________________
उत्तराध्ययन- मूलसूत्रम् - १-९/२४३ पियं न विज्जई किंचि, अप्पियंपि न विज्जइ ॥
वृ. त्यक्ताः-परिहृताः पुत्राश्च - सुताः कलत्राणि च दारा येन स तथा तस्य, अत एव 'निर्व्यापारस्य' परिहृतकृपिपाशुपाल्यादिक्रियस्य 'भिक्षोः ' उक्तस्वरूपस्य 'प्रियम्' इष्टं 'न विद्यते' नास्ति 'किञ्चिद' अल्पमपि, 'अप्रियमपि' अनिष्टमपि 'न विद्यते' नास्ति, प्रियाप्रियविभागास्तित्वे हि सति पुत्रकलत्रत्यागं न कुर्यादेव, तयोरेवातिप्रतिबन्धविषयत्वादिति भावः, एतेन यदुक्तं-नास्ति किञ्चनेति तत्समर्थितं, तत् स्वकीयत्वं हि पुत्राद्यत्यागतोऽभिष्वङ्गतः स्यात् स च निषिद्ध इति, एवमपि कथं सुखेन वसनं जीवनं वेत्याह
मू. ( २४४ )
बहुं खु मुनिनो भद्दं, अनगारस्स भिक्खुणो । सव्वतो विष्पमुक्कस्स, एगंतमनुपस्सओ ॥
वृ. 'बहु' विपुलं 'खुः' अवधारणे, बह्वेव 'मुनेः' तपस्विनः 'भद्रं' कल्याणं सुखं वा 'अनगारस्य' 'भिक्षो:' इति च प्राग्वत्, 'सर्वतः ' बाह्यादभ्यन्तराच्च, यद्वास्वजनात् परिजनाच्च 'विप्रमुक्तस्य' इति पूर्ववत्, 'एकान्तम्' 'एकोऽह' मित्याद्युक्तरूपैकत्व भावनात्मकम् 'अनुपश्यतः' पर्यालोचयत इति सूत्रद्वयार्थः ॥
एयमद्वं निसामित्ता० ॥
२५८
मू. ( २४५ )
वृ. पुनरपि 'एय' सूत्रं प्रागवत्मू. ( २४६ )
पागारं कारइत्ता णं, गोपुरट्टालगाणि य । उस्सूलए सयग्घी य, ततो गच्छसि खत्तिया ॥
वृ. प्रकर्षेण मर्यादया च कुर्वन्ति तमिति प्राकारस्तं धूलीष्टकादिविरचितं 'कारयित्वा' विधाप्य 'गोपुराट्टालकानि च' तत्र गोभिः पूर्यन्त इति गोपुराणी- प्रतोलीद्वाराणि, गोपुरग्रहणमर्गलाकपाटयेपलक्षणम, अट्टालकानिप्राकारकोष्ठकोपरिवर्तीनी आयोधनस्थानानि 'उस्सूलय'त्ति स्वातिका परबलपातार्थमुपरिच्छादितगर्ता वा 'सयग्धीय'त्ति शतं घ्नन्तीति शतध्न्यः, ताश्च यन्त्रविशेषरूपाः ‘ततः' एवं सकलं निराकुलीकृत्य 'गच्छसी' ति तिव्यत्ययाद्गच्छ, क्षतान्त्रायत इति क्षत्रियस्तत्सम्बोधनं हे क्षत्रिय ! हेतूपलक्षणं चेदं स चायं यः क्षत्रियः स पुररक्षां प्रत्यवहित:, यथोदितोदयादि:, क्षत्रियश्च भवान् शेषं प्राग्वदिति सूत्रार्थः ॥
1
7
मू. ( २४७ ) एयमहं निसामित्ता०
वृ. ततः 'एयं' सूत्रं प्राग्वत्मू. ( २४८ )
Jain Education International
-
सर्द्ध नगरिं किच्चा, तवसंवरमग्गलं । खंति निउणपागारं तिगुत्तं दुप्पधंसयं ॥
वृ. ‘श्रद्धां’ तत्त्वरुचिरूपाशेषगुणाधारतया 'नगरी' पुरीं 'कृत्वा' हृदि विधाय, अनेन च प्रशमसंवेगादीनि गोपुराणि कृत्वेत्युपलक्ष्यते, अर्गलाकपाटं तर्हि किमित्याह - परिघस्तत्प्रधानं कपाटमप्यर्गलेत्युक्तं, ततोऽर्गलाम्- अर्गलाकपाटं कृत्वेति सम्बन्धः, प्राकारः क इत्याह'क्षांति' क्षमां निपुणमिव निपुणं - शत्रुरक्षणं प्रति श्रद्धाविरोध्यनन्तानुबन्धिकोपोपरोधितया 'प्राकारं ' शालं, कृत्वेति सम्बन्धः, उपलक्षणं चैषां मानादिनिरोधिनां मार्दवादीनां, तिसृभिः - अट्टालको च्चूलकशतघ्नीसंस्थानीयाभिर्मनो गुप्त्यादिभिर्गुतिभिः गुप्तं त्रिगुप्तं, मयूरव्यं
www.jainelibrary.org
-
For Private & Personal Use Only