________________
३११
अध्ययनं-१२,[ नि. ३२७]
वृ.अर्यत इत्यर्थो-ज्ञेयत्वात्सर्वमेव वस्तु, इह तु प्रक्रमाच्छुभाशुभकर्मविभागो रागद्वेषविपाको वा परिगृहयते, यद्वा अर्थ:-अभिधेय: सचार्थाच्छास्त्राणामेव तु, चशब्दस्तद्गतानेकभेदसंसूचकः, धर्मः-सदाचारो दशविधो वा यतिधम्मस्तं च 'वियाणमाने'त्ति विशेषेण विविध वा जानन्तः-आगच्छन्तो यूयं 'नापि' नैव कुप्यथ-क्रोधं कुरुध्वं, भूतिप्रज्ञा इति, भूतिर्मङ्गलं वृद्धी रक्षा चेती वृद्धाः, प्रज्ञायतेऽनया वस्तुतत्वमिति प्रज्ञा, ततश्चः भूतिः-मङ्गलं सर्वमङ्गलोत्तमत्वेन वृद्धिा वृद्धिविशिष्टत्वेन रक्षा वा प्राणिरक्षकत्वेन प्रज्ञा-बुद्धिरस्येति भूतिप्रज्ञः, अतश्च 'तुब्भं तु तितुशब्दस्यैवकारार्थत्वात् युष्माकमेव पादौ-चरणौ शरणमपेमः-उपगच्छामः समागताः-मिलिताः, केन सह?-सर्व्वजनेन, वयमिति सूत्रार्थः ।। किं च - मू. ( ३९३) अच्चेमु ते महाभागा! न ते किंचन नाच्चिमो।
भुंजाहि सालिमं कूरं, नाणावंजसंजुयं ॥ वृ.'अर्चयामः' पूज्यामस्ते-तव सम्बन्धि सर्वमपीति गम्यते, प्रविश पिण्डिमित्युक्ते यथा गृहमिति भक्षयेति च, महाभाग! अतिशयाचिन्त्यशक्तियुक्तत्वेनेति, नैव 'ते' तव किञ्चिदिति चरणरेण्वादिकमपि नार्चयामो-न पूजयामो, अपि तु सर्व्वमर्चयामः, अस्य च पूर्वेणैव गतार्थत्वे पुनरभिधानमन्वयव्यतिरेकाभ्यामुक्तोऽर्थः सुखावगमो भवतीतिकृत्वा, अथवा अर्चयामस्ते इति सुब्ब्यत्ययात्त्वाम्, अनेन स्वतस्तस्य पूज्यत्वमुक्तं, उत्तरेण तु तत्स्वामित्वमपि पूज्यताहेतुरिति, तथा भुङ्केतो गृहीत्वेति गम्यते 'शालिम'न्ति शालिमयं, कोऽर्थः?-शालिनिष्पन्न 'कूरम्' ओदनं नानाव्यञ्जनैः-अनेकप्रकारैर्दध्यादिभिः संयुतं-सम्मिश्रं नानाव्यञ्जनसंयुतं, न त्वेकमेवेति सूत्रार्थः ॥ अन्यच्चमू. (३९४) इमं च मे अस्थि पभूयमन्न, तं भुंजसू अम्ह अनुग्गहट्ठा।
बाढंति पडिच्छइ भत्तपानं, मासस्स ऊ पारणए महप्पा॥ वृ. 'इदं च' प्रत्यक्षत एव परिदृश्यमानं 'मे' ममास्ति-विद्यते 'प्रभूतं' प्रचूरमन्नं-मण्डकखण्डस्वाद्यादि समस्तमपि भोजनं, यत्प्राक् पृथगोदनग्रहणं तत्तस्य सर्वान्नप्रधानत्वख्यापनार्थं, तद्भुङ्गास्माकमनुग्रहार्थ-वयमनुगृहीता भवाम इति हेतोः, एवं च तेनोक्ते मुनिराह-'बाढम्' एवं कुर्म इतीत्येवं ब्रुवाण इति शेषः, 'प्रतीच्छति' द्रव्यादितः शुद्धमिति गृह्णाति, भक्तपानमुक्तरूपं, 'मासस्स उ'त्ति मासादेव, यद्वा अन्त इत्यध्याहियते, ततश्च मासस्यैवान्ते यत्पार्यते-- पर्यन्तः क्रियते गृहीतनियमस्यानेनेति पारणं तदेव पारणकं, भोजनमित्युक्तं भवति, तस्मिन्तन्निमित्तं, 'निमित्तात्कर्मसंयोगे सप्तमिति' सप्तमी, माहात्म्येति प्राग्वत् इति सूत्रार्थः ।। तदा च तत्र यदभूत्तदाहमू. (३९५) तहियं गंधोदयपुप्फवासं, दिव्वा तहिं वसुहारा य वुट्ठा।
पहया दुंदुहीओ सुरेहि, आगासे अहोदानं च पुढे ।। वृ. 'तहियं ति तस्मिन् मुनौ भक्तपानं प्रतीच्छति यज्ञवाटे वा गन्धः-आमोदतस्तत्प्रधानमुदकं-जलं गन्धोदकं तच्चा पुष्पाणि च-कुसुमानि तेषां वर्ष-वर्षणं गन्धोदकपुष्पवर्ष, सुरैरिति सम्बधात् कृतमिति गम्यते, दिव्या-श्रेष्ठा यदिवा दिवि-गगने भवा दिव्या, तर्हिति तस्मिनेव नान्यत्र, अनेन कथमियतामेकत्र कल्याणानां मीलक इत्यन्यत्रैवान्यतरत्कल्याणान्तरं भविष्यती
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org