत्वं लोचनयोः, ऋजुत्वं नासावंशस्येत्यादि, यद्वा 'आडीषदर्थे' तत 'आलोकिता' इंघदृष्टा 'निर्ध्याता' प्रबन्धेन निरीक्षता भवति यः स निर्ग्रन्थः, अन्यत्प्रतीतमेवेति सूत्रार्थः ।। पञ्चममाह
मू. (५१६) नो निग्गंथे इत्थीणं कुटुंतरंसि वा दूसंतरसि वा भित्तिअंतरंसि वा कूइयसदं वा रुइयस वा गीयसकंवा हसियसह वा थणियसवा कंदियसदं वा विलवियस वा सुणित्ता हवइ से निग्गंथे, तं कहं इति चेदायरियाह-इत्थीणं कुइंतरंसि वा द्रसंतरंसि वा भितिअंतरंसि वा जाव विलवियसदं वा सुणमानस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जिज्जा भेयं वा लभिज्जा उम्मायं वा पाउनिज्जा दोहकालीयं वा रोगायंकं हविज्जा केवलिपन्नत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु निगंथे नो इत्थोणं कुडुतरंसि वा जाव सुणेमाने विहरिज्जा।।
वृ. नो स्त्रीणां कुड्यं-खटिकादिरचितं तेनान्तरं-व्यवधानं कुड्यन्तरं तस्मिन् वा, दूष्यंवस्त्र तदन्तरे वा, यवनिकान्तर, इत्यर्थः, भित्तिः- पक्केष्टकादिरचिता तदन्तरे, वाशब्दः सर्वत्र विकल्पाभिधायी, स्थित्वेति शेषः, कूजितशब्दं वा' विविधविहगभाषयाऽव्यक्तशब्दं सुरतसमयभाविनं 'रुदितशब्दं वा' रतिकलहादिकं मानिनीकृतं 'गीतशब्दं वा' पञ्चमादिहुंकृतिरूपं 'हसितशब्दं वा' कहकहादिकं 'स्तनितशब्दं वा' रतिसमयकृतं 'क्रन्दितशब्द वा' प्रोषितभर्तृकादिकृताक्रन्दरूपं 'विलपितशब्दं वा' प्रलापरूपं श्रोता यो न भवति स निर्ग्रन्थः, शेषं स्पष्टमिति सूत्रार्थः ।। षष्ठमाह
मू.(५१७) नोनिग्गथे पुन्वरयं पुबकीलियं अनुसरिता हवइ, तं कहं इति चेदायरियाहनिग्गंथस्स खलं इत्थीणं पुव्वरयं पुव्वकीलियं अनुसरमानस्स बंभयारिस्स बंभचेरे संका वा कंखावा वितिगिच्छा वा समुप्पज्जिज्जा भेयं वा लभिज्जा उम्मायं वा पाउनिज्जा दीहकालीयं वा रोगायंक हविज्जा केवलिपन्नत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे इत्थीणं पुव्वरयं पुव्वकीलियं अनुसरिज्जा ॥
वृ. नो निर्ग्रन्थः पूर्वस्मिन्-गृहावस्थालक्षणे काले रतं-स्त्यादिभिः सह विषयानुभवनं पूर्वरतं, 'पूर्वक्रीडितं वा' स्यादिभिरेव पूर्वकालभावि दुरोदरादिरमणात्मकं वाशब्दस्य गम्यमानत्वात्, ‘अनुस्मर्ता' अनुचिन्तयिता भवति, शेषं प्राग्वदिति सूत्रार्थः ।। सप्तममाह
मू.(५१८)नो निगंथे पणीयं आहारं आहासरित्ता हवइ से निगथे, तं कहं इति चेदायरियाह-निग्गंथस्स पणीयं पानभोयणं आहारेमानस्स बंभयारिस्स बंभचेरे संका वा कंखा वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org