________________
अध्ययनं-३,[ नि. १७६ ]
१४५ दृष्टहेतकैव यद्वा कर्मनिबन्धनाऽपि?,यदाऽऽद्यः पक्षस्तहि बहिर्वेदनापि दृष्टा बाह्यहेतुकैवेति कि कर्मकल्पनया?, अथ कर्महेतुकाऽपि तर्हि तत्कि यत्रैव स्थितं तत्रैव वेदनानिबन्धनमुतान्यत्रापि?, यदि तत्रैव तर्हि त्वन्मतेन बहिरेवैत-दवस्थितमित्यन्तः सातादिवेदनोच्छेदप्रसङ्गः, अथान्यत्रापि तद्वेदनानिबन्धनं तर्हि किं नैकात्म-स्थितं सर्वात्मस्वपि?, उक्तं च
"जइ वावि भिन्नदेसंपि वेयणं कुणइ कम्ममेवं ते।
कह अन्नसरीरगयं न वेयणं कुणति अन्नस्स?,॥" तथा च कृतनाशाकुताभ्यागमप्रसङ्गः, अथ येनैव कृतं तस्यैव तन्निबन्धनं, तथापि पादवेदनायां शिरोवेदनाऽऽपत्तिः, अथ सञ्चारित्वात्तस्यान्तरप्यवस्थानमिति नान्तः सातादिवेदनोच्छेदप्रसङ्गः, एवं तहि न कञ्चकतुल्यता, तस्य बहिरेव नियतत्वात्, युगपदुद्भयत्र वेदनाऽभावप्रसङ्गश्च, यथा च बहि:स्थमन्तःसञ्चारितया वेदनाहेतरेवमन्त:स्थितं बहि:सञ्चारितया तद्धेतुरिति विपर्ययकल्पनाऽपि किन?, नियामकाभावात्, सञ्चारित्वे च कर्मणो वायोरिव न भवान्तरानुवृत्तिः, तदुक्तम्-"नं भवंतरमन्नेई सरीरसंचारतो तदनिलो ब्व"त्ति, किञ्चकाञ्चनोपलयोरपि पृथग्भावोऽस्ति वा न वा?, न तावन्नास्ति प्रत्यक्षतस्तद्दर्शनात्, अस्तित्वे च यथा भविष्यत्पृथग्भावित्वेऽपि तयोरविभागावस्थानेन सृपष्टमात्रता तथा जीवकर्मणोरपिस्यात्, न च काञ्चनसत्तैव तत्र पूर्वं नास्ति, चाकचिक्यदर्शनात्प्रत्यक्षतः, तथा यत्र यत्रास्ति न तस्य तत उत्पादः, सिकताभ्य इव तैलस्येत्यनुमानतश्च तत्सिद्धेः, ततश्च
'यत्र यद्वेदनाहेतुः, कर्म तत्रस्थमेव तत् ।
सर्वत्र वेदनाहेतुः, कर्म सर्वत्रगं ततः।।' प्रयोगश्च-यत्र यद्वेदनानिमित्तं कर्म तत्रस्थमेव तद अन्यथा दर्शितन्यायेनातिप्रसाद, वेदनाहेतुश्च सर्वत्रात्मप्रदेशेषु कर्म इत्याद्याचार्योक्तं तेन गंतूण सिटुं, एत्तियं भणियं आयरिएहिं, एवं पुनरवि सो संलीणो अच्छइ, समप्पउ ततो खोभेहामि । अन्नया नवमे पुवे पच्चक्खाणे साहूणं जावज्जीवाए तिविहं तिविहेण पाणातिवायं पच्चक्खामि, एवं पच्चक्खाणं वणिज्जइ, ताहे सो भणति-अवसिद्धंतो, न होति एवं पुन, कहं कायव्वं?, सुणेहनि.[ १७७] पच्चक्खाणं सेयं अपरिमाणेण होइ कायव्वं ।
जेसिं तु परीमाणं तं दुटुं होइ आसंसा।। वृ.सव्वं पच्चक्खामि पाणाइवायं अपरिमाणाए तिविहं तिविहेणं, एवं सव्वं आवकहियं, किं निमित्तं परिमाणं न कीरति?, जो सो आसंसादोसो सो नियत्तिता भवति, जावजीवाए पुन भणंतेण परिमाणेण अब्भवगयं भवति, जहाऽहं हणिस्सामि पाणाई, एतनिमित्तं अपरिमाणाए कायव्वं । स चैवं वदन्विन्ध्येनाभिदधे- यथाऽयं भवदाशयः
सावधि स्यादभिष्वङ्गि, गृहिणामित्वरं यथा।
प्रत्याख्यानं तथा चेदं, यावज्जीवं यतेरपि॥ प्रयोग:-यत्परिमाणवत् प्रत्याख्यानं तत्साभिष्वङ्गं, यथा गृहिणामित्वरप्रख्यानं, परिमाणवच्च यतेरपि यावज्जीवं सर्वसावधप्रत्याख्यानमित्ययमनैकान्तिको हेतुः, तथाहि-किमत्र परिमाण28/10
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org