________________
२३६
उत्तराध्ययन-मूलसूत्रम्-१-७/२०६ प्राग्वत् 'नरके' सीमन्तकादावुपलक्षणत्वात् अन्यत्र वा दुर्गतावुत्पद्यते ।। म.(२०७) धीरस्स पस्स धोरत्तं, सव्वधम्मानुवत्तिणणे।
. चिच्चा अधम्मं धम्मिटे, देवेसु उववज्जाइ। वृ. तथा धी: बुद्धिस्तया राजत इति धीरः- धीमान् परीषहाद्यक्षोभ्यो वा धीर: तस्य पश्य' प्रेक्षस्य 'धीरत्वं' धीरभावं, सर्वं धर्म क्षान्त्यादिरूपमनुवर्तते तदनुकूलाचारतया स्वीकुरुत इत्येवंशीलो यस्तस्य सर्वधर्मानुवर्तिनः, धीरत्वमेवाह-'त्यक्त्वा' हित्वा अधर्मविषयाभिरतिरूपमसदाचारु 'धम्मिटे'त्ति इष्ट धर्मा, यदिवा-अतिशयेन धर्मवानिति, इष्ठनि "विन्मतो गि" ति मतुब्लोपे धर्मिष्ठ इति, देवेषूपपद्यत इत्याह।। यतश्चैवमतो यद्विधेयं तदाहमू.( २०८) तुलिआण बालभावं, अबालं चेव पंडिए।
चइऊण बालभावं, अबालं सेवए मुनी।। वृ. 'तोलयित्वा' इह प्राग्वत् 'बालभावं' बालत्वम् 'अबालं'ति भावप्रधानत्वानिर्देशस्याबालत्वं धीरत्वं, 'च:' समुच्चये, एवेति प्राकृतत्वादनुस्वारलोप: ‘एवम्' अनन्तरोक्तप्रकारेण ‘पण्डितः' बुद्धिमान त्यक्त्वा 'बालभावं' बालत्वम् 'अबालं'ति अबालत्वं सेवते अनुतिष्ठति 'मुनि:' यतिरिति सूत्रत्रयार्थः ।। इति:' परिसमाप्तौ, ब्रुवीमीति पूर्ववत्। उक्तोऽनुगमः, सम्प्रति नयाः, तेऽपि प्राग्वदेवेति सूत्रार्थः ॥
अध्ययनं ७-समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता उत्तराध्ययनसूत्रे सप्तमाम्ध्ययनस्य भद्रबाहुस्वामिरचिता नियुक्तिः एवं शान्त्याचार्यरचिता टीका परिसमाप्ता।
अध्ययनं - ८ कापिलीयं - वृ. व्याख्यातं उरभ्रीयाख्यं सप्तममध्ययनं, सम्प्रत्यष्टममारभ्यते, अस्य चायमभिसम्बन्धःअनन्तराध्ययने रसगृद्धेरपायबहुलत्वमभिधाय तत्त्वाग उक्तः, स च निर्लोभस्यैव भवतीति इह निर्लो भत्वमुच्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्यानुयोगद्वारचर्चा प्राग्वद् यावन्नामनिप्पन्ननिक्षेपे कापिलीयमिति नाम, अतः कपिलनिक्षेपमाहनि.[ २५०] निक्खेवो कविलंमी चउन्विहो दुव्विहो य दव्वंमि।
आगमनोआगमओ नोआगमओ य सो तिविहो ।। वृ.'निक्षेपः' न्यासः 'कपिले' कपिलविषयः 'चतुर्विधः' चतुष्प्रकारो नामस्थापनाद्रव्यभावभेदात्, तत्राद्ये प्रतीते, द्विविधः' द्विभेदो भवति 'द्रव्य' इति द्रव्यविषयः द्वैविध्यमेवाहआगतमो नोआगमतः, तत्रागमतो ज्ञाताऽनुपयुक्तो नोआगमतश्च स 'त्रिविधः' त्रिभेद इति नि.[ २५१] जाणगसरीरभविए तव्वतिरित्ते य सो पुनो तिविहो।
एगभविअबद्धाउअ अभिमुहुओ नामगोए अ॥ वृ.कपिलशब्दार्थज्ञशरीरं पश्चात्कृतपर्यायं ज्ञशरीरमित्युच्यते, तदेवद्रव्यकपिलो, भविय'त्ति भव्यशरीरं पुरस्कृतकपिलशब्दार्थज्ञतात्मकपर्यायं द्रव्यकपिलः, तद्व्यतिरिक्तश्च, स तद्व्यतिरिक्तद्रव्यकपिल: पुन: 'त्रिविधः' त्रिभेदः, त्रैविध्यमेवाह-एकभविको बद्धायुष्कोऽभिमुख
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org