________________
अध्ययनं-४,[नि. १८३] न्यासः षड्विधो भवति, किमुक्तं भवति ?- नामकरणादिभेदेन निक्षिप्यमाणं षड्विधमेव करणं भवतीति गाथार्थः ॥ तत्र च नामकरणं करणमिति नामैव नाम्नो वा करणं नामकरणंप्रियङ्करशुभङ्कराद्यभिधानाधानं, यदिवा नामत: करणं नामकरणं यत्पूज्यनामापेक्षया पूजादिविधानं, स्थापनाकरणम्अक्षनिक्षेपादि, यो वा यस्य करणस्याकारः, तथा च भाष्यकृत
"नाम नामस्स व नामतो य करणंति नामकरणंति।
ठवणाकरणं नासो करणागारो य जो जस्स ।।" द्रव्यकरणं तु द्रव्यमेव क्रियत इति करणं, कृत्यल्युटोऽप्यन्यत्रापीति । कर्मण्यपिल्युटो दर्शनात्, भावसाधनपक्षे तु द्रव्येण द्रव्यस्य द्रव्ये वा यथासम्भवं क्रियात्मकं करणं, तथा चाह
"तं तेणं तस्स तंमि व संभवतो उ किरिया मया करणं।
दव्वस्स व दव्वेण व दव्वंमि व दव्वकरणंति ॥" । तच्चागमनोआगमभेदतो द्विधा, तत्रागमतो ज्ञाता तत्र चानुपयुक्तो, नोआगमतस्तु ज्ञशरीरभव्यशरीरतद्रव्यतिरिक्तभेदात्विधा, तत्र ज्ञशरीरभव्यशरीदव्यकरणे प्रतीते एवेत्यनादृत्य तद्व्यतिरिक्तमाहनि. [ १८४] दव्वकरणं तु दुविहं सन्नाकरणं च नो य सन्नाए।
कडकरणमट्टकरणं वेलूकरणं च सन्नाए।। वृ.द्रव्यकरणं, तुशब्दो नोआगमत इदमिति विशेषद्योतकः, 'द्विविध' द्विप्रकारं संज्ञाकरणं च 'नो य सन्नाए'त्ति करणमिति प्रक्रमात्, चशब्दो भिन्नाक्रमः, ततश्च नोसंज्ञाकरणं च । तत्र संज्ञाकरणमाह- 'कटकरणं' कटनिवर्तकं चित्राकारमयोमयं पाइल्लयादि, 'अर्थकरणम्' अर्थाभिनिर्वर्तकमधिकरण्यादि येन द्रम्मादि निष्पाद्यते, अर्थार्थं वा करणमर्थकरणं यत्र राज्ञोऽ
श्चिन्त्यन्ते, अर्थ एव वा तैस्तैरुपायैः क्रियत इत्यर्थकरणं, वेलुकरणं च रूतपूणिकानिर्वर्तकं चित्राकारमयं वेणुशलाकादि, 'संज्ञायां संज्ञाकरणे, आह-नामकरणसंज्ञाकरणयोः कः प्रतिविशेषो?, न हि नामसंज्ञाशब्दयोरर्थान्तरविषयत्वमुत्पश्यामः, उच्यते, इह नामकरणं करणमित्यभिधानमात्रं, संज्ञाकरणं तु यत्रान्वर्थोऽस्ति, संज्ञाकरणेषु हि कटकरणादिषु क्रियतेऽनेनेति करणमित्यनुगतोऽर्थः प्रतीयते, द्रव्यरूपाणि चैतानि, करणमितिरूढ्य तु संज्ञाकरणान्युच्यन्ते,
"सन्ना नामंति मई तण्णो नामं जमहिहाणं । जंवा तवत्थबिवले कीरति दव्वं तं दवणपरिणामं ।।
पेलुकरणादि न हि तं तयत्थसुन्नं न वा सद्दो॥१॥ जई न तदत्थविहीणं तो किदव्यकरणं?, जतो तेणं ।
दव्वं कीरति सन्नाकरणंतिअय करणरूढीओ।॥२॥" नोसंज्ञाकरणं तु यत्करणमपि सन्न तत् संज्ञया रूढं, उक्तं हि-नोसन्नाकरणं पुण दव्वस्सारूढकरणसन्नपि"ति गाथार्थः ॥ एतदेव भेदतोऽमिधातुमाहनि.[१८५] नोसन्नाकरणं पुन पओगसा वाससा य बोद्धवं ।
साईअमणाईअं दुविहं पुन विस्ससाकरणं ।। 28/11
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org