________________
२८८
उत्तराध्ययन-मूलसूत्रम्-१-११/३२७ स्त्विहापारमार्थिकत्वख्यापकः, द्रव्यतोऽपि हि भावपूजाहेतुरेव पूजोत्यते, इयं तु द्रव्यार्थमप्रधाना वा पूजेति द्रव्यपूजा, अतोऽपारमार्थिक्येव, एतदभिधानं तु द्रव्यशब्दस्यानेकार्थत्वसूचकमिति गाथार्थः ।। भावपूजामाहनि.[३१६] तित्थयरकेवलीणं सिद्धायरिआण सव्वसाहूणं ।
जा किर कीरइ पूआ सा पूआ भावओ होइ ।। वृ. तीर्थङ्कराश्च अर्हन्तः केवलिनाश्च-सामान्येनैवोत्पत्रकेवला: तीर्थकरकेवलिनस्तेषां, 'सिद्धाचार्याणां' प्रतीतानां, तथा सर्वसाधूनां, का?-या किल 'क्रियते' विधीयते पूजा सा पूजा भावतः' भावनिक्षेपमाश्रित्य भवति, किलशब्द: परोक्षाप्तवादसूचकः, तीर्थङ्करादिपूजा हि सर्वाऽपि क्षायोपशमिकादिभाववर्तिन एव भवतीति भावपूजैव, यत्तु पुष्पादिपूजाया द्रव्यस्तवत्वमुक्तं तद्रव्यैः-पुष्पादिभिः स्तव इति व्युत्पत्तिमाश्रित्य सम्पूर्णभावस्तवकारणत्वेन वेति गाथार्थ: ।। सम्प्रति प्रस्तुतोपयोग्याहनि.[३१७] जे किर चउदसपुव्वी सव्वक्खरसन्निवाइणो निउणा।
जा तेसि पूया खलु सा भावे ताइ अहिगारो।। वृ. 'ये' प्राग्वत् ‘किल' इति वाक्यालङ्कारे 'चतुर्दशपूर्विणः' चतुर्दशपूर्वधराः सर्वाणिसमस्तानि यान्यक्षराणि-अकारादीनि तेषां सन्निपातनं-तत्तदर्थाभिधायकतया साङ्गत्येन घटनाकरणं सर्वाक्षरसन्निपातः स विद्यते अधिगमविषयतया येषां तेऽमी सर्वाक्षरसन्निपातिनः 'निपुणा:' कुशलाः, या तेषां' चतुर्दशपूर्विणां पूजा' उचितप्रतिपत्तिरूपया, उपलक्षणं चेयं शेषबहुश्रुतपूजायाः, प्राधान्याच्चास्या एवोपादानं, 'खलु' निश्चितं, सा 'भावे' भावविषया, 'तया' बहुश्रुतपूजालक्षणया भावपूजया इह 'अधिकारः' प्रकृतमिति गाथार्थः । इत्युक्तो नामनिष्पत्रनिक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्मू. (३२८) संजोगा विप्पमुक्कस्स, अनगारस्स भिक्खुणो।
आयारं पाउक्करिस्सामि, आनुपुचि सुणेह मे।। व.संयोगाद्विप्रमुक्तस्यानगारस्य भिक्षो: आचरणमाचार:-उचितक्रिया विनय इतियावत्, तथा च वृद्धा:-'आयारोत्ति वा विनओत्ति वा एगट्ठ'त्ति स चेह बहुश्रुतपूजात्मक एव गृह्यते, तस्या एवात्राधिकृतत्वात्, तं प्रादुष्करिष्यामि' प्रकटयिष्यामि आनुपूर्व्या, शृणुत 'मे' मम कथयत इति शेषः इति सूत्रार्थः । इह च बहुश्रुतपूजा प्रक्रान्ता, सा च बहुश्रुतस्वरूपपरिज्ञान एव कर्तुं शक्या, बहुश्रुतस्वरूपं च तद्विपर्ययपरिज्ञाने तद्विविक्तं सुखेनैव ज्ञायत इत्यबहुश्रुतस्वरूपमाहमू. (३२९) जे यावि होइ निबिजे, थद्धे लुद्धे अनिग्गहे।
अभिक्खणं उल्लवई, अविनीए अबहुस्सुए। वृ. 'जे यावि'त्ति यः कश्चित्, चापिशब्दौ भिन्नक्रमावुत्तरत्र योक्ष्येते, 'भवति' जायते निर्गतो विद्यायाः-सम्यकशास्त्रावगभरूपायाः निविद्यः, अपिशब्दसम्बन्धात् सविद्योऽपि, यः 'स्तब्धः' अहङ्कारी 'लुब्धः' रसादिगृद्धिमान्, न विद्यते इन्द्रियनिग्रहः-इन्द्रियनियमनात्मकोऽस्येति अनिग्रहः 'अभीक्ष्णं' पुनः पुनः उत्-प्राबल्येनासम्बद्धभाषितादिरूपेण लपति-वक्ति उल्लपति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org