________________
१६
उत्तराध्ययन- मूलसूत्रम् - १-१/१ च वक्तव्यता प्रतिसूत्राभिधेयार्थविषया, अर्थाधिकारस्तु 'अहिगारो इत्थ विणएण' मित्यनेनैवाभिहितः । समवतारस्त्वानुपूर्व्यादिषु लाघवार्थं यथासम्भवमुक्त एव इति न पुनरुच्यते, "अहुणा य समोयारो जेन समोयारियं पइद्दारं । विनयसुयं सोऽनुगतो लाघवओ न उण वच्चेति ॥” निक्षेपत्रिघा ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्च, आह चभन्नइ घेप्पड़ य सुहं निक्खेवपयानुसारओ सत्थं । ओहो नाम सुत्तं निक्खेव्वं तओऽवस्सं ॥"
(ओघः) अध्ययनादि सामान्यनाम, आह च
ओहो जं सामत्रं सुयाभिहाणं चउव्विहं तं च । अज्झयणं अज्झीणं आओ झवणा य पत्तेय ॥१॥
नामादि चउब्भेयं वन्नेऊणं सुयानुसारेणं । विनयसुयं आउज्जं चउसुंपि कमेण भावेसुं ॥ २ ॥ जेन सुहप्पज्झयणं अज्झप्पाणयणमहिय नयनं वा । बोहस्स संजमस्स य मोक्खस्स व तो तमज्झयणं ॥ ३ ॥ अक्खीणं दिज्जंतं अव्वोच्छित्तिणयतो अलोगो व्व ।
आओ नानाईणं झवणा पावाण कम्माणं ॥४॥
-
प्रकटार्था एव, नवरं येन हेतुना शुभात्माध्ययनं शुभस्य- पुण्यस्यात्मन्याधिक्येनायनं गमनं ततो भवति, पठ्यते वा - ' -'सुहज्झप्पयणं' ति, तत्र शुभं सङ्क्लेशविरहितमध्यात्मं-मनः तत्रायनमर्थादात्मनः ततः, तथाऽधिकं नयनं प्रकर्षवत्प्रापणं, कस्य ? - बोधस्य-तत्त्वावगमस्य संयमस्य वा- पृथिव्यादिसंवरक्षणात्मकस्य मोक्षस्य वा कृत्स्नकर्मक्षयलक्षणस्य ततो भवति, आत्मनीति गम्यते, ‘ततः' तस्माद्धेतोः, प्राग्वदध्ययनमुच्यत इति शेषः, तथा 'अव्यवच्छित्तिनयतः ' अव्यवच्छित्तिनयमाश्रित्य द्रव्यास्तिकनयाभिप्रायेणेत्यर्थः, 'अलोकवत्' इत्युपलक्षणत्वादलोकाकाशवदिति । नामनिष्पन्ननिक्षेपेऽस्य विनयश्रुतमिति द्विपदं नाम, ततो विनयस्य श्रुतस्य च निक्षेपः शास्त्रान्तर उक्तोऽप्यवश्यमिह वक्तव्यः । तत्र च विनयनिक्षेपो बहुवक्तव्य इति तमतिदेष्टुं श्रुतनिक्षेपस्तु न तथेति तमभिधातुमाह
नि. [२९]
विनओ पव्वद्दिट्टो सुयस्स चउक्कओ उ निक्खेवो । दव्वसुय निहगार भावसुय सुए उ उवउत्तो ।। वृ. विनीयते- अपनीयतेऽनेन कर्मेति विनयः, स च पूर्वं दशवैकालिकविनयसमाधिनामाध्ययने उद्दिष्टउक्तः पूर्वोद्दिष्ट, स्थानाशून्यार्थं तदुक्तमेव किञ्चिदुच्यते
-
"विनयस्स य सुत्तस्स य निक्खेवो होइ दुण्ह य चउक्को । दव्वविनयम्मि तिनिसो सुवत्रमिति एवमातीते ॥१॥ लोकोवयारविनओ अत्थनिमित्तं च कामहेउं च । भयविनयमोक्खविनओ विनओ खलु पंचहा नेओ ॥२॥ अब्भुवाणं अंजलि आसनदानं च अतिहिपूया य ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org