________________
अध्ययनं - १४, [ नि. ३७३ ]
३४३
तस्या एव तदभिधात योग्यतापादनपटीयत्वात्, अमोघा 'स्यणि 'त्ति रजन्य उक्ता: दिवसाविनाभावित्वात्तासां दिवसाश्च तत्पतने ह्यवश्यंभावी जनस्याभिधातः, एवं तात ! 'विजानीत' अवगच्छतेति सूत्रार्थः ॥ किञ्चमू. (४६५ )
जा जा बच्चइ रयणी, न सा पडिनियत्तई । अहम्मं कुणमानस्स, अहला जंति राइओ ॥
वृ. या या 'वच्चति' व्रजति 'रजनी' रात्रिरुपलक्षणत्वाद्दिनं च न सा 'प्रतिनिवर्त्तते' पुनरागच्छति, तदागमने हि सर्वदा सैवैका जन्मरात्रिः स्यात्ततो न द्वितीया मरणारात्रिः कदाचित्प्रादुष्प्यात्, ताश्चाधर्मं कुर्वतो जन्तोरिति गम्यते अफला यान्ति रात्रयः, अधर्मनिबन्धनं च गृहस्थतेत्यायुपोऽनित्यत्वादधर्मकरणे च तस्य निष्फलत्वात्तत्परित्याग एव श्रेयानिति भावः । इत्थं व्यतिरेकद्वारेण प्रव्रज्याप्रतिपत्तिहेतुमभिधाय तमेवान्वयमुखेनाहजा जा वच्चइ रयणी, न सा पडिनियत्तई । धम्मं तु च कुणमानस्स, सफला जंति राईओ ॥
मू. ( ४६६ )
वृ. 'जा जे 'त्यादि पूर्ववत्, नवरं 'धम्मं च ' त्ति चशब्दः पुनरर्थे धर्मं पुनः कुर्वतः सफला धर्मलक्षणफलोपार्जनतो, न च व्रतप्रतिपत्ति विना धर्म इत्यतो व्रतं प्रतिपत्स्यावहे इत्यभिप्राय इति सूत्रद्वयार्थः ॥ इत्थं कुमारवचनादाविर्भूतसम्यक्त्वस्तद्वचनमेव पुरस्कुर्वन् भृगुराहमू. ( ४६७ ) एओ संवसित्ताणं, दुहओ संमत्तसंजुया । पच्छा जाया ! गमिस्सामो, भिक्खमाना कुले कुले ॥
1
वृ. 'एकत: ' एकस्मिन स्थाने 'समुष्य' सहवासित्वा 'दुहतो' त्ति द्वयं च द्वयं च द्वये आवां युवांच, व्यक्त्यपेक्षया बहुवचनं पुरुषप्राधान्याच्च पुंलिङ्गता, 'सम्यक्त्वसंयुताः ' सम्यक्त्वेनतत्त्वरुचिलक्षणेन संयुताः - सहिताः उपलक्षणत्वाद्देशविरत्या च 'पश्चाद्' यौवनावस्थोत्तरकालं, कोऽर्थः ? - पश्चिमे वयसि, 'जात' पुत्रौ ! 'गमिष्यामः ' व्रजिष्यामो वयं ग्रामनगरादिपु, मासकल्पादिक्रमेणेति शेष:, अर्थाच्च प्रव्रज्यां प्रतिपद्य, 'भिक्षमाना: ' याचमानाः, पिण्डादिकमिति गम्यते, क्व ? - 'कुले कुले' गृहे गृहे न त्वेकस्मिन्नेव वेश्मनि, किमुक्तं भवति ? - अज्ञातोञ्छवृत्त्येति सूत्रार्थः ॥ कुमारावाहतुः -
मू. ( ४६८ )
जस्सऽत्थि मच्चुणा सक्ख, जस्स वऽत्थि पलायनं । जो जाणइ न मरिस्सामि, सो हु कंखे सुए सिया ।।
वृ. ‘यस्य' इत्यनिर्दिष्टस्वरूपस्य 'अस्ति' विद्यते 'मृत्युना' कृतान्तेन 'सख्यं' मित्रत्वं, यस्य चास्ति 'पलायनं' नशतं, मृत्योरिति प्रक्रमाः, . तथा 'जो जाणइ 'त्ति यो जानीते यथाऽहं न मरिष्यामि, 'सो हु कंखे सुए सिय'त्ति स एव 'काङ्क्षति' प्रार्थयते 'श्वः' आगामिनि दिने स्यादिदमिति गम्यते । न च कस्यचिन्मृत्युना सह सख्यं ततो वा पलायनं तदभावज्ञानं वा ।
मू. (४६९ ) अज्जेव धम्मं पडिवज्जयामो, जहिं पवना न पुणब्भवामो । अनागयं नेव य अत्थि किंची, सद्धाखमं नो विणइत्तु रागं ।
वृ. अतोऽद्यैव 'धर्म' प्रक्रमाद्यतिधर्मं 'पडिवज्जयामो 'त्ति 'प्रतिपद्यामहे' अङ्गीकुर्महे, तमेव फलोपदर्शनद्वारेण विशिनष्टि- 'जहिं 'ति आर्पत्वाद्यं धर्मं 'प्रपन्नाः ' आश्रिताः 'न पुनब्भ
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International