________________
२३४
उत्तराध्ययन-मूलसूत्रम्-१-७/२०० देवत्वलक्षणः तदा कथमयं जानानाऽपि जन्तुर्जीयते?, अत आह-जीयमानो न संवित्ते, किमुक्त भवति?-यद्यसौ जीयमानो जानीयात्तदा तदुपायपरतया न जीयेत, यदा त्वसौ विषयव्यामोहतो न जानीते तदा जीयत एवेति किमत्र चित्रम् ? इति सूत्रार्थः ।। समुद्रदृष्टान्तमाह.. मू.(२०१) जहा कुसागे उदयं, समुद्देण समं मिणे।
एवं मानुस्सगा कामा, देवकामान अंतिए। वृ. 'यथा' इति दृष्टान्तोपन्यासे, कुशो-दर्भविशेषस्तस्याग्रं-कोटि: कुशाग्रं तस्मिन् 'उदकं' जलं, तत्किमित्याह- समुद्रेण' इति 'तात्स्थ्यात्तद्यपदेश' इतिन्यायात् समुद्रजलेन समं' तुल्यं 'मिनुयात्' परिच्छिन्द्यात्, तथा किमित्याह-'एवम् उक्तनीत्या मानुष्यका: कामाः' मनुष्यसम्बन्धिनः कामा-विषयाः, मानुष्यविशेषणं तु तेषामेवोपदेशार्हत्वाद्विशिष्टभोगसम्भवाच्च, 'देवकामानां' दिव्यभोगानाम् 'अन्तिके' समीपे, कृता इति शेषः, दूरस्थितानां हि न सम्यगवधारणमित्येवमाह, किमुक्तं भवति?-यथाऽज्ञः कश्चित् कुशाग्रस्थितं जलबिन्दुमालोक्य समुद्रवन्मन्यते, एवं मूढाश्चकवादिमनुष्यकामान् दिव्यभोगोपमान् अध्यवस्यन्ति, तत्त्वतस्तु कुशाग्रजलविन्दोरिव समुद्रान्मनुष्यकामानां दिव्यभोगेभ्यो महदेवान्तरमिति सूत्रार्थः ।। म.(२०२) कुसग्गमित्ता इमे कामा, सन्निरुद्धमि आउए।
कस्स हेउपुरा काउं, जोगक्खेमं न संविदे? || वृ. कुशाग्रशब्देन कुशाग्रस्थितो जलबिन्दुरुपलक्ष्यते, तन्मात्रा:-तत्परिमाणाः 'इमे' इति प्रत्यक्षाः 'कामाः' प्रकृतत्वान्मुष्यविषयाः, कदा य इत्याह-'सन्निरुद्धे' अत्यन्तसंक्षिप्ते, यद्वा सम्-एकोभावेन निरुद्धे-अध्यवसानादिभिरुपक्रमणकारणैवष्टब्धे आयुषि'जीविते, अनेन मनुष्यायुपोऽल्पतया सोपक्रमतया वा कामानामल्पत्वमुक्तं, समद्धयाद्यल्पतोपलक्षणं चैतद, अस्मिंस्त्वर्थ उक्ते दिव्यकामास्तु जलधिलतुल्या इत्यर्थागम्यते, 'कस्स हेडंति सूत्रत्वात् कं हेतुं-कारणं 'पुरा काउंति तत एव पुरस्कृत-आश्रित्य, अलब्धस्य लाभो-योगो लब्धस्य च परिपालनं-क्षेमोऽनयोः समाहारो योगक्षेमं, कोऽर्थः ?-अप्राप्तविशिष्टधर्मप्राप्ति प्राप्तस्य च परिपालनं 'न संवित्ते' न जानीते, जन इति शेषः, तदसंवित्तौ हि मनुष्यविषयाभिष्वङ्ग एव हेतुः, ते च धर्मप्राप्यदिव्यभोगापेक्षयैवंप्रायाः, ततस्तत्त्यागतो विषयाभिलाषिणापि धर्म एव यतितव्यमित्यभिप्रायः, यद्वा-यतः कुशाग्रमात्रा-दर्भप्रान्तवदत्यल्पा इमे कामाः, तेऽपि न पल्योपमादिपरिमितौ द्राधीयस्यायुपि, किन्तु 'सन्निरुद्ध' संक्षिप्ते आयुषि, ततः 'कस्स हेउं'ति कस्माद्धेतोः पुरस्कृत्येव पुरस्कृत्य मुख्यतयाऽङ्गीकृत्य, असंयममिति शेषः, योगक्षेमम्' उक्तरूपं न संवित्ते, भावार्थस्त्वभिहित एवेति सूत्रार्थः ।। ___ इत्थं दृष्टान्तपञ्चकमुक्तं, तत्र च प्रथममुरभ्रदृष्टान्तेन भोगानामायतावपायबहुलत्वमभिहितम्, आयतौ चापायबहुलमपि यन्न तुच्छंन तत्परिहर्तुं शक्यत इति काकिण्याम्रफलदृष्टान्ततस्तुच्छत्वं, तुच्छमपि च लाभच्छेदात्मकव्यवहारविज्ञतयाऽऽयव्ययतोलनाकुशल एव हातुं शक्त इति वणिग्व्यवहारोदाहरणम्, आयव्ययतोलनाऽपि च कथं कर्तव्येति समुद्रदृष्टान्तः, तत्र हि दिव्यकामानां समुद्रजलोपमत्वमुक्तं, तथा च तदुपार्जनं महानायोऽनुपार्जन तु महान् व्यय इति तत्त्वतो दर्शितमेव भवति॥ इह च योगक्षेमासंवेदने कामानिवृत्त एव भवतीति तस्य दोषमाह
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org