________________
अध्ययनं-२, उद्देशकः - [नि.१६१]
७७ अदिच्चो उदेइ सा तस्स होइ पुव्वदिसा" इत्यादि, प्रज्ञापकपूर्व-प्रज्ञापन(क) प्रतीत्य पूर्वा दिक् यदभिमुख एवासौ सैव पूर्वा, पूर्वपूर्वं चतुर्दशानां पूर्वाणामाद्यं, तच्च उत्पादपूर्वम्, एवं वस्तुप्राभृतातिप्राभृतेष्वपि योजनीयम्, अप्रत्यक्षस्वरूपाणि चैतानि, भावपूर्वम्-आद्यो भावः स चौदयिक इति गाथार्थः । उक्तो नामनिष्पन्नो निक्षेपः साम्प्रतं सूत्रालापकनिष्पन्न-निक्षेपस्यावसरः, इत्यादिचर्चः पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदम्मू.(६) कहनु कुज्जा सामण्णं, जो कामे न निवारए।
पए पए विसीदंतो, संकप्पस्स वसंगओ? वृ.इह च संहितादिक्रमेण प्रतिसूत्रं व्याख्याने ग्रन्थगौरवमिति तत्परिज्ञाननिबन्धनं भावार्थमात्र मुच्यते-तत्रापि कत्यहं कदाहं कथमहमित्याद्यदश्यपाठान्तरपरित्यागेन दृश्यं व्याख्याते- 'कथं नु कुर्याच्छामण्यं यः कामान निवारयति?''कथं' केन प्रकारेण, नु क्षेपे, यथा कथं नु स राजा यो न रक्षति?, कथं नुस वैयाकरणो योऽपशब्दान् प्रयुक्ते, एवं कथं नुस कुर्यात्, 'श्रामण्यं' श्रमणभावं यः कामान्, 'न निवारयति' न प्रतिषेधते?, किमिति न करोति?, तत्र "निमित्तकारणहेतेषु सर्वासां विभक्तिनां प्रायो दर्शनम्" इति वचनात् कारणमाह-'पदे पदे विषीदन् संकल्पस्य वशं गतः' कामानिवारणेनेन्द्रियाद्यपराधपदापेक्षया पदे पदे विषीदनात्संकल्पस्य वशंगतत्वात्। (अप्रशस्ताध्यवसाय: संकल्पः) इति सूत्रसमासार्थ: अवयवार्थंतुसूत्रस्पर्शनियुक्त्या प्रतिपादयति-तत्रापि शेषपदार्थान् परित्यज्य कामपदार्थस्य हेयतयोपयोगित्वात्स्वरूपमाहनि.[१६] नामंठवणाकामा दव्वकामा य भावकामाय।
एसोखलु कामाणं निक्खेवो चउविहो होइ ।। वृ.नामस्थापनाकामा इत्यत्र कामशब्द: प्रत्येकभिसंबध्यते, द्रव्यकामाश्च भावकामाश्च, चशब्दौ स्वगतानेकभेदसमुच्चयार्थो, एषखलुकामानांनिक्षेपश्चतुर्विधो भवतीति गाथार्थः। तत्रनामस्थापने क्षुण्णत्वादनादृत्य द्रव्यकामान् प्रतिपादयन्नाहनि.[१६३] सहरसरूवगंधाफासा उदयंकरा यजेदव्वा।
दुविहा य भावकामा इच्छाकामामयणकामा वृ.शब्दरसरूपगन्धस्पर्शा: मोहोदयाभिभूतैः सत्त्वैः काम्यन्त इति कामाः, मोहोदयकारीणि च यानि द्रव्याणि संघाटकविकटमांसादीनि तान्यपि मदनकामाख्यभावकामहेतुत्वाद्रव्यकामा इति, भावकामानाह-'द्विविधाश्च' द्विप्रकाराश्च भावकामाः, इच्छाकामा मदनकामाश्च, तत्रैषणमिच्छा सैवचित्ताभिलाषस्वरूपत्वात्कामा इतीच्छामाकामाः, मदयतीति तथा मदन:-चित्रो मोहोदयः स एव काम प्रवृत्तिहेतुत्वात्कामा मदनकामा इति गाथार्थः ।। इच्छाकामान् प्रतिपादयतिनि.[१६४] इच्छा पसत्थमपसत्थिगा यमयणमिवेयउवओगो।
तेनहिगारो तस्स उवयंति धीरा निरुत्तमिणं॥ वृ.इच्छा प्रशस्ता अप्रशस्ता च, अनुस्वारोऽलाक्षणिकः सुखमुखोच्चारणार्थः, तत्र प्रशस्ता धर्मेच्छा मोक्षेच्छा, अप्रशस्ता युद्धेच्छा, राज्येच्छा, उक्ता इच्छकामाः, मदनकामानाह मदने' इति उपलक्षणार्थत्वान्मदनकामे निरूप्ये काऽसावित्यत आह-'वेदोपयोग: वेद्यत इति वेदःस्त्रीवेदादिस्तदुपयोगः-तद्विपाकानुभवनम्, तद्वयापारइत्यन्ते, यथा स्त्रीवेदोदयेन पुरुषप्रार्थयत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org