SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ९६ दशवैकालिक मूलसूत्रं - ३ /-/ १७ 'उत्तमं प्रणिपातेन, शूरं भेदेन योजयेत् । नीच मल्यप्रदानेन सदृशं च पराक्रमैः ॥ ' नि. [१९३] इत्युक्तः कथागाथाया भावार्थ:, उक्ताऽर्थकथा साम्प्रतं कामकथामाहरूवं वओ य वेसो क्खत्तं सिक्खियं च विसएसुं। दिट्ठे सुयमणुभूयं च संथवो चैव कामकहा। वृ. रूप सुन्दरं वयश्चोदग्रं वेषः उज्ज्वलः दाक्षिण्यं मार्दवं, शिक्षितं च विषयेषु - शिक्षा च कलासु, दृष्टमद्भूतदर्शनमाश्रित्य श्रुतं चानुभूतं च संस्तवश्च परिचयश्चेति कामकथा । रूपे च वसुदेवादय उदाहरणं, वयसि सर्व एव प्रायः कमनीयो भवति लावण्यात्, उक्तं च“यौवनमुदग्रकाले विदधाति विरूपकेऽपि लावण्यम् । दर्शयति पाकसमये निम्बलफलस्यापि माधुर्यम् ॥” इति, वेष उज्जवलः कामाङ्गं, 'यं कञ्चन उज्जवलवेषं पुरुषं दृष्टवा स्त्री कामयते' इति वचनात्, एवं दाक्षिण्यमपि " पञ्चालः स्त्रीषु मार्दवम्" इति वचनात्, शिक्षा च कलासु कामाङ्गं वैदग्ध्यात्, "कलानां ग्रहणादेव, सौभाग्यमुपजायते । देशकालौ त्वपेक्ष्यासां, प्रयोगः संभवेन्न वा ॥ " - अन्ये त्वत्राचलमूलदेवौ देवदत्तां प्रतीत्येक्षुयाचनायां प्रभूतासंस्कृतस्तोकसंस्कृतप्रदानद्वारेणोदाहरणमधभिदधति, दृष्टमधिकृत्य कामकथा यथा नारदेन रुक्मिणीरूपं दृष्ट्वा वासुदेवे कृता, श्रुतं त्वधिकृत्य यथा पद्मनाभेन राज्ञा नारदाद्रौपदीरूपमाकर्ण्य पूर्वसंस्तुतदेवेभ्यः कथिता, अनुभतं चाधिकृत्य कामकथा यथा-तरङ्गवत्या निजानुभवकथने, संस्तवश्च - कामकथापरिचयः 'कारणानी' तिकामसूत्रपाठात्, अन्ये त्वभिदति 'सइदंसणा उपेम्मं पेमाउरई रईय विस्संभो । विस्संभाओ पणओ पञ्चविहं वड्ढए पेम्मं ॥" धर्मकथामाह इति गाथार्थः । उक्ता कामकथा, नि. [१९४] नि. [१९५ ] नि. [१९६] नि. [१९७ ] नि. [१९८ ] नि. [१९९ ] Jain Education International धम्मका बोद्धव्या चउव्विहा धीरपुरिसपन्नत्ता । अक्खेवणि विक्खेवणि संवेगे चेव निव्वेए। आयारे ववहारे पन्नत्ती चेव दिट्ठीवाएय । एसा चउव्विहा खलु कहा उ अक्खेवणी होई । विज्जा चरणं च तवो पुरिसक्कारो य समिइगुत्तीओ। उवइस्सइ खलु जहियं कहाइ अक्खेवणीइ रसो ! कहिऊण ससमयं तो कहेइ परसमयमह विवच्चासा । मिच्छासम्मावार एमेव हवंति दो भेया ॥ जा ससमयवज्जा खलु होइ कहा लोगवेयसंजुत्ता । परसमयाणं च कहा एसा विक्खेणी नाम ॥ जा समरण पुवि अक्खाया तं छुभेज्ज परसमए । परसासणवक्खेवा परस्स समयं परिकहेइ ।। For Private & Personal Use Only www.jainelibrary.org
SR No.003380
Book TitleAgam Sutra Satik 42 Dashvaikalik MoolSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 42, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy