________________
अध्ययनं - १२, [ नि. ३२७ ]
३१३
अयमाशयः - कुशला हि कर्म्ममलविलयात्मिकां तात्त्विकीमेव शुद्धि मन्यन्ते, भवदभिमतयागस्त्राने च यूपादिपरिग्रहजलस्पर्शाविनाभावित्वेन भूतोपमर्द्दहेतुतया प्रत्युत कर्म्ममलोपचयनिबन्धने एवेति नातः तत्सम्भव इति कथं तद्धेतुकशुद्धिभार्गणं सुदृष्टं ते वदेयुः ?, तथा च वाचकः"शौचमाध्यात्मिकं त्वक्त्वा, भावशुद्धयात्मकं शुभम् । जलादिशौचं यत्रेष्टं मूढ विस्मापकं हि तदि || "
ति सूत्रार्थः ॥ इत्थं तद्वचनतः समुत्पन्नशङ्कास्ते यागं प्रति तावदेवं पप्रच्छुःमू. (३९९ ) कहं चरे भिक्खु ! वयं जयामो ?, पावाई कम्माई पणुल्लयामो । अक्खाहि णे संजय जक्खपूइआ, कहं सुजई कुसला वयंति ? ॥
वृ. 'कथं' केन प्रकारेण 'चरि'त्ति 'विभाषा कथमि लिं' च इति लिङिवचनव्यत्यये वचनव्यत्ययाच्चरेमहि-यागार्थं प्रवर्तेमहि, हे भिक्षो ! मुने! वयमित्यात्मनिर्देश:, तथा 'यजामो ' यागं कुर्म्मः, कथमिति योग: ?, पापानि - अशुभानि कर्माणि पुरोपचिताविद्यारूपाणि 'पपुल यामो' त्ति प्रणुदामः प्रेरयामो, येनेति गम्यते, 'आख्याहि' कथय 'नः' अस्माकं 'संयतः ' पापस्थानेभ्यः सम्यगुपरत: 'यक्षपूजित' यक्षाचित !, किमुक्तं भवति ? - यो ह्यस्मद्विदितः कर्म्मप्रणोदनोपायत्वेन यागः स युष्माभिर्दूषित इति भवन्त एवापरं यागमुपदिशन्तु, कंदाचिदविशिष्टमेव यजनमुपदिशेदित्याशङ्कयाह-कथं केन प्रकारेण 'स्विष्टं' शोभनं यजनं 'कुशला' उक्तरूपा 'वदन्ति' प्रतिपादयन्ति न तं सुदिनं कुसला वयंति'त्ति कुशलमुखेनैव मुनिना दूपितमिति तैरपि तथैव पृष्टमिति सूत्रार्थः ॥ मुनिराह
भू. (४००)
छज्जीवकाए असमारभंता, मोसं अदत्तं च असेवमाना । परिग्गहं इत्थिउ मान मायं, एयं परित्राय चरंति दंता ॥
वृ. षड् जीवकायान् पृथिव्यादीन् 'असमारभमाना' अनुपमर्द्दयन्तः 'मोसं 'ति मृषा अलीकभाषणं 'अदत्तं चे' त्यदत्तादानं चानासेवमानाः - अनाचरन्तः परिग्रहं मूर्च्छा स्त्रियोयोषितो 'मान'त्ति मानम् - अहङ्कारं मायां परवञ्चनात्मिकां तत्सहचारित्वात्कोपलोभौ च, 'एतद्' अनन्तरोक्तं परिग्रहादि 'परिज्ञाय' ज्ञपरिज्ञया सर्व्वप्रकारं ज्ञात्वा प्रत्याख्यानपरिज्ञया च प्रत्याख्याय 'चरेज्ज दन्त' त्ति वचनव्यत्ययाच्चरेयुर्यागे प्रवर्तेरन्, भवन्त इति गम्यते, पठन्ति च - ' 'चरन्ति दंत 'त्ति अत्र च यत एवं दान्ताश्चरन्त्यतो भवद्भिरप्येवं चरितव्यमिति भाव इति सूत्रार्थः ।। प्रथम प्रश्नप्रतिवचनमुक्तं, शेषप्रश्नप्रतिवचनमाह
.
मू. (४०१ ) सुसंवुडा पंचहिं संवरेहिं, इह जीवियं अनवकंखमानो । वोसट्टकाओ सुइचत्तदेहो, महाजयं जयइ जत्रसिद्धं ॥
वृ. सुष्ठु संवृत्तः स्थगितसमस्ता श्रवद्वारः सुसंवृतः, कै: ? पञ्चभिः पञ्चसङ्घयैः संवरै:प्राणातिपातविरत्यादिव्रतैः 'इहे' त्यस्मिन् मनुष्यजन्मनि, उपलक्षणत्वात्परत्र च 'जीवितं' स्तावादसंयमजीवितम् 'अनवकाङ्क्षन्' अनिच्छन्, यद्वा अपेर्गम्यमानत्वाज्जीवितमपिआयुरप्यास्तामन्यद्धनादि, अनवकाङ्क्षन्, यत्र हि व्रतबाधा तत्रासौ जीवितमपि न गणयति, अत एव व्युत्सृष्टो - विविधैरुपायैर्विशेषेण वा परीषहोपसर्गसहिष्णुतालक्षणेनोत्सृष्टः - त्यक्तः काय:शरीरमनेनेति व्युत्सृष्टकायः, शुचिः - अकलुषव्रतः स चाय त्यक्तदेहश्च - अत्यन्तनिष्प्रति
Jain Education International
-
For Private & Personal Use Only
-.
-
www.jainelibrary.org