SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ १८ उत्तराध्ययन-मूलसूत्रम्-१-१/१ विनय इति प्रक्रमः, ततश्च शब्दादिविषयसम्पत्तिनिमित्तं तथा तथा प्रवर्तनं कामविनयः, दुष्प्रधर्मनपतिसामन्तादेः प्राणादिभयेनानुवर्तनं भयविनयः, इहलोकानपेक्षस्य श्रद्धानज्ञानशिक्षादिषु कर्मक्षयाय प्रवर्तनं मोक्षविनयः, स च दर्शनज्ञानचारित्रतपउपचारभेदात् मञ्चप्रकारः, तत्र चौपचारिकोऽनुरूपव्यापारसम्पादनानाशतनाभेदतो द्विभेदः, तत्र चाद्ये अभ्युत्थानम्-आगच्छति गच्छति च दृष्टे गुरावासनमोचनम्, अभिग्रहो-गुरुविश्रामणादिनियमः, कृतिः-द्वादशावर्तादिवन्दनं, शुश्रूषणं न पक्खओ न पुरओ' इत्यादिविधिना गुरुवचनश्रवणेच्छा, पर्युपासनमित्यर्थः, अनुगमनम्--आगच्छतः प्रत्युद्गमनं, संसाधनं-गच्छतः सम्यगनुव्रजनं, 'कुलं'नागे-- न्द्रादिः 'गणः' कोटिकादिः, 'क्रिया' अस्ति परलोकोऽस्त्यात्माऽस्ति च सकलक्लेशलेशाकलङ्कितं मुक्तिपदमित्यादिप्ररूपणात्मिकेह गृह्यते, 'धर्मः' श्रुतचारित्रात्मकः 'ज्ञानं' मित्यादि 'आचार्यः' अनुयोगाचार्यः 'गणी' गणाचार्यः अनाशानता-मनोवाक्कायैरप्रतीपप्रवर्तनं, भक्तिःअभ्युत्थानादिरूपा, बहुमानोमानसोऽत्यन्तप्रतिबन्धः, वर्णनं वर्णः-श्लाघनं तेन सञ्जवलनाज्ञानादिगुणोद्दीपना वर्णसंज्वलना ।। श्रुतस्य चत्वार परिमानमस्येति चतुष्कः, सङ्ख्याया अतिशदन्तायाः कन्निति कन्, तुशब्दश्चतुविधनिक्षेपोऽवश्यं सर्वत्र वक्तव्य इति विशेषद्योतकः, "जत्थ उजं जाणेज्जा निक्खेवं निक्खेवे निरवसेसं। जत्थवि नवि जाणिज्जा चउक्कयं निविखवे तत्थ ।।" निक्षेपो-न्यासः, तत्राद्ययोः सुगमत्वात्तृतीयमाह-द्रव्यतो द्रव्यरूपं वा श्रुतं द्रव्य श्रुतम्, आगमतो नोआगमतश्च, तत्रागमतोज्ञाताऽनुपयुक्तः, नोआगमतस्त्वाह-निघुते-आगमाभिहितमर्थमतिक्लिष्टकर्मोदयात् कुयुक्तिभिरपनयतीति निह्नवो-जमालिप्रभृतिः पश्चात्कृतश्रुतपरिणतिः, आदिशब्दात्पुरस्कृतश्रुतपरिणतिसत्त्वपरिग्रहः, भाव श्रुतमप्यागमनोआगमभेदतो द्विधा, तत्रागमतोऽभिधातुमाह-भावतो भावरूपं वा श्रुतं भाव श्रुतं, प्राकृतत्वादिह पूर्वत्र च बिन्दुलोप:, 'श्रुते' श्रुतविषये, 'तुः' अवधारणे भिन्नक्रमः, तत उपयुक्त एव, कोऽर्थः ?यस्य श्रुतमिति पदं ज्ञातं तत्र चोपयोगः स भाव श्रुतं, तदुपयोगानन्यत्वाद, अग्न्युपयुक्तमानवकाग्निवदिति गाथार्थः ॥ उक्तावोधनामनिष्पन्ननिक्षेपौ, सम्प्रति सूत्रालापकनिष्पन्ननिक्षेपः प्रासावसरः, तथापि स नोच्यते, यतः सति सूत्रेऽसौ सम्भवति, सूत्रं च सूत्रानुगमे, स चानुगमभेद इति अनुगम एव तावदुपवर्ण्यते-द्विविधोऽनुगमः-निर्युक्त्यनुगमः सूत्रानुगमश्च, तत्राद्यो निक्षेपनियुक्तिउपोद्घातनियुक्तिसूत्रस्पशिकनियुक्त्यनुगमविधानतस्त्रिविधः, तत्र च निक्षेपनियुक्त्यनुगम उत्तरादिनिक्षेपप्रतिपादनादनुगत एव, उपोद्धातनिर्युक्त्यनुगमस्तु द्वारगाथाद्वयादवसेयः, तच्चेदम् "उद्देसे निद्देसे य निग्गमे खेत्त काल पुरिसे य। कारण पच्चय लक्खण नए समोयारणानुमए॥१॥ किं कइविहं कस्स कहि केसु कहें केच्चिरं हवइ कालं? । कइ संतरमविरहियं भवागरिस फासण निरुत्ती ॥२॥ एतदर्थः सामायिकनियुक्तितोऽवसेयः, सूत्रस्पर्शिकनिर्युक्त्यनुगमस्तु सूत्रावययव्याख्यानरूपत्वात् सूत्रस्पर्शिकनियुक्तेः सति सूत्रे सम्भवति, तच्च सूत्रानुगम एवेति तत्रैव वक्ष्यते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy