SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन- मूलसूत्रम् - १-१ / १ पत्रिंशद्गच्छगतयां श्रेण्यामन्योऽन्याभ्यासतो द्विरूपोनसङ्ख्याभेदं भवति, उक्तं च"एकाद्या गच्छपर्यन्ताः, परस्परसमाहताः । राशयस्तिद्धि विज्ञेयं, विकल्पगणिते फलम् ॥" इह चासम्मोहाय पट्पदाङ्गीकारतः प्रस्तारानयनोपाय उच्यते तत्र चैकादीनि षडन्तानि पट् पदानि स्थाप्यन्ते तानि चान्योऽन्यं गुण्यन्ते, ततश्च जातानि सप्त शतानि विंशत्युत्तराणि तेषां चान्त्येन पट्केन भागहारः, तत्र लब्धं विशत्युत्तरं शतं १२०, इयन्तः षष्ठपङ्क्तौ षट्का न्यस्यन्ते, तदधस्तावन्त एव क्रमेण पञ्चकचतुष्ककत्रिकद्विकैककाः स्थाप्या:, इत्थं जातानि षष्ठङ्क्तौ सप्त शतानि विशत्युत्तराणि । ततो विंशत्युत्तरशतस्य पञ्चकेन भागहारः, तत्र च लब्धा चतुर्विंशतिः २४, तावत्सङ्ख्याः पञ्चमपङ्क्तौ क्रमेण पञ्चकचतुष्कत्रिकद्विकैकका न्यस्या:, जातं विंशत्युत्तरं शतं, तस्य चाधस्तादग्रेतनपङ्क्तिस्थमङ्कमपहाय यथामहत्सङ्ख्यमङ्कविन्यासः, तत्रोग्रेतनपङ्क्तिस्थऋ पञ्चकस्तत्परित्यागतश्च सर्वबृहत्सङ्ख्यः षट्कश्चतुर्विंशतिवारानधः स्थाप्यते, ततस्त्रिकापेक्षया चतुष्को द्विकापेक्षया च त्रिक एककापेक्षया च द्विको बृहत्सङ्ख्यः तत एककश्च तावत एव वारान् न्यसनीयः, जातं पुनर्विशत्युत्तरं शतम्, एवमग्रेतनपंङ्क्तिस्थचतुष्कत्रिकद्विकेकपरिहारतस्तथैव तावत्रेय यावत्पञ्चमपङ्क्तावपि पूर्णानि सप्त शतानि विंशत्युत्तराणि । ततश्चतुर्विशतेश्चतुष्केण भागहारः, तत्र लब्धाः षट् ६, ततश्चतुर्थपङ्क्तौ तावन्त एवाधौ ऽधश्चतुष्कत्रिकद्विकैककाः स्थाप्याः, यावज्जाता चतुर्विंशतिः, ततश्चाग्रेतनपङ्क्तिस्थाङ्कपरिहारादिप्रागुक्तयुक्तित एव पङ्क्तिः पूरणीया । १४ भूयः पट्कस्य त्रिकेण भागहारः, ततश्च लब्धो द्विकः, ततस्तृतीयपङ्क्तौ द्वौ त्रिको पुनर्द्वावेव द्विको भूय एककौ च द्वावधः स्थापनीयौ, अधस्ताच्च पुरः स्थिताङ्गत्यागतो बृहत्सङ्ख्याङ्कन्यासतश्च विंशत्युत्तरसप्तशतप्रमाणैव पङ्क्तिः पूरणीया । पड्भागहारलब्धस्य द्विकस्य विभजने लब्ध एक:, ततो द्वितीयपङ्क्तौ द्विक एककश्चैको विरचनीयः, तदधश्च पुरोदितपुरस्याङ्कपरिहारादिन्यायतस्तावत्सङ्ख्यैवं द्वितीयपङ्क्तिः कार्या प्रथमपङ्क्तिस्तु पुरस्थाङ्कपरिहारतः पूरणीया। उक्तं च - "गणिते ऽन्त्यविभक्ते तु लब्धं शेषैर्विभाजयेत् । आदावन्ते च तत्स्थाप्यं, विकल्पगणिते क्रमात् ॥ " इह च परस्परगुणनागतराशिर्गणितमुच्यते, शेषास्तु पट्कापेक्षया पञ्चकादयः, 'आदा'विति च पष्ठपङ्क्तौ, 'अन्त' इति च पञ्चमादिपङ्क्ताविति । उक्ताऽऽनुपूर्वी, सम्प्रति नाम, तत्र नमति - ज्ञानरूपादिपर्यायभेदानुसारतो जीवपरमाण्वादिवस्तुप्रतिपादकतया प्रह्वीभवतीति नाम, "जं वत्थुणोऽभिहाणं पज्जवभेयानुसारि तं नाम । पइभेयं जं नमए पइभेयं जाइ जं भणियं ॥ " तच्चैकनामादि दशनामान्तम्, इह तु षड्विधनामन्दयिकादिषड्भावरूपेणाधिकारः, तदन्तभूतक्षायोपशमिकभावे श्रुतज्ञानात्मकत्वेन प्रस्तुताध्ययनस्यावतारात्, आह च"छव्विहनामे भावे खओवसमिए सुयं समोयरइ । जं सुयनाणावरणक्खओवसमजं तयं सव्वं ॥ " For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy