________________
१५६
उत्तराध्ययन-मूलसूत्रम्-१-३/१०७ वास्त्विति चैको हिरण्यमिति द्वितीयः पशव इति तृतीयो दासपौरुषेयमिति चतुर्थः, एते किमित्याह-काम्यत्वात् कामा:-मनोज्ञशब्दादयः, तद्धेतवः स्कन्धा: पुद्गलसमूहाः ततः कामस्कन्धाः, यत्र भवन्तीति गम्यते, प्राकृतत्वाच्च नपुंसकनिर्देशः, 'तत्र' तेषु कुलेषु 'से' इति स'उपपद्यते' जायते। अनेन चैकमङ्गमुक्तं, शेषाणि तु नवाङ्गन्याह-मित्राणि-सहपांशुक्रीडितादीनि सन्त्यस्येति मित्रवान्, ज्ञातयः-स्वजनाः सन्त्यस्येति ज्ञातिमान् भवति, उच्चैःलक्ष्म्यादिक्षयेऽपि पूज्यतया गोत्रं-कुलमस्येत्युच्चैर्गोत्र:, चः समुच्चये, वर्णः-श्यामादि, स्निग्धत्वादिगुणैः प्रशस्योऽस्येति वर्णवान्, 'अल्पातंकः' आतङ्कविरहितो नीरोग इत्यर्थः, महती प्रज्ञाऽस्येति महाप्रध:- पण्डितः, 'अभिजातः' विनीतः, स हि सर्वजनाभिगमनीयो विति, दुविनीतस्तु शेपगुणा-न्वितोऽपि न तथेति, अत एव च 'जसो'त्ति यशस्वी, तथा च सति बले'त्ति बली कार्यकारणं प्रति सामर्थ्यवान्, उभयत्र सूत्रत्वान्मत्वर्थीयलोपः, एकैकोऽपि हि मित्रत्वादिगुणस्तत्त-त्कार्याभिनिर्वर्तनक्षमः, किं पुनरमी समुदिताः ?, शरीरसामर्थ्याच्चेह बलीति ।। तत्किमेवंविध..गुणसम्पत्समन्वितं मानुषत्वमेव तत्फलमित्याहमू.(११४) भोच्चा मानुस्सए भोए, अप्पडिरूवे अहाउयं।
पुब्बि विसुद्धसद्धम्मे, केवलं बोहि बुझिया। वृ.'भुक्त्या' आसेव्य 'मानुष्यकान्' मनुष्यसम्बन्धिन: भुज्यन्त इति भोगा:-मनोज्ञशब्दादयस्तान्, अविद्यमानं प्रतिरूपमतिप्रकर्षवत्त्वेनानन्यतुल्यमेषामित्यप्रतिरूपा: तान्, 'यथायु:' आयुषोऽनतिक्रमेण पूर्व-पूर्वजन्मविशुद्धो निदानादिरहितत्वेन सद्धर्मः(1)' शोभनो धर्मोऽस्येति विशुद्धसद्धर्मा, केवलत्वाच्च धर्मादनिच केवला'दिति इत्यनिच् भवति, केवलाम्' अलकङ्का 'बोधि' जिनप्रणीतधर्मप्राप्तिलक्षणां 'बुध्ध्वा' अनुभूय प्राप्येतियावत् ।। ततोऽपि किमित्याहमू.(११५) चउरंगं दुल्लभं मच्चा, संजमं पडिवज्जिया।
तवसा धुतकम्मसे, सिद्धे भवति सासए।। वृ. चतुर्णामङ्गानां समाहारश्चतुरङ्गी तामभिहितस्वरूपां 'दुर्लभा' दुष्प्रापां 'मत्वा' ज्ञात्वा 'संयम' सर्वसावद्ययोगविरतिरूपं 'प्रतिपद्य' आसेव्य, 'तपसा' बाह्येनान्तरेण च धुतम्अपनीतं, कम्मंसित्ति-कार्मग्रन्थिकपरिभाषा सत्कर्मानेनेति धुतकर्मांशः, तदपनयनाच्च बन्धादी-नामप्यर्थतोऽपनयनमुक्तमेव, यद्वा धुताः कर्मणोऽशा-भागा येन स तथाविधः, किमित्याह-सिद्धो भवति, स च किमाजीविकमतपरिकल्पितसिद्धवत् पुनरिहैति उत नेत्यत आह-'शाश्वत:' शश्वद्भवनात्, शश्वद्भवनं च पुनर्भवनिबन्धनकर्मबीजात्यन्तिकोच्छेदात्, तथा चाह
"दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नांकुरः।
कर्मबीजे तथा दाधे, न रोहति भवांकुरः ।।" इति, इह पुनस्तस्येहागमनकल्पनमतिमोहविलसितं, तथा च स्तुतिकृत्-"दग्धेन्धन: पुनरुपैति भवं प्रमथ्य, निर्वाणमप्यनवधारितभीरुनिष्ठः । मुक्तः स्वयंकृतभवश्च परार्थशूरस्त्वच्छा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org